Chapter 1
Verse 1.27
यदपि निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वस्य पारिभाषिकत्वाभिधानंतदप्ययुक्तम् । समानग्रहणावगतावधारणबलेनैव तल्लाभस्य भाष्यकैय्यटाद्यभिमतत्वात तथा हि “समानपदे" इत्यनेन निमित्तनिमित्तिनोरेकपदस्थत्वमुच्यते । यद्येतावन्मात्रमेवे विवक्षितं स्यात् तदा समानग्रहणानर्थक्यम्। “पदे" इत्येतावन्मात्रेणैव एकवचनार्थैकत्वान्वयेन एकपदस्थत्वलाभात् । न च सूत्रे लिङ्गवचनमतन्त्रमिति परिभाषया वचनविवक्षा न संभवतीति वाच्यम् । अपदस्थयोर्निमित्तनिमित्तिनोरसंभवेन " पदे ” इत्यस्य वैय्यर्थ्यप्रसङ्गात् । पदग्रहणे. नेव एकवचनविवक्षाज्ञापनात् । तथासति एकपदस्थत्वलाभेन गीर्नमति, रामो नम्य इत्यादिषु णत्ववारकतया “पदे”इत्यस्य चारितार्थ्यसंभवात् ।
अथ समानशब्देन आधेयतानिरूपकत्वमेव बोध्यते, न त्वेकत्वसंख्या । वह्निना समानाधिकरणो धूम इत्यादिषु वह्निनिष्ठाधेयतानिरूपकाधिकरणवृत्तित्वस्यैव प्रतीतेः तत्त्र प्रत्यासत्त्या रषाभ्यामित्यस्य तृतीयान्ततया अनुसन्धानान्तरकल्पनया वा आधेयतायां रेफषकारान्यतरनिष्ठत्वलाभः । तथा च रेफषकारान्यतरनिष्ठाधेयतानिरूपकपदवृत्तित्वस्य
सप्तम्यन्तेन लाभात् गीर्नमति, रामो नम्य इत्यादिषु नकारे तदसत्त्वात् न णत्वम् । इत्थं च एवंविधार्थस्य एकत्वसंख्यावाचिना ऐकवचनेनालाभात् कथं समानग्रहणवैय्यर्थ्यमिति चेन्न ।