Chapter 1
Verse 1.112
नन्वस्मिन्न् अपि सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवान् एक एव जनार्दनः ॥ इति त्रिमूर्तिसाम्यं प्रतीयते । नैतद् एवम् । एक एव जनार्दन इति जनार्दनस्यैव ब्रह्मशिवादिकृत्स्नप्रपञ्चतादात्म्यं विधीयते । जगच् च स इति पूर्वोक्तम् एव विवृणोति स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च । उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः ॥ इति च स्रष्टृत्वेनावस्थितं ब्रह्माणं सृज्यं च संहर्तारं संहार्यं च युगपन् निर्दिश्य सर्वस्य विष्णुतादात्म्योपदेशात् सृज्यसंहार्यभूताद् वस्तुनः स्रष्टृसंहर्त्रोर् जनार्दनविभूतित्वेन विशेषो दृश्यते । जनार्दनविष्णुशब्दयोः पर्यायत्वेन ब्रह्मविष्णुशिवात्मिकाम् इति विभूतिमत एव स्वेच्छया लीलार्थं विभूत्यन्तर्भाव उच्यते । यथेदम् अनन्तरम् एवोच्यते - पृथिव्यापस् तथा तेजो वायुर् आकाश एव च । सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज् जगत् ॥ स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः । सर्गादिकं ततोऽस्यैव भूतस्थम् उपकारकम् ॥ स एव सृज्यः स च सर्वकर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिर् अशेषमूर्तिर् विष्णुर् वरिष्ठो वरदो वरेण्यः ॥ इति ।