Śrīkoṣa
Chapter 1

Verse 1.88

तत् त्वम् असीति सद्विद्यायाम् उपास्यं ब्रह्म सगुणं सगुणब्रह्मप्राप्तिश् च फलम् इत्य् अभियुक्तैः पूर्वाचार्यैर् व्याख्यातम् । यथोक्तं वाक्यकारेण युक्तं तद्गुणकोपासनाद् इति । व्याख्यातं च द्रमिडाचार्येण विद्याविकल्पं वदता यद्य् अपि सच्चितो न निर्भुग्नदैवतं गुणगणं मनसानुधावेत् तथाप्य् अन्तर्गुणाम् एव देवतां भजत इति तत्रापि सगुणैव देवता प्राप्यत इति । सच्चित्तः सद्विद्यानिष्ठः । न निर्भुग्नदैवतं गुणगणं मनसानुधावेत् अपहतपाप्मत्वादिकल्याणगुणगणं दैवताद् विभक्तं यद्य् अपि दहरविद्यानिष्ठ इव सच्चितो न स्मरेत् । तथाप्य् अन्तर्गुणाम् एव देवतां भजते देवतास्वरूपानुबन्धित्वात् सकलकल्याणगुणगणस्य केनचिद् परदेवतासाधारणेन निखिलजगत्कारणत्वादिना गुणेनोपास्यमानापि देवता वस्तुतः स्वरूपानुबन्धि सर्वकल्याणगुणगणविशिष्टैवोपास्यते । अतः सगुणम् एव ब्रह्म तत्रापि प्राप्यम् इति सद्विद्यादहरविद्ययोर् विकल्प इत्यर्थः ।