Śrīkoṣa
Chapter 1

Verse 1.26

यदपि अन्यथा आकाशादिपदानां परब्रह्मपरत्वासिद्धिप्रसङ्गादिति । तदप्ययुक्तम् । आकाशादिपदानां परस्मिन्ब्रह्मणि रूढ्यभावेऽपि केवलयोगेन लक्षणया वा तत्परत्वोपपत्ते,परस्मिन्ब्रह्मणि रूढित्वासिद्ध्यापादने तु इष्टापत्तिरेव । सिद्धान्ते केवलयोगेन शङ्करमते गौण्या परब्रह्मपरत्वाङ्गीकारात् । उक्तं ह्याकाशाधिकरणशङ्करभाष्ये “ नचायं आकाशशब्द उभयोस्साधारणश्शक्यो विज्ञातुम् । अनेकार्थत्वप्रसङ्गात् तस्मात् ब्रह्मणि गौण आकाशशब्द 'इति । उक्तं च तद्व्याख्याने वाचस्पतिना सामानाधिकरण्येन प्रश्नतत्प्रतिवाक्यय पौर्वापर्यपरामर्शात् प्रधानत्वेऽपि गौणतेति ।