Śrīkoṣa
Chapter 1

Verse 1.58

दुरन्तस्यानादेरपरिहरणीयस्य महतो निहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि ।
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे तव स्मारंस्मारं गुणगणमितीच्छामि गतभीः ॥ ५८॥