Vedārthasangraha
By Rāmānujācārya
Composed in ~1050 CE
1 chapter • 145 verses
Filter Content
Display Mode
Chapter - 1
अशेषचिदचिद्वस्तुविशेषिणे शेषशायिने ।निर्मलानन्तकल्याणनिधये विष्णवे नमः ॥
परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत्परोपाध्यालीढं विवशमशुभस्यास्पदम् इति ।श्रुतिन्यायापेतं जगति विततं मोहनम् इदं तमो येनापास्तं स हि विजयते यामुनमुनिः ॥
अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समधिगतो ऽयम् अर्थः जीवपरमात्मयाथात्म्यज्ञानपूर्वकवर्णाश्रमधर्मेतिकर्तव्यताकपरमपुरुषचरणयुगलध्यानार्चनप्रणामादिर् अत्यर्थप्रियस् तत्प्राप्तिफलः ॥
अस्य जीवात्मनो ऽनाद्यविद्यासंचितपुण्यपापरूपकर्मप्रवाहहेतुकब्रह्मादिसुरनरतिर्यक्स्थावरात्मकचतुर्विधदेहप्रवेशकृततत्तदभिमानजनितावर्जनीयभवभयविध्वंसनाय देहातिरिक्तात्मस्वरूपतत्स्वभावतदन्तरयामिपरमात्मस्वरूपतत्स्वभावतदुपासनतत्फलभूतात्मस्वरूपाविर्भावपूर्वकानवधिकातिशयानन्दब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम्, तत् त्वम् असि । अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः । एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन । ब्रह्मविद् आप्नोति परम् । तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यत इत्यादिकम् ।
जीवात्मनः स्वरूपं देवमनुष्यादिप्रकृतिपरिणामविशेषरूपनानाविधभेदरहितं ज्ञानानन्दैकगुणं, तस्यैतस्य कर्मकृतदेवादिभेदे ऽपध्वस्ते स्वरूपभेदो वाचाम् अगोचरः स्वसंवेद्यः, ज्ञानस्वरूपम् इत्य् एतावद् एव निर्देश्यम् । तच् च सर्वेषाम् आत्मनां समानम् ।
एवंविधचिदचिदात्मकप्रपञ्चस्योद्भवस्थितिप्रलयसंसारनिर्वर्तनैकहेतुभूतः समस्तहेयप्रत्यनीकानन्तकल्याणतया च स्वेतरसमस्तवस्तुविलक्षणस्वरूपो ऽनवधिकातिशयासंख्येयकल्याणगुणगणः सर्वात्मपरब्रह्मपरज्योतिःपरतत्त्वपरमात्मसदादिशब्दभेदैर् निखिलवेदान्तवेद्यो भगवान् नारायणः पुरुषोत्तम इत्य् अन्तर्यामिस्वरूपम् । अस्य च वैभवप्रतिपादनपराः श्रुतयः स्वेतरसमस्तचिदचिद्वस्तुजातान्तरात्मतया निखिलनियमनं तच्छक्तितदंशतद्विभूतितद्रूपतच्छरीरतत्तनुप्रभृतिभिः शब्दैस् तत्सामानाधिकरण्येन च प्रतिपादयन्ति ।
तस्य वैभवप्रतिपादनपराणाम् एषां सामानाधिकरण्यादीनां विवरणे प्रवृत्ताः केचन निर्विशेषज्ञानमात्रम् एव ब्रह्म, तच् च नित्यमुक्तस्वप्रकाशस्वभावम् अपि तत् त्वम् अस्य् आदिसामानाधिकरण्यावगतजीवैक्यं, ब्रह्मैवाज्ञं बध्यते मुच्यते च, निर्विशेषचिन्मात्रातिरेकेश्वरेशितव्याद्यनन्तविकल्परूपं कृत्स्नं जगन्मिथ्या, कश्चिद् बद्धः, कश्चिन् मुक्त इत्य् इयम् अवस्था न विद्यते । इतः पूर्वं केचन मुक्ता इत्य् अयम् अर्थो मिथ्या । एकम् एव शरीरं जीववन् निर्जीवानीतराणि, तच्छरीरं किम् इति न व्यवस्थितम्, आचार्यो ज्ञानस्योपदेष्टा मिथ्या शास्त्रं च मिथ्या शास्त्रप्रमाता च मिथ्या शास्त्रजन्यं ज्ञानं च मिथ्या एतत् सर्वं मिथ्याभूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति ।
अपरे त्व् अपहतपाप्मत्वादिसमस्तकल्याणगुणोपेतम् अपि ब्रह्मैतेनैवैक्यावबोधेन केनचिद् उपाधिविशेषेण संबद्धं बध्यते मुच्यते च नानाविधमलरूपपरिणामास्पदं चेति व्यवस्थिताः ।
