Śrīkoṣa
Chapter 1

Verse 1.24

ननु कूर्मपुराणगतोक्तनारायणशब्दस्य लाक्षणिकत्वसंभवेऽपि शिवसहस्रनामगतस्य तस्य न तथात्वसंभवः। नामशब्दस्य रूढपरतया शिवे रूढत्वमन्तरा शिवनामत्वानुपपत्तेरिति चेन्न । तत्र नामशब्दस्य प्रातिपदिकमात्रपरतया रूढपरत्वविरहात् । अत एव निपातातिरिक्तनामार्थयोरित्यादेः केवलयौगिके लाक्षणिकेऽपि च प्रवृत्तिरुपपद्यते । अत एव च भगवद्गुणदर्पणे “यानि नामानि गौणानि विख्यातानी ” त्यत्र विख्यातशब्देनैव भगवन्नाम्नां रूढत्वसिद्धिरनगृहीता। किंच नहि नारायणादीनामित्यादिसात्विकपुराणवचनविरोधेन दर्शिततामसपुराणबलेन न रूढत्वसिद्धिसंभवः । नचैवं तादृशनारायणशब्दस्य णत्वानुपपत्तिः । पूर्वपदात्संज्ञायामिति रूढ्यर्थबोधपरत्वे एव णत्वविधानात् । केवलयौगिकत्व इव लाक्षणिकत्वेऽपि रूढ्यर्थबोधपरत्वविरहादिति वाच्यम् । तस्य भगवत्सदृशलाक्षणिकत्वात् सादृश्यप्रतियोगितया भगवतो बोधेन रूढ्यर्थबोधपरत्वानपायात् । कथमन्यथा युधिष्ठिरादि- शब्दानां सादृश्यमात्रावलंबनेनान्यत्र प्रयुज्यमानानां साधुत्वोपपत्तिः ।