Chapter 1
Verse 1.125
अपि च कामिनः कर्तव्यता कर्म विधाय कर्मणो देवताराधनरूपतां तद्द्वारा फलसंभवं च तत्तत्कर्मविधिवाक्यान्य् एव वदन्ति । वायव्यं श्वेतम् आलभत भूतिकामो वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयतीत्यादीनि । नात्र फलसिद्ध्यनुपपत्तिः कापि दृश्यत इति फलसाधनत्वावगतिर् औपादानिकीत्य् अपि न संगच्छति । विध्यपेक्षितं यागादेः फलसाधनत्वप्रकारं वाक्यशेष एव बोधयतीत्यर्थः । तस्माद् ब्राह्मणाय नापगुरेतेत्य् अत्रापगोरणनिषेधविधिपरवाक्यशेषे श्रूयमाणं निषेध्यस्यापगोरणस्य शतयातनासाधनत्वं निषेधविध्युपयोगीति हि स्वीक्रियते । अत्र पुनः कामिनः कर्तव्यतया विहितस्य यागादेः काम्यस्वर्गादिसाधनत्वप्रकारं वाक्यशेषावगतम् अनादृत्य किम् इत्य् उपादानेन यागादेः फलसाधनत्वं परिकल्प्यते । हिरण्यनिधिम् अपवरके निधाय याचते कोद्रवादिलुब्धः कृपणं जनम् इति श्रूयते तद् एतद् युष्मासु दृश्यते । शतयातनासाधनत्वम् अपि नादृष्टद्वारेण । चोदितान्य् अनुतिष्ठो विहितं कर्माकुर्वतो निन्दितानि च कुर्वतः सर्वाणि सुखानि दुःखानि च परमपुरुषानुग्रहनिग्रहाभ्याम् एव भवन्ति । एष ह्य् एवानन्दयति अथो सो ऽभयं गतो भवति अथ तस्य भयं भवति भीषास्माद् वातः पवते भीषोदेति सूर्यो भीषास्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः इति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरो ऽन्वायत्ता इत्याद्यनेकविधाः श्रुतयः सन्ति । यथोक्तं द्रमिडभाष्ये तस्याज्ञया धावति वायुर् नद्यः स्रवन्ति तेन च कृतसीमानो जलाशयाः समदा इव मेषविर्सपितं कुर्वन्तीति । तत्संकल्पनिबन्धना हीमे लोके न च्यवन्ते न स्फुटन्ते । स्वशासनानुवर्तिनां ज्ञात्वा कारुण्यात् स भगवान् वर्धयेत विद्वान् कर्मदक्ष इति च ।