Chapter 1
Verse 1.17
एवं कारणवाक्यघटकनारायणशब्दस्य भगवत्परत्वसिद्धौ समानप्रकरणपठितानां सद्ब्रह्मात्मादिशब्दानां भगवत्येव पर्यवसानम् "छागो वा मन्त्रवर्णादिति" न्यायात्। यथा पशुना यजेतेति श्रुतस्य पशुशब्दस्य "छागस्य वपायामेदस" इति मन्त्रवर्णसमर्पिते छागे पर्यवसानं तद्वत्। ततश्च कारणवाक्यघटकश्शिवशब्दः भगवत्परः कारणपरत्वात् तादृशनारायणशब्दवदित्यनुमानेन "यद्यस्य भगवत्परत्वं न स्यात् तर्हि कारणवाक्यान्तरैकार्थ्यं न स्यादि"ति तर्कानुगृहीतेन कारणवाक्यघटकशिवशब्दस्यापि भगवत्परत्वसिद्ध्या
सर्वश्रुत्यैककण्ठ्येन भगवत एव जगत्कारणत्वसिद्ध्या सर्वाधिकत्वसिद्धिः ।