Puruṣakāra Mimāṃsā
By Nārāyaṇa Muni, The Fourteenth Jīyar of Ahobila Maṭha
Composed in 1600's
1 chapter • 182 verses
Filter Content
Display Mode
Chapter - 1
स्वतन्त्र: स्वेच्छया सृष्टिस्थितिसंहारमोक्षणै: ।
यत्समक्षं क्रीडतीश: तां भजे लोकमातरम् ॥१॥
स्वयंव्यक्ते रङ्गधाम्नि तल्पे वातूलतूलके ।
निवसन्तौ नमाम्याद्यौ दंपती जनकौ विधे: ॥२॥
संकल्पेनैव यो विश्वं सृजत्यवति हन्ति च ।
वेत्रस्पन्दास्तविघ्नं तं वन्दे सूत्रवतीसखम् ॥३॥
श्रीपति: जगतो हेतु: प्रपत्तव्यो मुमुक्षुभि: ।
साक्षान्मोक्षप्रदश्चेति श्रुतिसूत्रादिषु स्थितम् ॥४॥
पत्न्याः पतिवदीदृक्त्वम् अस्ति नेति निरूप्यते ।
कारणं जगतो लक्ष्मी: प्रपत्तव्या शरण्यवत् ॥५
साक्षान्मोक्षप्रदात्री च पतिसम्यागमादिभि: ।
त्रय्यन्तदेशिकस्यायं सिद्धान्त इति केचन ॥५॥
अत्र प्रतिवदन्त्यन्ये त्रयीमौलिगुरोर्मतम् ।
श्रीश एव जगद्धेतु: प्रपत्तव्यश्च मुक्तये ॥६॥
रक्षकश्च श्रिया सार्धं प्राप्यश्चेति विपश्चित: ॥७॥
अन्त: प्रविश्य सर्वेषां नियन्तुर्हि शरीरिण: ।
"बहुस्याम्" इति संकल्पपूर्वसृष्ट्यादिसंभव: ॥८॥
कारणत्वप्रकरणे श्रियो नास्त्येव सन्निधि: ।
नापि सर्वशरीरत्व-जगन्नियमने श्रुते ॥९॥
यत्सङ्कल्पात् जगत्सृष्टिः श्रूयते यत्र देहिनि ।
समाधावेकलक्ष्यं तत् भाति श्रीपदलाञ्छितम् ॥१०॥
श्रुतौ शारीरके सूत्रे श्रीभाष्ये गद्यसारयो: ।
स्तोत्रेषु तत्तद्व्याख्यासु कारणत्वादि न श्रिय: ॥११॥
रहस्यत्रयसारादेर्व्याख्यानेषु निरूपकै: ।
अर्वाचीननिबन्धेषु संचिन्त्योऽर्थ: क्वचित्क्वचित् ॥१२॥
प्रपन्नपारिजाते च कारणत्वादि नेरितम् ।
उक्तं पुरुषकारस्य कार्यं न्यासदशान्वयि ॥१३॥
वृक्षादिसृष्टिसंहारशिक्षाहेतुरियं यदि ।
अस्या: पुरुषकारत्वं मातृत्वञ्च कथं तदा ॥१४॥
मित्रमौपयिकं कर्तुम् एवमादि विवक्षया ।
नियन्त्रीत्यादिसामान्यशब्दानां दर्शिता गति: ॥१५॥
अज्ञातनिग्रहायाश्च निग्रहादिषु कर्तृताम् ।
वदता को गुणो लक्ष्म्या: अपूर्व: प्रतिपादित: ॥१६॥
यस्माद्देव्या: रुचिर्नास्ति कदाचिदपि निग्रहे ।
तत: श्री: निरवद्येति गद्योक्ति: उपपादिता ॥१७॥
ननु लक्ष्म्या: क्वचिदपि निग्रहो यदि नेष्यते ।
दैत्यादिमर्दिनीत्यादिनामान्यस्या: कथं तदा ॥१८॥
मैवम् स्वकीयदुर्गादिकर्मभिर्नामसंभवात् ।
रोष: स्वदोषाद्दुर्गादे: न श्रीसंकल्पमूलक: ॥१९॥
क्वचित्तासां प्रसादो य: श्रीसंकल्पात् भवेत्स तु ।
न दोषो निग्रहो लक्ष्म्या: सापेक्षत्वेन चेदिदम् ॥२०॥
