Śrīkoṣa
Chapter 1

Verse 1.132

एतेषां परिजनस्थानादीनां सद् एव सोम्येदम् अग्र आसीद् इत्यत्र ज्ञानबलैश्वर्यादिकल्याणगुणगणवत्परब्रह्मस्वरूपान्तर्भूतत्वात् सद् एवैकम् एवाद्वितीयम् इति ब्रह्मान्तर्भावो ऽवगम्यते । एषाम् अपि कल्याणगुणैकदेशत्वाद् एव सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्रेदम् इति शब्दस्य कर्मवश्यभोक्तृवर्गमिश्रतद्भोग्यभूतप्रपञ्चविषयत्वाच् च सदा पश्यन्ति सूरय इति सदादर्शित्वेन च तेषां कर्मवश्यानन्तर्भावात् । अपहतपाप्मेत्याद्य् अपिपास इत्यन्तेन सलीलोपकरणभूतत्रिगुणप्रकृतिप्राकृततत्संसृष्टपुरुषगतं हेयस्वभावं सर्वं प्रतिषिध्य सत्यकाम इत्यनेन स्वभोग्यभोगोपकरणजातस्य सर्वस्य सत्यता प्रतिपादिता । असत्याः कामा यस्यासौ सत्यकामः । काम्यन्त इति कामाः । तेन परेण ब्रह्मणा स्वभोग्यतदुपकरणादयः स्वाभिमता ये काम्यन्ते ते सत्याः नित्या इत्यर्थः । अन्यस्य लीलोपकरणस्यापि वस्तुनः प्रमाणसंबन्धयोग्यत्वे सत्य् अपि विकारास्पदत्वेनास्थिरत्वाद् तद्विपरीतं स्थिरत्वम् एषां सत्यपदेनोच्यते । सत्यसंकल्प इत्येतेषु भोग्यतदुपकरणादिषु नित्येषु निरतिशयेष्व् अनन्तेषु सत्स्वप्यपूर्वाणाम् अपरिमितानाम् अर्थानाम् अपि संकल्पमात्रेण सिद्धिं वदति । एषां च भोगोपकरणानां लीलोपकरणानां चेतनानाम् अचेतनानां स्थिराणाम् अस्थिराणाम् च तत्संकल्पायत्तस्वरूपस्थितिप्रवृत्तिभेदादि सर्वं वाति सत्यसंकल्प इति ।