Chapter 1
Verse 1.135
वाक्यकारैश् चैतत्सर्वं सुस्पष्टम् आह हिरण्यमयः पुरुषो दृश्यत इति प्राज्ञः सर्वान्तरः स्याल् लोककामेशोपदेशात् तथोदयात् पाप्मनाम् इत्यादिना । तस्य च रूपस्यानित्यतादि वाक्यकारेणैव प्रतिषिद्धम् स्यात् तद्रूपं कृतकम् अनुग्रहार्थं तच्चेतनानाम् ऐश्वर्याद् इत्य् उपासितुर् अनुग्रहार्थः परमपुरुषस्य रूपसंग्रह इति पूर्वपक्षं कृत्वा, रूपं वातीन्द्रियम् अन्तःकरणप्रत्यक्षं तन्निर्देशाद् इति । यथा ज्ञानादयः परस्य ब्रह्मणः स्वरूपतया निर्देशात् स्वरूपभूतगुणास् तथेदम् अपि रूपं श्रुत्या स्वरूपतया निर्देशात् स्वरूपभूतम् इत्यर्थः । भाष्यकारेणैतद् व्याख्यातम् अञ्जसैव विश्वसृजो रूपं तत् तु न चक्षुषा ग्राह्यं मनसा त्व् अकलुषेण साधनान्तरवता गृह्यते, न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेनेति श्रुतेः, न ह्य् रूपाया देवताया रूपम् उपदिश्यते, यथाभूतवादि हि शास्त्रम्, महारजनं वासः वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्ताद् इति प्रकरणान्तरनिर्देशाच् च साक्षिण इत्यादिना हिरण्यमय इति रूपसामान्याच् चन्द्रमुखवत्, न मयड् अत्र विकारम् आदाय प्रयुज्यते, अनारभ्यत्वाद् आत्मन इति । यथा ज्ञानादिकल्याणगुणगणानन्तर्यनिर्देशाद् अपरिमितकल्याणगुणगणविशिष्टं परं ब्रह्मेत्य् अवगम्यत एवम् आदित्यवर्णं पुरुषम् इत्यादिनिर्देशात् स्वाभिमतस्वानुरूपकल्याणतमरूपः परब्रह्मभूतः पुरुषोत्तमो नारायण इति ज्ञायते । तथास्येशना जगतो विष्णुपत्नी ह्रीश् च ते लक्ष्मीश् च पत्न्यौ सदा पश्यन्ति सूरयः तमसः परस्तात् क्षयन्तम् अस्य रजसः पराक इत्यादिना पत्नीपरिजनस्थानादीनां निर्देशाद् एव तथैव सन्तीत्य् अवगम्यते । यथाह भाष्यकार यथाभूतवादि हि शास्त्रम् इति ।