श्रीश्रीशयोस्तुल्यमिति को विशेषोऽनयोस्तदा ।
कान्तप्रसादशब्देन लक्ष्यते करुणागुण: ॥२१॥
द्वितीयसूत्रभावस्थकृत्स्नलक्षणसंग्रहे ।
ब्रह्मेति लक्ष्यं शिष्टैस्तु तल्लक्षणसमाहृति: ॥२२॥
समस्तकार्यहेतुत्वं मुमुक्षुभिरुपास्यता ।
मोक्षप्रदत्वं त्रय्यन्तप्रधानप्रतिपाद्यता ॥२३॥
श्रीपतित्वं चाद्यपद्ये परमप्राप्यतेति च ।
ब्रह्मणो लक्षणानीति तत्त्वटीकाकृतो जगु: ॥२४॥
कारणत्वादिलक्ष्माणि ब्रह्मत्वश्रीपतित्ववत् ।
पतिमात्राश्रयाणीति लक्षणाभिज्ञनिर्णय: ॥२५॥
ब्रह्मत्वश्रीपतित्वे हि वर्तेते पुरुषोत्तमे ।
वल्लभाप्रीतिमुद्दिश्य तत्तल्लीला हरेरत: ॥२६॥
तदन्वयोक्तिरप्यस्या: न विरुद्धेति देशिका: ॥२७॥
सिद्धाञ्जनोक्तजीवेशलक्षणानां परीक्षणे ।
लक्ष्म्यां नेश्वरलक्ष्मास्ति विद्यते जीवलक्षणम् ॥२८॥
स्वज्ञानस्वेतराशेषशरीरा सेति को वदेत्? ।
शेषत्वे सति बोद्धृत्वं लक्ष्म्या: को वा निवारयेत् ॥२९॥
न्यायदृष्ट्या पश्य परमतभङ्गेऽपि देशिकै: ।
उक्तजीवेशलक्ष्माणि पक्षपातं विना यथा ॥३०॥
आधेयत्वविधेयत्वशेषत्वाणुत्वसंयुतम् ।
चेतनत्वमहंत्वं वा जीवलक्ष्माष्टधोदितम् ॥३१॥
मुमुक्षूपास्यतामोक्षप्रदत्वं प्राप्यतादि च ।
अनन्याधारतास्तीशे स्वे महिम्नि प्रतिष्ठिते ॥३२॥
तद्देहभूतलक्ष्म्यां तु साधारत्वमबाधितम् ॥३३॥
श्रीधरोऽमृतशब्दार्थ: तदाधारा च सा स्मृता ।
तस्मादेषाऽमृताधारा लक्ष्मीनामसु पठ्यते ॥३४॥
"निराश्रयेति" नामास्या: निस्सङ्कल्पेति नामवत् ।
यथाकथञ्चिन्नेतव्यम् इति घण्टावतारगी: ॥३५॥
सत्यज्ञानादिवाक्योक्तब्रह्मलक्षणयोगत: ।
श्रीरपि ब्रह्मशब्दार्थ इति केचित् न साधु तत् ॥३६॥
अत एवानन्तपदव्यावृत्तिर्ब्रह्मलक्षणे ।
गुणव्यापारतो लक्ष्म्या: परिच्छेदेन वर्ण्यते ॥३७॥
स्वरूपेणानवधिकातिशयं सद्गुणैरपि ।
तदनन्तं ब्रह्म वेद्यं तत् प्राप्यञ्चेति भाषणात् ॥३८॥
सामानाधिकरण्यार्हा सर्वशेषितया समा ।
विभ्वी नित्या च साथापि परिच्छिन्नैव वस्तुत: ॥३९॥
व्यापारतश्च गुणतो न्यूनत्वात् पत्यपेक्षया ।
स्रष्टृत्वं न विभुत्वेन नाप्यणुत्वेन तत्क्षति: ॥४०॥
शक्ति: श्रियोऽस्तु नेच्छेति नियन्त्रंशे व्यवस्थिति: ।
शास्त्रप्रमाणकं ह्येतद् अक्लिष्टोऽयं महापथ: ॥४१॥
विभूतिद्वयशेषित्वमात्रेणेश्वरता समा ।
हेतुत्वादिब्रह्मलक्ष्म पतिमात्रस्य, नोभयो: ॥४२॥
साधारणानि दम्पत्यो: यान्युक्तानीह देशिकै: ।
न तानि ब्रह्मलक्ष्माणीत्येष साधु विनिर्णय: ॥४२ -१॥
श्रेष्ठश्चेत्येतद्भाष्यार्थ: चतुश्श्लोक्यधिकारत: ।
