Śrīkoṣa
Chapter 1

Verse 1.9

उक्तवार्तिकेन णत्वविधौ प्रत्ययलक्षणानिषेधेन दर्शितरीत्या णत्वोपपादनासंभवात् । तथाहि दर्शितरीत्या वार्तिकार्थस्वीकारे परमवाक् परमलिडित्यादौ कुत्वडत्वाद्यनुपपत्तिः तद्विधेरुत्तरपदत्वाश्रयवर्णोद्देश्यकत्वानपायेन तस्मिन् कर्तव्ये समस्तसमुदायस्यापि प्रत्यय- लक्षणनिषेधापत्तेः। अतः इत्थं वार्तिकार्थः वर्णनीयः- उत्तरस्य पदत्वं उत्तरपदत्वं तस्मिन्सति योऽयमपदादिविधिरिति । तत्र उत्तरशब्द उत्तरपदपरः, सतिसप्तम्या प्रयुक्तत्वं बोध्यते पयःपाने सति पिपासा शाम्यतीत्यादौ तथा दर्शनात्। तथाच उत्तरनिष्ठपदत्वप्रयुक्तापदा. दिविधावेव प्रत्ययलक्षणनिषेधात् न परमवाक् परमलिङित्यादौ कुत्वडत्वाद्यनुपपत्तिः समुदायगतपदत्वमाश्रित्यैव तत्र तत्प्रवृत्त्या तत्र प्रत्ययलक्षणानिषेधात् । इत्थंच णत्वप्रवृत्ति. स्थले उत्तरपदस्य पदत्वे सामानपद्यविघटनेन णत्वस्यैवासंभवप्रसंगेन तद्विधेरुत्तरपदनिष्ठ- पदत्वप्रयुक्तत्वासंभवात् न तत्त्रोक्तवार्तिकप्रवृत्तिरिति ॥ ४ ॥