Śrīkoṣa
Chapter 1

Verse 1.28

अथ स्यात् नास्माभिर् निर्विशेषे स्वयंप्रकाशे वस्तुनि शब्दः प्रमाणम् इत्य् उच्यते । स्वतःसिद्धस्य प्रमाणानपेक्षत्वात् । सर्वैः शब्दैस् तदुपरागविशेषा ज्ञातृत्वादयः सर्वे निरस्यन्ते । सर्वेषु विशेषेषु निवृत्तेषु वस्तुमात्रम् अनवच्छिन्नं स्वयंप्रकाशं स्वत एवावतिष्ठत इति । नैतद् एवम् । केन शब्देन तद्वस्तु निर्दिश्य तद्गतविशेषा निरस्यन्ते । ज्ञप्तिमात्रशब्देनेति चेन् न । सो ऽपि सविशेषम् एव वस्त्ववलम्बते । प्रकृतिप्रत्ययरूपेण विशेषगर्भत्वात् । ज्ञा अवबोधन इति सकर्मकः सकर्तृकः क्रियाविशेषः क्रियान्तरव्यावर्तकस्वभावविशेषश् च प्रकृत्यावगम्यते । प्रत्ययेन च लिङ्गसंख्यादयः । स्वतःसिद्धाव् अप्य् एतत्स्वभावविशेषविरहे सिद्धिर् एव न स्यात् । अन्यसाधनस्वभावतया हि ज्ञप्तेः स्वतःसिद्धिर् उच्यते ।