Chapter 1
Verse 1.15
ननु तथापि कारणवाक्यघटकनारायणशब्दः शिवबोधौपयिकेश्वरतात्पर्यवान् कारण- परत्वात् नसन्नचासदित्यादिवाक्यगतशिवशब्दवत् सद्ब्रह्मात्मादिशब्दानामपि छागपशुन्यायेन शिवे पर्यवसानान्न तत्र व्यभिचारः । न चाप्रयोजकता, यद्यस्य शिवपरत्वं न स्यात् तर्हि 'नसन्नचासदि’त्यादिवाक्यान्तरैकार्थ्यं न स्यादिति तर्कसद्भावात् इति चेन्न । अप्रयोजकत्वात्, नसन्नचासदित्यादिवाक्यगतशिवशब्दस्य शुभत्वसामान्यरूढ्यैव भगवत्परत्वसंभवेनो-क्तनारायणशब्दस्य शिवपरत्वाभावेऽपि भगवत्परतया कारणवाक्यान्तरैकार्थ्योपपत्तेः । तथाच कारणवाक्यघटको नारायणशब्दः भगवत्परः भगवदन्यपरत्वविरहे सति किचि- त्परत्वात् पुराणरत्नगतविष्ण्वादिशब्दवदित्यनुमानेन भगवत्परत्वसिद्धिः ।