Śrīkoṣa
Chapter 1

Verse 1.13

ननु सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वेऽपि न सिद्धसाधनावकाशः शिवबोधौपयिकेश्वरतात्पर्यवत्ताया एव साध्यत्वात् । नारायणशब्दे सिद्धान्तिभिस्तदनङ्गीकारात् ईदृशतात्पर्यवत्त्वसाधनमेव हि प्रकृतोपयुक्तम् । कारणवाक्यघटकनारायणशब्दाच्छिव- बोधसंभवस्यैव उपपादनीयत्वात्। वैदिकवाक्यार्थबोधे ईश्वरतात्पर्यस्यैव नियामकत्वादिति चेत् - एवमपि यत्न क्वचन नारायणशब्दे दर्शितसाध्यसिद्धिमादायानुमानपर्यवसानसंभवात् उद्देश्यासिद्धिः। एवं घटो द्रव्यमिति वाक्यघटकद्रव्यपदे व्यभिचारश्च । द्रव्यत्वेन घटबोधपरे तस्मिन् उक्तसाध्यविरहवति शिववृत्तिद्रव्यत्वावच्छिन्नप्रतिपादकत्वसत्त्वात्। एवं युधिष्ठिरा- दिशब्देऽपि दर्शितदिशा व्यभिचारो बोध्यः ।