Śrīkoṣa
Chapter 1

Verse 1.14

पञ्चमस्य परहृदयैकसाक्षिकनिर्वचनस्य शिवबोधौपयिकेश्वरतात्पर्यवत्त्वव्याप्यत्वे तादृशतात्पर्यविषयत्वसाधकतया कथंचित् प्रकृतोपयोगसंभवेऽपि घटो द्रव्यमिति वाक्यघटकद्रव्यपदे युधिष्ठिरादिशब्दे च व्यभिचारः । तत्र दर्शिततात्पर्यवत्त्वस्यासत्त्वेन तद्व्याप्यतादृशधर्माभावस्यावश्यकत्वात् हेतोश्च प्रागुपपादितत्वात् । तादृशधर्मस्य दर्शिततात्पर्यवत्त्वव्यभिचारित्वे तु प्रकृतानुपयोगः स्पष्टः। तादृशतात्पर्यवत्त्वसाधकत्वस्याप्यसंभवात् । तस्मात् परोपदर्शितः प्रयोगोऽनुपपन्न एवेति
सिद्धम्।