आनीदवातमित्यस्मिन् एकस्यैवोच्यते स्थिति: ॥४३॥
स्वधा स्वधृतिसामर्थ्यं न तु श्रीरिति दर्शितम् ।
स्वधाया श्रीत्वमाश्रित्य तदधीना प्रभो: स्थिति: ॥४४॥
निरस्ता, कारणत्वं तु श्रियो नोक्तं न शङ्कितम् ।
युक्तेरभावादत्रेदं शोधयन्तु विपश्चित: ॥४५॥
प्राक्कालसत्तया वाक्यप्रतिपादितयापि वा ।
जगत्कारणता लक्ष्म्या: न कल्प्यातिप्रसङ्गत: ॥४६॥
साम्यस्वारस्यमात्रेण श्रियश्चेद्ब्रह्मलक्षणम् ।
श्रुत्युक्तं परमं साम्यं यच्च, तस्य कथं न तत् ॥४७॥
श्रुतिसूत्रादिसंसिद्धै: विनैव ब्रह्मलक्षणै: ।
श्रियस्साम्यादिनिर्वाह: न्यायसिद्धाञ्जने कृत: ॥४८॥
आधेयत्वादिभि: लक्ष्म्या: शरीरत्वेन कार्यता ।
साम्याद्यै: नेति शङ्कायाम् उक्तो निर्वाहसंग्रह: ॥४९॥
श्रिया सह तु दांपत्यं शाश्वतं तत एव तु ।
तयोस्साम्यैक्यशक्तित्वतद्वत्तादिगिरां गति: ॥५०॥
"तस्य शक्तिद्वयं तादृग्" "यस्यास्त" इति साम्यगी: ।
मुक्तवत् परमं साम्यं ज्ञानानन्दादिभिर्गुणै: ॥५१॥
पितृत्वाद्यै: साम्यमात्रं मुक्तव्यावृत्तमीरितम् ।
तत्रोक्तं जनकत्वं हि पितृत्वं श्रीतदीशयो: ॥५२॥
तथासति जगच्छब्द: क्षेत्रज्ञानेव बोधयेत् ।
अपि चात्र जगच्छब्द: द्वन्द्वात्पूर्वं श्रुतस्तत: ॥५३॥
यथा ह्ययनशब्देनोपायोपेयत्वबोधने ।
नारशब्दस्य जीवानां समूहोऽर्थ इतीष्यते ॥५४॥
अथवा सामरस्येन प्रेरणात् सहकारिणी ।
सृष्टौ लक्ष्मीरतस्साम्यं जनकत्वेन वर्णितम् ॥५५॥
द्वयोर्विभूतिशेषित्वसाम्यमन्यत् परस्परम् ।
पतिपत्नीशब्दगम्यं शेषित्वं चेति केचन ॥५६॥
उक्तद्विरूपशेषित्वसाम्यं निर्वाह्यमत्र चेत् ।
निर्वाह: केन वास्येति विचार्यं सूक्ष्मदर्शिभि: ॥५७॥
मुक्तस्य ब्रह्मणश्चैक्यं प्रकारैक्याद्यथोदितम् ।
तथात्रापीति निश्चित्य तादृगैक्यं त्रिधाह च ॥५८॥
द्वन्द्वतार्हात्यन्तसाम्यप्रकारैक्यादिहैकता ।
विभूतिद्वयशेषित्वप्रकारैक्येन वानयो: ॥५९॥
उद्देश्यदेवतात्वैक्याद्द्वयोर्वात्महवि: प्रति ॥६०॥
प्रकारैक्येति मूलस्य पूर्वग्रन्थान्वयं स्वतः ।
अनादृत्योत्तरेणैकवाक्यत्वोक्तिरसङ्गता ॥६१॥
यदिद्वन्द्वैक्यगीराप्ता क्वचित् तस्या इयं गतिः ।
चतुश्श्लोक्याद्यपद्यस्य भाष्यं साक्ष्यत्र तद्यथा ॥६२॥
दम्पत्योर्लाघवादैक्ये स्यात् तत् सर्वात्मनामपि ।
आत्मभेदमनिच्छन्तो भाष्यदिषु निराकृताः ॥६३॥
सर्वेषामात्मनां यैस्तु भिन्नाभिन्नत्वमिष्यते ।
लक्ष्मीनारायणैक्योक्तिः तेषां सद्भिरुपेक्ष्यते ॥६४॥
यत्र कवचिदभेदोक्तिः यद्याप्तवचने भवेत् ।
रामसुग्रीवयोरैक्यमित्यादिवदिहास्तु सा ॥६५॥
