Śrīkoṣa
Chapter 1

Verse 1.84

नानारूपाणां वाक्यानाम् अविरोधो मुख्यार्थापरित्यागश् च यथा संभवति तथा वर्णनीयम् । वर्णितं च अविकारश्रुतयः स्वरूपपरिणामपरिहाराद् एव मुख्यार्थाः । निर्गुणवादाश् च प्राकृतहेयगुणनिषेधपरतया व्यवस्थिताः । नानात्वनिषेधवादाश् चैकस्य ब्रह्मणः शरीरतया प्रकारभूतं सर्वं चेतनाचेतनं वस्त्व् इति सर्वस्यात्मतया सर्वप्रकारं ब्रह्मैवावस्थितम् इति सुरक्षिताः । सर्वप्रकारविलक्षणत्वपतित्वेश्वरत्वसर्वकल्याणगुणगणाकारत्वसत्यकामत्वसत्यसंकल्पत्वादिवाक्यं तदभ्युपगमाद् एव सुरक्षितम् । ज्ञानानन्दमात्रवादि च सर्वस्माद् अन्यस्य सर्वकल्याणगुणगणाश्रयस्य सर्वेश्वरस्य सर्वशेषिणः सर्वाधारस्य सर्वोत्पत्तिस्थितिप्रलयहेतुभूतस्य निरवद्यस्य निर्विकारस्य सर्वात्मभूतस्य परस्य ब्रह्मणः स्वरूपनिरूपकधर्मो मलप्रत्यनीकानन्दरूपज्ञानम् एवेति स्वप्रकाशतया स्वरूपम् अपि ज्ञानम् एवेति च प्रतिपादनाद् अनुपालितम् । ऐक्यवादाश् च शरीरात्मभावेन सामानाधिकरण्यमुख्यार्थतोपपादनाद् एव सुस्थिताः ।