Chapter 1
Verse 1.23
अत्रेदं तत्त्वम् - नारायणशब्दस्य शिवे प्रयोगो नाम शिवविषयकबोधेच्छया उच्चारणं । शिवबोधौपयिकतात्पर्यवत्त्वमिति यावत् । तच्च न शिवशक्तत्वव्याप्यं तल्लाक्षणिके व्यभिचारात्। किंतु तच्छक्तत्वतल्लाक्षणिकत्वान्यतरस्यैव व्याप्यम् “तत्त्रान्याय्यं चानेका- र्थत्वमिति” न्यायात् । शिवे भगवति च शक्तिस्वीकारे अनेकशक्तिकल्पनागौरवप्रसङ्गेन एकत्र शक्तिरन्यत्र लक्षणेत्येव स्वीकरणीयम् । ततश्च प्रचुरप्रयोगविषये भगवति लक्षणाङ्गीकारे बहुषु स्थलेषु शक्यसंबन्धज्ञानानां तत्कारणत्वस्य च कल्पनागौरवम्। अल्पतरप्रयोगविषये शिवे तदङ्गीकारे तु लाघवम् । तथाच ईदृशगौरवलाघवज्ञानसहकृतेन शिवशक्तत्वतल्लाक्षणिकत्वान्यतरव्याप्यवत्तापरामर्शेन शिवलाक्षणिकत्वमेव सिद्ध्यतीति । न चैवं हर्यादिष्वपि तथा प्रसङ्गः । तत्र प्रयोगस्य उभयत्र तुल्यत्वेन दर्शितविनिगमकासंभवात । उभयत्र शक्तिसिद्धेः शक्तिग्राहकत्वेनाभिमतानां यत्त्र तुल्यबलत्वं तत्रागत्या उभयत शक्तिः। यत्र तु मात्रयापि बैषम्यं तत्र प्रबलप्रमाणविषये शक्तिः अन्यत्र लक्षणेति हि न्यायविदां निर्णयः । अत एव "तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिस्स्यात्" इत्यधिकरणे पीलुशब्दस्य आर्यप्रसिद्ध्या वृक्षविशेषे म्लेच्छप्रसिद्ध्या हस्तिनि च शक्तिः । प्रसिद्धिद्वयस्यापि तुल्यबलत्वात् व्यवहारविषये आर्याणामिव म्लेच्छानामप्यभियुक्तत्वाविशेषादिति प्रापय्य अनेकार्थत्वस्यान्याय्यतया एकत्रैव शक्तिरन्यत्र लक्षणेत्येव युक्तम् । न च विनिगमनाविरहः । आर्यप्रसिद्धे र्बलवत्वात्। आर्या हि शब्दैकसमधिगम्यधर्माधर्मयोरविप्लुतिलिप्सया शब्दार्थ- तत्त्वं विविच्य परिपालयन्ति । न म्लेच्छाः, दृष्टार्थव्यवहारस्य यथाकथंचिदप्युपपत्तेः । अतो वृक्षविशेषे शक्तिः, गजप्रतीतिस्तु लक्षणादिनैवेति सिद्धान्तितम्। एवं यत्त्रार्याणामेव उभयत्र प्रसिद्धिः अथापि यत्त्र वाक्यशेषाद्यनुग्रहः तत्रापि वाक्यशेषाद्यनुगृहीतार्यप्रसिद्धिविषय एव शक्तिः । केवलार्यप्रसिद्धिविषये तु लक्षणादिकमेवेति व्यवस्थापितम् । तथा “विश्वजिति सर्वपृष्ठ” इत्यधिकरणे रथन्तरं पृष्ठं भवति, बृहत् पृष्ठं भवतीत्युत्पत्तिवाक्ययो महेन्द्रस्तोत्त्रनामत्वेनावगतस्य पृष्ठशब्दस्य सप्तदशानि पृष्ठानीत्यनुवादवाक्ये माहेन्द्रादिषु चतुर्षु स्तोत्रेषु प्रयोगो लिङ्गसमवायन्यायेन लाक्षणिक इति प्रकृतौ पृष्ठबहुत्वं नास्तीति प्रपञ्चितम्। अतः प्रसिद्धिप्राचुर्येणाभिधानकोशेन च नारायणशब्दस्य भगवति शक्तिः, शिवे तु क्वाचित्कप्रयोगविषये लक्षणैवेति स्पष्टं न्यायविदाम् । किंबहुना "नहि नारायणादीनां नाम्ना-मन्यत्र संभवः। ऋते नारायणादीनि नामानि पुरुषोत्तमः । प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम्”इत्यादिवामनपुराणादिवचनबलेन नारायणशब्दस्य भगवदतिरिक्ते शक्त्यभावस्य बोधनात् कूर्मपुराणादिगतनारायणशब्दस्य शिवे लाक्षणिकत्वमेवाकामेनापि स्वीकार्यम् ।