Śrīkoṣa
Chapter 1

Verse 1.19

यदपि नारायणशब्दस्य केवलयौगिकत्वे णकारघटितत्वं न सम्भवतीति निरुक्तहेतुः स्वरूपासिद्ध इति, तदप्ययुक्तम् । केवलयौगिकत्वे णकारघटितस्यासाधुत्वेपि नरसंबन्ध्यधिकरणकत्वरूपशिववृत्तिधर्मावच्छिन्नबोधकत्वानपायेन स्वरूपासिद्ध्ययोगात् । नहि साधुत्वं नास्तीत्येतावता शाब्दबोधजनकत्वमपैति । उक्तं हि पातञ्जलभाष्ये “समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः” इति । हरिणाप्युक्तम् “वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः” इति ।