Śrīkoṣa
Chapter 1

Verse 1.87

ऐक्यवाक्यविरोधाद् एतदपरमार्थसगुणब्रह्मप्राप्तिविषयम् इत्य् अभ्युपगन्तव्यम् इति चेत् । पृथक्त्वज्ञानस्यैव साक्षादमृतत्वप्राप्तिसाधनत्वश्रवणाद् विपरीतं कस्मान् न भवति ।एतद् उक्तं भवति । द्वयोर् तुल्ययोर् विरोधे सत्य् अविरोधेन तयोर् विषयो विवेचनीय इति । कथम् अविरोध इति चेत् । अन्तर्यामिरूपेणावस्थितस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज् जीवात्मनस् तत्प्रकारं ब्रह्मैव त्वम् इति शब्देनाभिधीयते । तथैव ज्ञातव्यम् इति तस्य वाक्यस्य विषयः । एवंभूताज् जीवात् तदात्मतयावस्थितस्य परमात्मनो निखिलदोषरहिततया सत्यसंकल्पत्वाद् अनवधिकातिशयासंख्येयकल्याणगुणगणाकरत्वेन च यः पृथग्भावः सो ऽनुसंधेय इत्य् अस्य वाक्यस्य विषय इत्य् अयम् अर्थः पूर्वम् असकृदुक्तः । भोक्ता भोग्यं प्रेरितारं च मत्वेति भोग्यरूपस्य वस्तुनो ऽचेतनत्वं परमार्थत्वं सततं विकारास्पदत्वम् इत्यादयः स्वभावाः, भोक्तुर् जीवात्मनश् चामलापरिच्छिन्नज्ञानानन्दस्वभावस्यैवानादिकर्मरूपाविद्याकृतनानाविधज्ञानसंकोचविकासौ भोग्यभूताचिद्वस्तुसंसर्गश् च परमात्मोपासनान् मोक्षश् चेत्यादयः स्वभावाः, एवंभूतभोक्तृभोग्ययोर् अन्तर्यामिरूपेणावस्थानं स्वरूपेण चापरिमितगुणौघाश्रयत्वेनावस्थानम् इति परस्य ब्रह्मस् त्रिविधावस्थानं ज्ञातव्यम् इत्यर्थः ॥