Chapter 1
Verse 1.68
अयम् अर्थः जातिर् वा गुणो वा द्रव्यं वा न तत्रादरः । कंचन द्रव्यविशेषं प्रति विशेषणतयैव यस्य सद्भावस् तस्य तदपृथक्सिद्धेस् तत्प्रकारतया तत्सामानाधिकरण्येन प्रतिपादनं युक्तम् । यस्य पुनर् द्रव्यस्य पृथक्सिद्धस्यैव कदाचित्क्वचिद्द्रव्यान्तरप्रकारत्वम् इष्यते तत्र मत्वर्थीयप्रत्यय इति विशेषः । एवम् एव स्थावरजङ्गमात्मकस्य सर्वस्य वस्तुन ईश्वरशरीरत्वेन तत्प्रकारतयैव स्वरूपसद्भाव इति । तत्प्रकारीश्वर एव तत्तच्छब्देनाभिधीयत इति तत्सामानाधिकरण्येन प्रतिपादनं युक्तं । तद् एवैतत् सर्वं पूर्वम् एव नामरूपव्याकरणश्रुतिविवरणे प्रपञ्चितम् ।