Śrīkoṣa
Chapter 1

Verse 1.61

जनित्वाऽहं वंशे महति जगति ख्यातयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् ।
निसर्गादेव त्वच्चरणकमलैकान्तमनसामधोऽधः पापात्मा शरणद निमज्जामि तमसि ॥ ६१॥