Śrīkoṣa
Chapter 1

Verse 1.31

अत्र निमित्तानधिकरणनिमित्तिमत्पदाघटितत्वं च रेफषकारान्यतरावृत्तिनकारवृत्तिपदत्वसमानाधिकरणसमुदायत्त्ववत्त्वम् । तथा च रेफषकारान्यतराधिकरणं यत्तादृश- समुदायत्वावच्छिन्नं तद्वृत्तित्वं समानपद इति सप्तम्यन्तार्थः । तस्य च रेफषकारान्यतरवृत्ति- तादृशसमुदायत्वाश्रयत्वे पर्यवसानम् । तथा च अट्कुप्वाङित्यादेः रेफाद्युत्तराडादिभिन्नानुत्तरस्य रेफाद्युत्तरस्य यद्रेफादिवृत्तिसमुदायत्वं
रेफाद्यवृत्तिनकारवृत्तिपदत्वासमानाधिकरण तदाश्रयस्य नस्य णत्वं स्यादित्यर्थः । आदर्शेनेत्यादौ णत्ववारणायानुत्तरत्वान्तनिवेशः । रामेणेत्यादौ तदुपपत्तये अडादिभिन्नेति । नारीत्यादौ तद्वारणाय रेफाद्युत्तरत्वनिवेशः । रामनामादौ तद्वारणाय रेफाद्यवृत्तीत्यादि । रामनामादिगतसमुदायत्वस्य च रेफाद्यवृत्ति यन्नामपदनिष्ठं पदत्वं तदसमानाधिकरणत्वविरहान्न दोषः। असंभववारणाय रेफाद्यवृत्तीति । मातृभोगीण इत्यत्र भोगपदवृत्तिपदत्वमादायानुपपत्तिवारणाय नकारवृत्तीति । यद्यपि भोगपदवृत्तिपदत्वासमानाधिकरणमेव । तथापि तस्य प्रत्ययमात्रवृत्तिसमदायत्वं रेफादिवृत्तित्वविरहान्न तदादायोपपत्तिः ।