Chapter 1
Verse 1.25
यद्वा प्रकृतशाब्दबोधप्रयोजकीभूतरूढ्यर्थाधीनोपस्थितिजनकत्वं संज्ञात्वम्। तथा च लक्ष्यार्थोपस्थितिप्राग्भाविरूढ्यधीनोपस्थितेरपि शाब्दबोधप्रयोजकत्वाक्षतेः लाक्षणिकस्यापि णत्वं सुवचमेव । केवलयोगाधीनशाब्दबोधे रूढ्यधीनोपस्थितेः प्रयोजकत्व- विरहात् न केवलयौगिकस्य णत्वम् । इमामेव रीतिमनुसृत्य अग्नीषोमौ माणवका- वित्यत्र प्रसिद्धदेवताद्वन्द्ववाच्यग्नीषोमपदस्य तत्सदृशपरत्वे ईत्वषत्वे उपपादनीये । तत्र द्वन्द्वसमासजन्यसाहित्यावच्छिन्नाग्नीषोमात्मकप्रसिद्धदेवतोपस्थितेः प्रकृतशाब्दबोध- प्रयोजकत्वात् । सदृश(अ) लाक्षणिकाग्निसोमपदयोः द्वन्द्वे तु द्वन्द्वजन्योपस्थितेः साहित्या- वच्छिन्नप्रसिद्धदेवताविषयकत्वविरहात् न तत्र ईत्वषत्वे इति स्पष्टं परिभाषेन्दुशेखरे । एवं विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेतामित्याद्यर्थवादस्य प्राशस्त्यलाक्षणिकत्वेऽपि मित्रेचर्षा -वित्यादेः प्रवृत्तिरुक्तरीत्यैव वर्णनीयेति दिक् ।