व्याख्यत्रोक्तेष्वैक्यपरवचनेषु हि कानिचित् ।
निर्वाहकान्तरापेक्षाण्यप्रमाणानि कानिचित् ॥६६॥
श्रीश्शक्तिरिति सर्गादौ सहकारित्वमुच्यते ।
तच्चेशप्रेरकतया सा चोक्ता सामरस्यतः ॥६७॥
नाज्ञया न च दानेन प्रेरकत्वं न याच्ञया ॥६८॥
तस्य शक्तिद्वयं तादृगमिश्रं भिन्नलक्षणम् ।
इत्यादेश्शक्तिशब्दस्य निर्वाहो देशिकैः कृतः ॥६९॥
श्रीप्रकृत्योरैक्यपरमिदं निर्वाह्यमन्यतः ।
प्रकृतेः श्रीविभूतित्वात् एवं तादात्म्यमुच्यते ॥७०॥
संकर्षणाद्यवस्था च विष्णोः सीतादिभावगीः ।
स्वदेहभूतश्रीद्वारा सूनिर्वाह्येति देशिकाः ॥७१॥
इच्छासंविदहन्तादि विष्णोः श्रीरिति वागपि ।
इच्छाधीनस्वप्रकाशनिरूपकतया भवेत् ॥७२॥
तद्वत्तादिपदव्याख्यानिर्वाहावाकरे स्थितौ ।
अदृष्ट्वान्येऽन्यथा वाक्यनिर्वाहं च हि चक्रिरे ॥७३॥
विष्णुर्नारीमय इति लक्ष्म्याधारतयोच्यते ।
नारायणस्य पत्नीत्वात् देव्या नारायाणात्मता ॥७४॥
द्वयोरर्धं श्रीतनुत्वं ऐच्छिकात्तनुमिश्रणात् ।
विष्णुवैभवकारोक्तं नात्मैक्यमिति देशिकाः ॥७५॥
विष्णोरेवं श्रीतनुत्वं परास्यं परजल्पितम् ॥७६॥
समाधिकदरिद्रत्वं स्वान्याखिलनियन्त्रृता ।
अशरण्यशरण्यत्वं चोभयोः नोपपद्यते ॥७७॥
मोक्षार्थन्यासनिष्पत्तेः ये शरण्यार्थिनो नराः ।
तेषां लक्ष्मीश्शरण्येति जगुः वेदान्तदेशिकाः ॥७८॥
अलब्धस्वशरण्यानां शरण्यप्रापणाच्छ्रीयः ।
अशरण्यशरण्यत्वं इत्याहुर्व्यासदेशिकाः ॥७९॥
न्यासस्य लक्षणान्मन्त्रात् विधेः वाक्यान्तरादपि ।
भाष्यादेः संप्रदायाच्च प्रपत्तव्यः परः पुमान् ॥८०॥
गुणविग्रहवल्लक्ष्मीः प्रपत्तव्यविशेषणम् ।
रक्षायज्ञान्वयः पत्न्या ऋत्विजां च गुणात्मनाम् ॥८१॥
वस्तुयोग्योपयोगो हि ज्ञेयस्सहृदयैरिह ।
वात्सल्यादेस्तनोश्चार्यैरुपयोगो हि दर्शितः ॥८२॥
मुमुक्षुत्वं च विश्वासप्रवृत्तिं चोपाजन्य सा ।
धूत्वा प्रभोरधृष्यत्वं जनयत्यभिगम्यताम् ॥८३॥
विशेषणतया न्यासदशायामपि तिष्ठति ।
पापनाशं प्राप्यरुचिं प्रापकाध्यवसायिताम् ॥८४॥
न्यासमीशप्रसादञ्च सोत्पाद्योपकरोति नः ।
एवं सर्वासु विद्यासु श्रीरुपास्यविशेषनम् ॥८५॥
लक्ष्म्या विद्याविशेष्यत्वे कारणत्वं प्रसज्यते ।
विशेषणत्वे वेद्यस्य नेन्द्रादेरिव तद् भवेत् ॥८६॥
उपलक्षणतापक्षं लक्ष्म्या आक्षिप्य देशिकैः ।
गुणादेरिव वैशिष्ट्यमात्रं सर्वत्र साधितम् ॥८७॥
भरस्वीकरणाभावात् रक्षासंकल्पवर्जनात् ।
विशेषणं शरण्यस्य श्रीर्नेत्यत्रैवमुत्तरम् ॥८८॥
न स्वीकारो न सङ्कल्पः श्रियो ब्रह्मगुणस्य च ।
