Chapter 1
Verse 1.22
यदपि कूर्मपुराणशिवसहस्रनामादौ शिवे नारायणशब्दप्रयोगदर्शनात् शिवेऽपि नारायणशब्दस्य संज्ञात्वं संभवति । कोशादेरिव श्रुतिपुराणादेरपि शक्तिग्राहकत्वादिति । तदप्ययुक्तम्, गौणत्वेनापि संभवदुपपत्तिकक्वाचित्कप्रयोगमात्रेण शक्तिसिद्धौ अतिप्रसङ्गात् वृत्त्यन्तरविलोपप्रसङ्गाच्च ।