Chapter 1
Verse 1.131
परस्थानप्राप्तिर् अपि भगवत्प्राप्तिगर्भैवेति सुव्यक्तम् । क्षयन्तम् अस्य रजसः पराक इति रजतःशब्देन त्रिगुणात्मिका प्रकृतिर् उच्यते केवलस्य रजसो ऽनवस्थानात् । इमां त्रिगुणात्मिकां प्रकृतिम् अतिक्रम्य स्थिते स्थाने क्षयन्तम् वसन्तम् इत्यर्थः । अनेन त्रिगुणात्मकात् क्षेत्रज्ञस्य भोग्यभूताद् वस्तुनः परस्ताद् विष्णोर् वासस्थानम् इति गम्यते । वेदाहम् एतंपुरुषं महान्तम् आदित्यवर्णं तमसः परस्ताद् इत्यत्रापि तमःशब्देन सैव प्रकृतिर् उच्यते । केवलस्य तमसो ऽनवस्थानाद् एव । रजसः पराके क्षयन्तम् इत्यनेनैकवाक्यत्वात् तमसः परस्ताद् वसन्तं महान्तम् आदित्यवर्णं पुरुषम् अहं वेदेत्य् अयम् अर्थो ऽवगम्यते । सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तदक्षरे परमे व्योमन्न् इति तत्स्थानम् अविकाररूपं परमव्योमशब्दाभिधेयम् इति च गम्यते । अक्षरे परमे व्योमन् नित्यस्य स्थानस्याक्षरत्वश्रवणात् क्षररूपादित्यमण्डलादयो न परमव्योमशब्दाभिधेयाः । यत्र पूर्वे साध्याः सन्ति देवाः, यत्र र्षयः प्रथमजा ये पुराणा इत्यादिषु च त एव सूरय इत्य् अवगम्यते । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर् यत्परं पदम् इत्यत्रापि विप्रासो मेधाविनः, विपन्यवः स्तुतिशीलाः, जागृवांसः अस्खलितज्ञानास् त एवास्खलितज्ञानास् तद्विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इत्यर्थः ।