Chapter 1
Verse 1.137
वेदाः प्रमाणं चेद् विध्यर्थवादमन्त्रगतं सर्वम् अपूर्वम् अविरुद्धम् अर्थजातं यथावस्थितम् एव बोधयन्ति । प्रामाण्यं च वेदानाम् औत्पत्तिकस् तु शब्दस्यार्थेन संबन्ध इत्युक्तम् । यथाग्निजलादीनाम् औष्ण्यादिशक्तियोगः स्वाभाविकः, यथा च चक्षुरादीनाम् इन्द्रियाणां बुद्धिविशेषजनशक्तिः स्वाभाविकी तथा शब्दस्यापि बोधनशक्तिः स्वाभाविकी । न च हस्तचेष्टादिवत् संकेतमूलं शब्दस्य बोधकत्वम् इति वक्तुं शक्यम् । अनाद्यनुसंधानाविच्छेदे ऽपि संकेतयितृपुरुषाज्ञानात् । यानि संकेतमूलानि तानि सर्वाणि साक्षाद् वा परंपरया वा ज्ञायन्ते । न च देवदत्तादिशब्दवत् कल्पयितुं युक्तम् । तेषु च साक्षाद् वा परंपरया वा संकेतो ज्ञायते । गवादिशब्दानां त्व् अनाद्यनुसंधानाविच्छेदे ऽपि संकेताज्ञानाद् एव बोधकत्वशक्तिः स्वाभाविकी । अतो ऽग्न्यादीनां दाहकत्वादिशक्तिवद् इन्द्रियाणां बोधकत्वशक्तिवच् च शब्दस्यापि बोधकत्वशक्तिर् आश्रयणीया ॥