Chapter 1
Verse 1.81
दैवी ह्य् एषा गुणमयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ इति तस्यात्मनः कर्मकृतविचित्रगुणमयप्रकृतिसंसर्गरूपात् संसारान् मोक्षो भगवत्प्रपत्तिम् अन्तरेण नोपपद्यत इत्युक्तं भवति । नान्यः पन्था अयनाय विद्यत इत्यादिश्रुतिभिश् च । मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना ।मत्स्थानि सर्वभूतानि न चाहं तेषु अवस्थितः ॥ न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ इति सर्वशक्तियोगात् स्वैश्वर्यवैचित्र्यम् उक्तम् । तद् आह - विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् । इति अनन्तविचित्रमहाश्चर्यरूपं जगन् ममायुतांशेनात्मतया प्रविश्य सर्वं मत्संकल्पेन विष्टभ्यानेन रूपेणानन्तमहाविभूतिपरिमितोदारगुणसागरो निरतिशयाश्चर्यभूतः स्थितो ऽहम् इत्यर्थः । तद् इदम् आह - एकत्वे सति नानात्वं नानात्वे सति चैकता । अचिन्त्यं ब्रह्मणो रूपं कस् तद्वेदितुम् अर्हति ॥ इति । प्रशासितृत्वेनैक एव सन्विचित्रचिदचिद्वस्तुष्व् अन्तरात्मतया प्रविश्य तत्तद्रूपेण विचित्रप्रकारो विचित्रकर्म कारयन् नानारूपां भजते । एवं स्वल्पांशेन तु सर्वाश्चर्यं नानारूपं जगत्तदन्तरात्मतया प्रविश्य विष्टभ्य नानात्वेनावस्थितो ऽपि सन्न् अनवधिकातिशयासंख्येयकल्याणगुणगणः सर्वेश्वरः परब्रह्मभूतः पुरुषोत्तमो नारायणो निरतिशयाश्चर्यभूतो नीलतोयदसंकाशः पुण्डरीकदलामलायतेक्षणः सहस्रांशुसहस्रकिरणः परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमंस् तदक्षरे परमे व्योमन्न् इत्यादिश्रुतिसिद्ध एक एवावतिष्ठते ।