Śrīkoṣa
Chapter 1

Verse 1.28

“समानाधिकरण”इत्यादिषु एकाधिकरणवृत्तिरिति विवरणदर्शनेन समानशब्दस्या- धेयतानिरूपकार्थकत्वविरहात् । एकाधिकरणवृत्तिरित्यत्र एकशब्दोऽपि आधेयतानिरूपक- वचन इति तु न युक्तम्। मानाभावात् । तर्हि धूमो वह्निना समानाधिकरण इत्यादिषु धूमो वह्निनिष्ठाधेयतानिरूपकाधिकरणवृत्तिरिति प्रत्ययः कथमुपपद्यत इति चेत् । इत्थम्- वह्निनेत्यत्र तृतीयार्थोऽधिकरणवृत्तित्वं तस्य समानपदार्थतावच्छेदके एकत्वेऽन्वयः । तथा च वहन्यधिकरणवृत्त्येकत्वाश्रयाधिकरणवृत्तिर्धूम इति अक्षरलभ्यार्थः । तत्र वन्य- धिकरणवृत्त्येकत्वाश्रयत्वस्य वह्निनिष्ठाधेयतानिरूपकत्वव्याप्यतया औत्तरकालिक एव तादृशाधेयतानिरूपकत्वप्रत्यय इति । न च तथापि समानग्रहणे तस्य एकत्वान्वय्यधिकरण- वृत्तित्वविषये नियताकांक्षतया प्रत्यासत्त्यादिना एकत्वे निमित्ताधिकरणवृत्तित्वलाभे तादृशैकत्वाश्रयपदवृत्तित्वस्य सप्तम्यन्तार्थस्य गीर्नमतीत्यादिष्वभावात् न दोषः । तदभावे तु एकवचनेन एकत्वलाभेऽपि तत्र निमित्ताधिकरणवृत्तित्वालाभात् कथं समानग्रहणवैय्यर्थ्यं इति वाच्यम्। सप्तम्यन्तार्थस्य एकपदवृत्तित्वस्य निमित्तमात्रे अन्वये वैय्यर्थ्यतादवस्थ्येन निमित्तनिमित्तिनोरुभयत्त्रान्वयस्य स्वीकरणीयतया निमित्तनिमित्तिनोरेकपदवृत्तित्वलाभात् गीर्नमतीत्यादिषु तदभावेन अनुपपत्तिविरहात् । न च तत्रापि प्रत्येकमेकत्वसत्त्वात् निमित्ते निमित्तिनि च एकत्वसंख्याश्रयपदवृत्तित्वाक्षतेः कथं वारणमिति वाच्यम्। स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वरूपस्वसजातीयद्वितीयराहित्यस्यैव एकवचनार्थत्वात् एकत्वमात्रस्य सर्ववस्तुसाधारणस्याव्यावर्तकतया तदसंभवात् । पशुना यजेतेति विहितस्य एकत्वस्यानेकपशुभि र्यागानुष्ठानेप्यवैकल्यप्रसङ्गाच्च । साजात्यं च स्वसमभिव्याहृतपदार्थसंसर्गित्वविशिष्टस्वप्रकृत्यर्थतावच्छेदकरूपेण । प्रकृते च स्वसम - भिव्याहृतपदार्थः निमित्तनिमित्त्युभयं तत्संसर्गित्वं तदधिकरणत्वं स्वप्रकृत्यर्थता- वच्छेदकं च पदत्वमिति स्ववृत्तिनिमित्तनिमित्त्युभयाधिकरणपदत्ववन्निष्ठभेदप्रतियोगिता- नवच्छेदकैकत्वमेव एकवचनार्थः ।