द्वयोरप्युपयोगोऽस्ति सामरस्यं श्रियोऽधिकम् ॥८९॥
भरस्वीकाररहितं रक्षासंकल्पवर्जितम् ।
गुणादिकमिहेष्टं हि शारण्यस्य विशेषणम् ॥९०॥
ऐकारस्यजुषोः शेषिदम्पत्योस्सर्वकर्मसु ।
विशेषणविशेष्यत्वं श्रुतं कस्मान्न रोचते? ॥९१॥
न साक्षान्मोक्षसङ्कल्पः परतन्त्रेषु कस्यचित् ।
स तु नारायणस्यैव स्वतन्त्रस्य रमापतेः ॥९२॥
विशेषणं शरण्यस्य श्रीः किं किं वोपलक्षणम् ।
अत्रैतावत् चिन्तितं चेद् उपायत्वकथा कुतः ॥९३॥
नोपायत्वं श्रुतं कॢप्तिरर्थसामर्थ्यबाधिता ।
पापेभ्यो मोक्षणं कोपनिवृत्तिरिति दर्शितम् ॥९४॥
तच्च दण्डधरस्यैव न मातुरुपपद्यते ।
न साक्षान्मोक्षसङ्कल्पः परतन्त्रेषु कस्यचित् ॥९५॥
रहस्यारत्नावल्याद्यगाथादेर्हृदयं जगुः ।
विशेषेण विमृष्यैतद् विदांकुर्वन्तु साधवः ॥९६॥
“साम्यप्रदानसङ्कल्पस्त्वीशस्यैवाथवोभ्योः” ।
चतुःश्लोक्यधिकारादौ देशिकैरिति दर्शितम् ॥९७॥
साक्षात् परम्परातो वा लक्ष्मीः सर्वफलप्रदा ।
सर्वकामप्रदेत्याद्यैः औदार्यस्योपबृंहणात् ॥९८॥
इति गद्याधिकारोक्तं विमृशन्तु विपश्चितः ॥९९॥
ईशद्वारा बन्धहानेः धर्मादेस्साधनं स्वयम् ।
विशेषणमुपायस्य श्रीः किं, किं वोपलक्षणम् ॥१००॥
अत्रैतावत् चिन्तितं चेत् उपायत्वकथा कुतः ॥१०१॥
आलोड्याचार्यवाक्यानि सुनिष्पन्नार्थ उच्यते ।
लक्ष्म्याः पुरुषकारत्वनित्ययोगौ सतां समौ ॥१०२॥
विशेषणतया न्यासविषयत्वमिहाधिकम् ॥१०३॥
विशेषणेन सम्बन्धे चैतन्ये चास्य देशिकैः ।
दर्शिता श्रौतदृष्टान्ता घटकापेक्षरक्षितुः ॥१०४॥
यथामहत्त्वमिन्द्रादेरग्निस्त्वर्थाद्विशेषणम् ।
यथा विष्णोर्यथेन्द्रस्य वृत्रो वृत्रनिघातिनः ॥१०५॥
व्याकुर्वन्न्यासतिलकमाहैवं वरदो गुरुः ॥१०६॥
‘वृद्धिह्रासे’ति सूत्रोक्तदृष्टान्तोभयनीतितः ।
आत्रोक्तानेकदृष्टान्ता एवमेव हि संगताः ॥१०७॥
श्रीवैशिष्ट्ये महत्वाग्निवृत्रैरुपमिते सति ।
श्रीप्राधान्येऽग्निदृष्टान्त इति निश्चिनुयात् कथम् ॥१०८॥
महेन्द्राग्नीषोमादिवत् लक्ष्मीवैशिष्ट्यमीशितुः ।
न्यायसिद्धाञ्जने चेशपरिच्छेदे स्फुटोदितम् ॥१०९॥
यद्यप्यात्महविर्यज्ञे प्राधान्यम् उभयोरपि ।
विशेषणं शरण्यस्य भरन्यासे तथापि सा ॥११०॥
भरात्मन्यासायोर्भेदादन्योन्यमतिचारतः ॥१११॥
स्थाने विशेषादुन्मानं प्रकाशाकाशवद्विभोः ।
यद्वन्निरूपितं सूत्रे तद्वदतत्रेति चाशयः ॥११२॥
गुरवोऽत्र वदन्त्यन्ये वेदान्तनयवेदिनः ।
आग्नावैष्णवसम्बन्धो विष्णोरग्न्यात्मना सह ॥
एवमात्महविर्यज्ञे पत्युः पत्न्यात्मनश्च सः ॥११३॥
विष्ण्वात्मनैव ह्युद्देश्या श्रीश्च मौद्गचरौ मता ।
