Chapter 1
Verse 1.48
अपि च चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य को ऽयं ज्ञाता । अध्यासरूप इति चेन् न । तस्य निषेधतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्तेः । ब्रह्मस्वरूप एवेति चेन् न । ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम् उताध्यस्तम् । अध्यस्तं चेद् अयम् अध्यासस् तन्मूलविद्यान्तरं च निवर्तकज्ञानविषयतया तिष्ठत्य् एव । तन्निवर्तकान्तराभ्युपगमे तस्यापि त्रिरूपतयानवस्थैव । सर्वस्य हि ज्ञानस्य त्रिरूपकत्वविरहे ज्ञानत्वम् एव हीयते । कस्यचित् कंचनार्थविशेषं प्रति सिद्धिरूपत्वात् । ज्ञानस्य त्रिरूपत्वविरहे भवतां स्वरूपभूतज्ञानवन् निवर्तकज्ञानम् अप्य् अनिवर्तकं स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमे ऽस्मदीय एव पक्षः परिगृहीतः स्यात् । निवर्तकज्ञानस्वरूपज्ञातृत्वं च स्वनिवर्त्यान्तर्गतम् इति वचनं भूतलव्यतिरिक्तं कृत्स्नं छिन्नं देवदत्तेनेत्य् अस्याम् एव छेदनक्रियायाम् अस्याश् छेदनक्रियायाश् छेत्तृत्वस्य च छेद्यान्तर्भाववचनवद् उपहास्यम् ।