Chapter 1
Verse 1.31
अपि च निर्विशेषवस्त्वादिना स्वयंप्रकाशे वस्तुनि तदुपरागविशेषाः सर्वैः शब्दैर् निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति विकारनामधेययोर् वाचारम्भणमात्रत्वात् । यत् तत्र कारणतयोपलक्ष्यते वस्तुमात्रं तद् एव सत्यम् अन्यद् असत्यम् इतीयं श्रुतिर् वदतीति चेन् नैतद् उपपद्यते । एकस्मिन् विज्ञाते सर्वं विज्ञातं भवतीति प्रतिज्ञाते ऽन्यज्ञानेनान्यज्ञानासंभवं मन्वानस्यैकम् एव वस्तु विकाराद्यवस्थाविशेषेण पारमार्थिकेनैव नामरूपम् अवस्थितं चेत् तत्रैकस्मिन् विज्ञाते तस्माद् विलक्षणसंस्थानान्तरम् अपि तद् एवेति तत्र दृष्टान्तो ऽयं निदर्शितः । नात्र कस्यचिद् विशेषस्य निषेधकः को ऽपि शब्दो दृश्यते । वाचारम्भणम् इति वाचा व्यवहारेणारभ्यत इत्य् आरम्भणम् । पिण्डरूपेणावस्थितायाः मृत्तिकाया नाम वान्यद्व्यवहारश् चान्यः । घटशरावादिरूपेणावस्थितायास् तस्या एव मृत्तिकाया अन्यानि नामधेयानि व्यवहाराश् चान्यद्दशाः । तथापि सर्वत्र मृत्तिकाद्रव्यम् एकम् एव नानासंस्थाननानानामधेयाभ्यां नानाव्यवहारेण चारभ्यत इत्येतद् एव सत्यम् इत्य् अनेनान्यज्ञानेनान्यज्ञानसंभवो निदर्शितः । नात्र किंचिद् वस्तु निषिध्यत इति पूर्वम् एवायम् अर्थः प्रपञ्चितः ।