आदित्ये च चरौ विष्णुः देवतादितिरूपतः ॥११४॥
लक्ष्मीयन्त्रे च लक्ष्म्याश्च प्राधान्यं पत्यपेक्षया ।
धत्ते लक्ष्मीं तनौ विष्णुः इत्याचार्याः प्रचक्षते ॥११५॥
यन्त्रे सौदर्शने तस्य प्राधान्यं विष्ण्वपेक्षया ।
तदन्तर्यामिण इति न्यायसिद्धाञ्जने स्थितम् ॥११६॥
श्रीशस्तस्मात् सर्वहेतुः सेव्यस्सर्वमुमुक्षुभिः ।
रक्षकश्च श्रिया सार्धं प्राप्यश्चेति सतां मतम् ॥११७॥
आचार्याणां सूक्तयश्च विलिख्यन्ते यथामति ।
श्रीमान् स्वतन्त्रः स्वामी च सर्वत्रान्यानपेक्षया ॥११८॥
निरपेक्षस्वतन्त्रत्वस्वाम्यमन्यस्य न क्वचित् ॥११९॥
त्राणे स्वामित्वमौचित्यं न्यासाद्याः सहकारिणः ।
प्रधानहेतुः स्वातन्त्र्यविशिष्टा करुणा विभोः ॥१२०॥
केचित्त्विहैकशब्दार्थं शरण्यैक्यं प्रचक्षते ।
विशिनष्टि तदापि श्रीः गुणविग्रहवत् प्रभुम् ॥१२१॥
भरस्वीकाररहितं रक्षासङ्कल्पवर्जितम् ।
गुणदिकमिहेष्टं हि शरण्यस्य विशेषणम् ॥१२२॥
ऐकरस्यजुषो शेषिदम्पत्योः सर्वकर्मसु ।
विशेषणविशेष्यत्वं श्रुतं कस्मान्न रोचते ॥१२३॥
प्रतर्दनादिविद्यासु वेद्येऽपि परमात्मनि ।
अचेतनवदिच्छामः चेतनञ्च विशेषणम् ॥१२४॥
इत्थं प्रपत्तिविद्यायां तत्तन्मन्त्रानुसारतः ।
विभुः पत्न्या गुणाद्यैश्च विशिष्टो विषयोऽत्र नः ।
विशेषणं शरण्यस्य भरन्यासे तथापि सा ॥१२५॥
स्वाम्युपाय उपेयञ्च स्वरूपादिसमर्पणे ।
प्रथितः प्रतिसंबन्धी श्रीमान्निगमचक्षुषाम् ॥१२६॥
मुमुक्षुमात्रसामान्यं स्वरूपादिसमर्पणम् ।
अकिञ्चने भरन्यासस्त्वधिकोऽङ्गितया स्थितः ॥१२७॥
अत्र रक्षाभरन्यासः समः सर्वफलार्थिनाम् ।
स्वरूपफलनिक्षेपस्त्वधिको मोक्षकाङ्क्षिणाम् ॥१२८॥
प्रागुक्तेन सहैतेषु पक्षेष्वत्र चतुर्ष्वपि ।
स्वतन्त्रपतिनित्येच्छासिद्धं सर्वमिदं श्रियः ॥१२९॥
अपि चैवं न तस्येशे कश्चनेत्यादिदर्शनात् ।
आर्थश्चतुर्भिरप्येतैः पत्यावैश्वर्यविश्रमः ॥१३०॥
ज्ञानभोगसमानत्वे नित्यमुक्तेश्वरेषु च ।
यथा वैषम्यनियतिः तथैवात्रेति नाविलम् ॥१३१॥
उपायदानमेतस्याः तदिदं पतिसम्मतम् ।
यथा तस्याः प्रसीदन्त्या हारदानं हनूमते ॥१३२॥
विशेषणविशेषेणा ..कारत्रयशा (लिनः?) ।
विशिष्टस्य परस्यैवोपायत्वेन परिग्रहः ॥१३३॥
निरुपाधिकशेषित्वतदभिव्याप्तभेदकैः ।
अजीवतत्त्वतद्दासत्रिविधात्माधिकत्वधीः ॥१३४॥
यदिच्छयैव यत्प्रीत्यै शासनं निग्रहादि च ।
तत्र निग्राह्यजातीयविसजातीयतामतिः ॥१३५॥
एकेतरसमस्तानां स्वनिष्ठैकार्थतास्थितेः ।
द्विष्ठे तदन्यशेषित्वे द्वैराज्यादिभयोज्झितिः ॥१३६॥
