Śrīkoṣa
Chapter 1

Verse 1.30

रामनामादावनुपपत्तिस्तु पक्षद्वयेऽपि समाना । अतः समानग्रहणं समानमेव पदमित्यवधारणार्थं विज्ञायते । उक्तावधारणेन च किंचिदंशेनाप्य समानं निमित्तानधिकरणनिमित्तिमन्नभवतीत्यर्थलाभात् निमित्तानधिकरणनिमित्तिमत्पदा- घटितत्वं पर्यवस्यति । यद्वा समानमेव पदं यस्मिन्समुदाये तत्तथेति बहुव्रीह्याश्रयणेन असमानं निमित्तानधिकरणं निमित्तिमत्पदं यदघटकमिति विग्रहवाक्यार्थे लब्धे निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वं समासवाक्यार्थो भवति। सर्वथा योगलभ्यतया नास्यार्थस्य पारिभाषिकत्वम् । "यत्समानाधिकरणा" इत्यादिव्याप्तेरव्यभिचरितत्वपदप्रतिपाद्यत्ववत् केवलतान्त्रिकसंकेतरूपपरिभाषया समानपदलभ्यत्व एव पारिभाषिकत्वाभिधानं युज्यत इति ।