Chapter 1
Verse 1.16
कथमस्य भगवदन्यपरत्वविरहसिद्धिरिति चेत् -
उच्यते किमस्य भगवदन्यपरत्वं रूढ्या, आहोस्वित् केवलयोगेन, अथवा लक्षणया। नाद्यः, अन्यत्र रूढ्यभावस्य स्थापयिष्यमाणत्वात्। द्वितीये नारमयनं यस्येत्याद्युपबृंहणदर्शितव्युत्पत्त्या वा कुदृष्टिकल्पितव्युत्पत्त्यन्तरेण वा । नाद्यः, तादृशव्युत्पत्त्या भगवदतिरिक्ते साधुत्वविरहात् । पूर्वपदात्संज्ञायामित्यनेनैव णकारघटितस्य साधुताया वर्णनीयत्वात्। अट्कुप्वाङित्यनेनान्यत्र णत्वसमर्थनं चोन्मूलयिष्यते । नान्त्यः, “इतिहास- पुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति” इति शास्त्रविरोधेन कुदृष्टिकल्पितकुसृष्टेः कारणवाक्यघटक नारायणशब्दे स्वीकर्तुमशक्यत्वात् । न तृतीयः, मुख्यार्थबाधविरहेण निषादस्थपत्यधिकरणन्यायेन लक्षणायाः असंभवात्। तस्मान्न कथं- चिदपि भगवदन्यपरत्वसंभव इति ।