प्रभादित्यप्रकारेण मिथोऽतिशयदायिनोः ।
तदन्यवस्त्वसंभाव्यं स्वतोऽतिशयदर्शनम् ॥१३७॥
अनन्यदेवतानन्योपायतानन्यसाध्यता ।
शुद्धतत्परिवारेषु सपर्या भर्तृभृत्यवत् ॥१३८॥
रहस्यत्रयसारश्च चतुःश्लोक्यधिकारकः ।
श्रीमद्गद्याधिकारश्च निक्षेपस्य च रक्षणम् ॥१३९॥
140 shloka missing
चतुःश्लोक्यधिकारान्ते पञ्च पक्षाः प्रकीर्तिताः ।
तेषामन्योन्यसंवादविवादांशौ च दर्शितौ (141) ॥१४१॥
श्रीर्जीवकोटिरण्वी च (प्राहु)र्नारार्थगद्यतः ।
अस्याः सर्वगतत्वोक्तिः नानाविग्रहयोगतः ॥१४२॥
यद्वा विभवी पारतन्त्यजीवलक्षणलक्षिता ।
अन्ये तु पतिपुत्रान्यपत्नीवद्विष्णुपत्न्यपि ॥१४३॥
अचिदन्या चेतनत्वात् जीवान्या च विभुत्वतः ।
पारार्थ्यादीश्वरान्येति मध्यकोटिमिमां जगुः ॥१४४॥
द्विधात्मसंविभागे तु त्रैविध्यं च विवक्षितम् ।
यद्वेयमीशपत्नीत्वादीशानावचनादपि ॥१४५॥
विभूतिद्वयशेषित्वमात्रेणेश्वरकोटिता ।
गद्येऽस्याः नारवर्गेषु पाठः पारार्थ्यमात्रतः ॥१४६॥
अस्याश्चेश्वरपारार्थ्यमीशेच्छामात्रतोऽथवा ।
सिद्धं तदुभयेच्छातः सर्वैश्वर्यश्रुतेर्द्वयोः ॥१४७॥
प्रमानवानेक एव पक्षेषूक्तेषु पञ्चमः ।
पूर्वपूर्वोपमर्देन पक्षाणामुपवर्णनात् ॥१४८॥
संशयोक्तिस्तु निश्चेतुम् अक्षमाणामधीमताम् ।
यत्र पूर्वोपमर्देन नानापक्षाः प्रकीर्तिताः ॥१४९॥
तत्र सर्वत्र चरमः सङ्ग्राह्य इति निर्णयः ।
वाक्यान्वयाधिकरणपक्षेष्वप्यत एव हि ॥१५०॥
सिद्धान्तश्चरमः पक्ष इति भाष्यादिवेदिनः ।
पतिरेव जगद्धेतुः सर्वपक्षेष्वथापि सः ॥१५१॥
पत्न्याः प्रीत्यै करोतीति सापि कारणमिष्यते ।
श्रीरण्वी प्रथमे पक्षे विभ्वी च त्रिषु सम्मता ॥१५२॥
द्वितीयादित्रिकेऽन्योन्यजीवाद्याख्याकृते यथा ।
गुणभावे पतीच्छावत् पत्नीच्छापि प्रयोजिका ॥१५३॥
उत नेति विवादस्तु त्रिकपञ्चमयोर्मिथः ।
इहैवं क्वचिदंशे तु संशयेऽपि विपश्चिताम् ॥१५४॥
उपयुक्तांशवैशद्यादुपायफलसंभवः ।
चतुः श्लोक्यधिकारान्ते (?) पञ्चपक्षोपन्यासात् ॥१५५॥
व्यावक्रोशिनिकर्षोक्तिं सर्वसाम्यविकत्थनम् ।
लम्बनं धनदेत्यादेः व्यसनं नामकल्पने ।
शमयामास विमतकथकानां नयेषुभिः ॥१५६॥
चतुःश्लोकीसारमेकं पश्यन्त्वत्र विपश्चितः ।
दिव्ययोर्यत्र दम्पत्योः आनुरूप्यं निरूपितम् ॥१५७॥
नान्दीमारभ्य जिज्ञासा त्रय्यन्तार्यमते यदि ॥१५८॥
अनन्याधीनकल्याणम् अन्यमङ्गळकारणम् ।
जगन्निदानमद्वन्द्वं द्वन्द्वं वन्दामहे महः ॥१५९॥
निदानमेकं जगतामिति चास्त्याप्तभाषितम् ।
