Śrīkoṣa
Chapter 1

Verse 1.124

किं च लिङादिशब्दवाच्यं स्थायिरूपं किम् इत्य् अपूर्वम् आश्रीयते । स्वर्गकामपदसमभिव्याहारानुपपत्तेर् इति चेत् । कात्रानुपपत्तिः । सिषाधयिषितस्वर्गो हि स्वर्गकामः । तस्य स्वर्गकामस्य कालान्तरभाविस्वर्गसिद्धौ क्षणभङ्गिनी यागादिक्रिया न समर्थेति चेत् । अनाघ्रातवेदसिद्धान्तानाम् इयम् अनुपपत्तिः । सर्वैः कर्मभिर् आराधितः परमेश्वरो भगवान् नारायणस् तत्तदिष्टं फलं ददातीति वेदविदो वदन्ति । यथाहुर् वेदविदग्रेसरा द्रमिडाचार्याः फलसंबिभत्सया हि कर्मभिर् आत्मानं पिप्रीषन्ति स प्रीतो ऽलं फलायेति शास्त्रमर्यादा इति । फलसंबन्धेच्छया कर्मभिर् यागदानहोमादिभिर् इन्द्रियादिदेवतामुखेन तत्तदन्तर्यामिरूपेणावस्थितम् इन्द्रादिशब्दवाच्यं परमात्मानं भगवन्तं वासुदेवम् आरिराधयिषन्ति, स हि कर्मभिर् आराधितस् तेषाम् इष्टानि फलानि प्रयच्छतीत्यर्थः । तथा च श्रुतिः इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिर् इति । इष्टापूर्तम् इति सकलश्रुतिस्मृतिचोदितं कर्मोच्यते । तद्विश्वं बिभर्ति इन्द्राग्निवरुणादिसर्वदेवतासंबन्धितया प्रतीयमानं तत्तदन्तरात्मतयावस्थितः परमपुरुषः स्वयम् एव बिभर्ति स्वयम् एव स्वीकरोति । भुवनस्य नाभिः ब्रह्मक्षत्रादिसर्ववर्णपूर्णस्य भुवनस्य धारकः तैस् तैः कर्मभिर् आराधितस् तत्तदिष्टफलप्रदानेन भुवनानां धारक इति नाभिर् इत्युक्तः । अग्निवायुप्रभृतिदेवतान्तरात्मतया तत्तच्छब्दाभिधेयो ऽयम् एवेत्य् आह तद् एवाग्निस् तद्वायुस् तत्सूर्यस् तद् उ चन्द्रमा इति । यथोक्तं भगवतायो यो याम् यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति ।तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥स तस्य श्रद्धया युक्तस् तस्याराधनम् ईहते ।लभते च ततः कामान् मयैव विहितान् इह तान् ॥ इति ।यां यां तनुम् इतीन्द्रादिदेवताविशेषास् तत्तदन्तर्यामितयावस्थितस्य भगवतस् तनवः शरीराणीत्यर्थः ।अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च ।इत्यादि । प्रभुर् एव चेति सर्वफलानां प्रदाता चेत्यर्थः । यथा चयज्ञैस् त्वम् इज्यसे नित्यं सर्वदेवमयाच्युत ।यैः स्वधर्मपरैर् नाथ नरैर् आदाधितो भवान् ।ते तरन्त्य् अखिलाम् एतां मयाम् आत्मविमुक्तये ॥इति । सेतिहासपुराणेषु सर्वेष्व् एव वेदेषु सर्वाणि कर्माणि सर्वेश्वराराधनरूपाणि, तैस् तैः कर्मभिर् आराधितः पुरुषोत्तमस् तत्तदिष्टं फलं ददातीति तत्र तत्र प्रपञ्चितम् । एवम् हि सर्वशक्तिं सर्वज्ञं सर्वेश्वरं भगवन्तम् इन्द्रादिदेवतान्तर्यामिरूपेण यागदानहोमादिवेदोदितसर्वकर्मणां भोक्तारं सर्वफलानां प्रदातारं च सर्वाः श्रुतयो वदन्ति । चतुर्होतारो यत्र संपदं गच्छन्ति देवैर् इत्याद्याः । चतुर्होतारो यज्ञाः, यत्र परमात्मनि देवेष्व् अन्तर्यामिरूपेणावस्थिते, देवैः संपदं गच्छन्ति देवैः संबन्धं गच्छन्ति यज्ञा इत्यर्थः । अन्तर्यामिरूपेणावस्थितस्य परमात्मनः शरीरतयावस्थितानाम् इन्द्रादीनां यागादिसंबन्ध इत्य् उक्तं भवति । यथोक्तं भगवताभोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।इति । तस्माद् अग्न्यादिदेवतान्तरात्मभूतपरमपुरुषाराधनरूपभूतानि सर्वाणि कर्माणि, स एव चाभिलषितफलप्रदातेति किम् अत्रापूर्वेण व्युत्पत्तिपथदूरवर्तिना वाच्यतयाभ्युपगतेन कल्पितेन वा प्रयोजनम् । एवं च सति लिङादेः को ऽयम् अर्थः परिगृहीतो भवति । यज देवपूजायाम् इति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयो ऽभिदधतीति न किंचिद् अनुपपन्नम् । कर्तृवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्यः । भूतवर्तमानादिकम् अन्ये वदन्ति । लिङादयस् तु कर्तृव्यापारसाध्यतां वदन्ति ।