Chapter 1
Verse 1.134
यो ऽसाव् आदित्यमण्डलान्तर्वर्ती तप्तकार्तस्वरगिरिवरप्रभः सहस्रांशुशतसहस्रकिरणो गम्भीराम्भःसमुद्भूतसुमृष्टनालविकरविकसितपुण्डरीकदलामलायतेक्षणः सुभ्रूललाटः सुनासः सुस्मिताधरविद्रुमः सुरुचिरकोमलगण्डः कम्बुग्रीवः समुन्नतांसविलम्बिचारुरूपदिव्यकर्णकिसलयः पीनवृत्तायतभुजश् चारुतरातम्रकरतलानुरक्ताङ्गुलीभिर् अलंकृतस् तनुमध्यो विशालवक्षःस्थलः समविभक्तसर्वाङ्गो ऽनिर्देश्यदिव्यरूपसंहननः स्निग्धवर्णः प्रबुद्धपुण्डरीकचारुचरणयुगलः स्वानुरूपपीताम्बरधो ऽमलकिरीटकुण्डलहारकौस्तुभकेयूरकटकनूपुरोदरबन्धनाद्यपरिमिताश्चर्यानन्तदिव्यभूषणः शङ्खचक्रगदासिश्रीवत्सवनमालालङ्कृतो ऽनवधिकातिशयसौन्दर्याहृताशेषमनोदृष्टिवृत्तिर् लावण्यामृतपूरिताशेषचराचरभूतजातो ऽत्यद्भुताचिन्त्यनित्ययौवनः पुष्पहाससुकुमारः पुण्यगन्धवासितानन्तदिगन्तरालस् त्रैलोक्याक्रमणप्रवृत्तगम्भीरभावः करुणानुरागमधुरलोचनावलोकिताश्रितवर्गः पुरुषवरो दरीदृश्यते । स च निखिलजगदुदयविभवलयलीलो निरस्तसमस्तहेयः समस्तकल्याणगुणगणनिधिः स्वेतरसमस्तवस्तुविलक्षणः परमात्मा परं ब्रह्म नारायण इत्य् अवगम्यते । तद्धर्मोपदेशात् स एष सर्वेषां लोकानाम् ईष्टे सर्वेषां कामानाम् स एष सर्वेभ्यः पापभ्य उदित इत्यादिदर्शनात् । तस्यैते गुणाः सर्वस्य वशी सर्वस्येशानः अपहतपाप्मा विजर इत्यादि सत्यसंकल्प इत्यन्तम् विश्वतः परमं नित्यं विश्वं नारायणं हरिम् । पतिं विश्वस्यात्मेश्वरम् इत्यादिवाक्यप्रतिपादिताः ।