Śrīkoṣa
Chapter 1

Verse 1.49

अपि च निखिलभेदनिवर्तकम् इदम् ऐक्यज्ञानं केन जातम् इति विमर्शनीयम् । श्रुत्यैवेति चेन् न । तस्या ब्रह्मव्यतिरिक्ताया अविद्यापरिकल्पितत्वात् प्रपञ्चबाधकज्ञानस्योत्पादकत्वं न संभवति । तथा हि दुष्टकारणजातम् अपि रज्जुसर्पज्ञानं न दुष्टकारणजन्येन रज्जुर् इयं न सर्प इति ज्ञानेन बाध्यते । रज्जुसर्पज्ञानभये वर्तमाने केनचिद्भ्रान्तेन पुरुषेण रज्जुर् इयं न सर्प इत्युक्ते ऽप्य् अयं भ्रान्त इति ज्ञाते सति तद्वचनं रज्जुसर्पज्ञानस्य बाधकं न भवति भयं च न निवर्तते । प्रयोजकज्ञानवतः श्रवणवेलायाम् एव हि ब्रह्मव्यतिरिक्तत्वेन श्रुतेर् अपि भ्रान्तिमूलत्वं ज्ञातम् इति । निवर्तकज्ञानस्य ज्ञातुस् तत्सामग्रीभूतशास्त्रस्य च ब्रह्मव्यतिरिक्ततया यदि बाध्यत्वम् उच्यते हन्त तर्हि प्रपञ्चनिवृत्तेर् मिथ्यात्वम् आपततीति प्रपञ्चस्य सत्यता स्यात् । स्वप्नदृष्टपुरुषवाक्यावगतपित्रादिमरणस्य मिथ्यात्वेन पित्रादिसत्यतावत् । किञ्च तत् त्वम् अस्य् आदिवाक्यं न प्रपञ्चस्य बाधकम् । भ्रान्तिमूलत्वाद् भ्रान्तप्रयुक्तरज्जुसर्पबाधकवाक्यवत् ।