तस्य चान्यस्य निर्वाहो व्यक्तं पूर्वोक्तनीतितः ॥१६०॥
लोकाचार्यप्रबन्धस्य त्रयीसारस्य चोभयोः ।
प्रायो बुधैरैककण्ठ्यं ग्राह्यं ग्रन्थज्ञसम्मतम् ॥१६१॥
धर्मत्यागविधौ दोषानाशङ्क्य परिहृत्य तैः ।
उक्तोऽनुवादपक्षोऽपि वङ्गिवंशेशवाक्यतः ॥१६२॥
युक्तमाप्तप्रबन्धानामैक्यतात्पर्यवर्णनात् ।
न कार्यानाप्तवाक्यानामविरुद्धार्थवर्णना ॥१६३॥
आप्तवाचो विरोधे स्यात् दृष्टिभेदादियं गतिः ।
अनिश्चितप्तवाक्यानां निश्चिते स्यादनादरः ॥१६४॥
प्राधान्याङ्गत्वपरयोः गद्यगीतान्तभष्ययोः ।
द्वयोरन्यतरत् बाध्यं विरोधो हि स्फुटः ततः ॥१६५॥
“आर्तोपच्छन्दनं गद्यं केचिदाहुर्विपश्चितः ।
गीतान्तभाष्यमन्ये तु वदन्ति पररञ्जनम्” ॥१६६॥
तात्पर्यार्थाविरोधेन नात्रैकेनान्यबाधनम् ।
प्रमाणदार्ढ्यादत्रैवं गद्यभाष्योक्तसंग्रहः ॥१६७॥
“आर्तोपच्छन्दनं गद्यं भाष्यं तु पररञ्जनम् ।
इत्याविलधियो ह्येवं प्रसीदेयुः प्रमाणतः” ॥१६८॥
सुदुष्करेण शोचेद्यो येन येनेष्टहेतुना ।
स स तस्याहमेवेति चरमश्लोकसंग्रहः” ॥१६९॥
आप्तस्य ग्रन्थयोरेवं विरोधस्फुरणे यथा ।
तात्पर्य कॢप्त्या निर्वाहो भिन्नकर्तृकयोस्तथा ॥१७०॥
यथा च धर्ममीमांसाब्रह्ममीमांसयोर्द्वयोः ।
अविरुद्धार्थतात्पर्यात् ऐकशास्त्र्यं समर्थितम् ॥१७१॥
अतिगम्भीरसन्दर्भं श्रीमद्वचनभूषणम् ।
अन्यान्यपि रहस्यानि तादृशान्यत एव हि ॥१७२॥
रहस्यत्रयसारादौ तेषां तात्पर्यमूचिरे ।
आपातप्रतिपन्नार्थो ह्यपास्तोऽनुपपत्तिभिः ।
कुमारवरदाचार्यैः चुलुके चेत्थमीरितम् ॥१७३॥
रहस्यत्रयसारार्थविशदीकरणादिकम् ।
प्रायेण सुन्दरवरमुनेः सूक्तिषु दृश्यते ॥१७४॥
प्रधानप्रतितन्त्रार्थान् भाष्यकारोपपादितान् ।
इष्टार्थमन्यथा कर्तुं वागधीशोऽपि न क्षमः ॥१७५॥
उपयुक्तांशवैशिष्ट्यादुपायफलसंभवः ।
अत्यन्तानुपयुक्तार्थविवादेऽपि हि न क्षतिः ॥१७६॥
भाष्यकाराव्यवहित शिष्टेष्वेव हि केचन ।
कैवल्यं नित्यमित्याहुरनित्यमिति चापरे ॥१७७॥
सिद्धाञ्जने च कुलिशे चन्द्रिकायाञ्च देशिकैः ।
उक्तं मतद्वयं प्रायः स्वारस्यञ्चान्तिमे मते ॥१८७॥
व्यामिश्रगीताभाष्योक्तकैवल्येऽन्य उदासते ।
प्रतिबुद्धैः परित्याज्यं कैवल्यं तन्निरूपणे ॥१७९॥
यदि नित्यं ततः किं स्याद्यद्यनित्यं ततोऽपि किम् ।
ईदृक्संशयविच्छेदः तस्मिन् दृष्टे भवत्विति ॥१७०॥
यदिह रहस्यं विवृतं यच्च न्यूनं वचोऽधिकम् यद्वा ।
कृपया तदिदं क्षमतां देवो देव्यौ च देशिकास्सन्तः ॥१७१॥
नारायणेन मुनिना श्रीवत्साङ्कविपश्चिता ।
सैषा पुरुषकारस्य मीमांसा निर्मिता मता ॥१७२॥