Śrīkoṣa
Chapter 1

Verse 1.21

यदपि नारायणशब्दो न शिवपरः शिवविषयकशाब्दबोधप्रयोजकाकांक्षाशून्यत्वा- दिति। तदप्ययुक्तम्। णकारघटितानुपूर्व्यास्सर्वमतेऽपि शिवविषयकबोधप्रयोजकत्वस्य
दुर्निवारतया स्वरूपासिद्धेः, न हि रूढिप्रतिसन्धानविरहदशायां शिवे योगशक्तेः तात्पर्यस्य च ग्रहे नारायणशब्दात् शिवबोधो न जायत इति बृहस्पतिनापि ( अ ) शक्यं साधयितुम् । एवं शिवसहस्रनामादिगतनारायणशब्दात् शिवबोधस्य सर्वसम्मतत्वेऽपि दर्शितानुपपत्तिरवसेया ।