Chapter 1
Verse 1.17
तम् आदेशम् प्राक्ष्यो येनाश्रुतं श्रुतं भवतीत्यादाव् एव प्रशास्तितैव जगदुपादानम् इति हृदि निहितम् इदानीम् अभिव्यक्तम् । स्वयम् एव जगदुपादानं जगन्निमित्तं च सत् तद् ऐक्षत बहु स्यां प्रजायेयेति । तद् एतच्छब्दवाच्यं परं ब्रह्म सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पम् अवाप्तसमस्तकामम् अपि लीलार्थं विचित्रानन्तचिदचिन्मिश्रजगद्रूपेणाहम् एव बहु स्यां तदर्थं प्रजायेयेति स्वयम् एव संकल्प्य स्वांशैकदेशाद् एव वियदादिभूतानि सृष्ट्वा पुनर् अपि सैव सच्छब्दाभिहिता परा देवतैवम् ऐक्षत हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । अनेन जीवेनात्मनेति जीवस्य ब्रह्मात्मकत्वं प्रतिपाद्य ब्रह्मात्मजीवानुप्रवेशाद् एव कृत्स्नस्याचिद्वस्तुनः पदार्थत्वम् एवंभूतस्यैव सर्वस्य वस्तुनो नामभाक्त्वम् इति च दर्शयति । एतदुक्तं भवति जीवात्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद् ब्रह्मात्मकः । यस्यात्मा शरीरम् इति श्रुत्यन्तरात् । एवंभूतस्य जीवस्य शरीरतया प्रकारभूतानि देवमनुष्यादिसंस्थानानि वस्तूनीति ब्रह्मात्मकानि तानि सर्वाणि । अतो देवो मनुष्यो राक्षसः पशुर् मृगः पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पट इत्यादयः सर्वे प्रकृतिप्रत्यययोगेनाभिधायकतया प्रसिद्धाः शब्दा लोके तत्तद्वाच्यतया प्रतीयमानतत्तत्संस्थानवस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्मपर्यन्तसंघातस्यैव वाचका इति ।