Śrīkoṣa
Chapter 1

Verse 1.29

इत्थं च गीर्नमतीत्यादिषु क्वचिदपि ईदृशैकपदस्थत्वासत्त्वान्न दोषः । नचैवं सति एकवचनस्य नानार्थत्वप्रसङ्गः येकयोरित्यादिशास्त्रस्वारस्यविरोधश्च इति वाच्यम् । यतः एकत्वत्वावच्छिन्ने एव एकवचनस्य शक्तिः इतरांशस्तु संसर्गमर्यादयैव भासत इत्यङ्गीक्रियते । तथा हि पशुना यजेतेत्यत्न एकवचनार्थस्य एकत्वस्य स्ववृत्तिभेदप्रतियोगितावच्छेदक-तासंबन्धेन पशावन्वयः । अवच्छेदकता च स्वकरणकयागकरणीभूतपशुनिष्ठभेदप्रतियोगिता- वच्छेदकतासंबन्धावच्छिन्ना । अनेकपशुभिर्यागकरणे च तत्तदेकत्वानां स्वकरणकयागकर- णीभूतपश्वन्तरनिष्ठभेदप्रतियोगितावच्छेदकतया तादृशावच्छेदकतासंबन्धेन पशुमदभिन्नत्वं कुत्राप्येकत्वे न संभवतीति नोक्तदोषः । प्रकृते चावच्छेदकता - स्ववृत्तिनिमित्तनिमित्त्यु- भयाधिकरणपदत्ववन्निष्ठभेदप्रतियोगितावच्छेदकतासंबन्धावच्छिन्ना ग्राह्येति गीर्नमतीत्या- दिषु कस्यापि पदस्य दर्शितसंबन्धेन एकत्ववत्त्वविरहान्न दोष इति । तत्सिद्धं “ पदे” इत्येतावतैव सामञ्जस्ये समानग्रहणवैय्यर्थ्यमिति ।