अन्ये पुनर् ऐक्यावबोधयाथात्म्यं वर्णयन्तः स्वाभाविकनिरतिशयापरिमितोदारगुणसागरं ब्रह्मैव सुरनरतिर्यक्स्थावरनारकिस्वर्ग्यपवर्गिचेतनेषु स्वभावतो विलक्षणम् अविलक्षणं च वियदादिनानाविधमलरूपपरिणामास्पदं चेति प्रत्यवतिष्ठन्ते ।
तत्र प्रथमपक्षस्य श्रुत्यर्थपर्यालोचनपरा दुष्परिहारान् दोषान् उदाहरन्ति । प्रकृतपरामर्शितच्छब्दावगतस्वसंकल्पकृतजगदुदयविभवविलयादयस् तद्+ऐक्षत बहु स्यां प्रजायेयेत्यारभ्य सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यादिभिः पदैः प्रतिपादितास् तत्संबन्धितया प्रकरणान्तरनिर्दिष्टाः सर्वज्ञतासर्वशक्तित्वसर्वेश्वरत्वसर्वप्रकारत्वसमाभ्यधिकनिवृत्तिसत्यकामत्वसत्यसंकल्पत्वसर्वावभासकत्वाद्यनवधिकातिशयासंख्येयकल्याणगुणगणा अपहतपाप्मेत्याद्यनेकवाक्यावगतनिरस्तनिखिलदोषता च सर्वे तस्मिन् पक्षे विहन्यन्ते ।
अथ स्यात् उपक्रमे ऽप्य् एकविज्ञानेन सर्वविज्ञानमुखेन कारणस्यैव सत्यतां प्रतिज्ञाय तस्य कारणभूतस्यैव ब्रह्मणः सत्यतां विकारजातस्यासत्यतां मृद्दृष्टान्तेन दर्शयित्वा सत्यभूतस्यैव ब्रह्मणः सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति सजातीयविजातीयनिखिलभेदनिरसनेन निर्विशेषतैव प्रतिपादिता । एतच् छोधकानि प्रकरणान्तरगतवाक्यान्य् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, निष्कलं निष्क्रियं निर्गुणं, विज्ञानम् आनन्दम् इत्यादीनि सर्वविशेषप्रत्यनीकैकाकारतां बोधयन्ति । न चैकाकारताबोधने पदानां पर्यायता । एकत्वे ऽपि वस्तुनः सर्वविशेषप्रत्यनीकतोपस्थापनेन सर्वपदानाम् अर्थवत्त्वाद् इति ।
नैतद् एवम् । एकविज्ञानेन सर्वविज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान् न सेत्स्यति । सत्यत्वमिथ्यात्वयोर् एकताप्रसक्तिर् वा । अपि त्व् एकविज्ञानेन सर्वविज्ञानं सर्वस्य तदात्मकत्वेनैव सत्यत्वे सिध्यति ।
अयम् अर्थः श्वेतकेतुं प्रत्याह स्तब्धो ऽस्य् उत तम् आदेशम् अप्राक्ष्य इति परिपूर्ण इव लक्ष्यसे तान् आचार्यान् प्रति तम् अप्य् आदेशं पृष्टवान् असीति । आदिश्यते ऽनेनेत्य् आदेशः । आदेषः प्रशासनम् । एतस्य वा अक्षरस्य गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्य् आदिभिर् ऐक्यर्थ्यात् । तथा च मानवं वचः प्रशासितारं सर्वेषाम् इत्यादि । अत्राप्य् एकम् एवेति जगदुपादानतां प्रतिपाद्याद्वितीयपदेनाधिष्ठातरनिवारणाद् अस्यैवाधिष्ठातृत्वम् अपि प्रतिपाद्यते ।अतस् तं प्रशासितारं जगदुपादानभूतम् अपि पृष्टवान् असि येन श्रुतेन मतेन विज्ञातेनाश्रुतम् अमतम् अविज्ञानं श्रुतं मतं विज्ञातं भवतीत्य् उक्तं स्यात् । निखिलजगदुदयविभवविलयादिकारणभूतं सर्वज्ञत्वसत्यकामत्वसत्यसंकल्पत्वपरिमितोदारगुणगणसागरं किं ब्रह्मापि त्वया श्रुतम् इति हार्दो भावः । तस्य निखिलकारणतया कारणम् एव नानासंस्थानविशेषसंस्थितं कार्यम् इत्य् उच्यत इति कारणभूतसूक्ष्मचिदचिद्वस्तुशरीरकब्रह्मविज्ञानेन कार्रभूतम् अखिलं जगद् विज्ञातं भवतीति हृदि निधाय येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातं स्याद् इति पुत्रं प्रति पृष्टवान् पिता । तद् एतत्सकलस्य वस्तुजातस्यैककारणत्वं पितृहृदि निहितम् अजानन् पुत्रः परस्परविलक्षणेषु वस्तुष्व् अन्यस्य ज्ञानेन तदन्यविज्ञानस्याघटमानतां बुद्ध्वा परिचोदयति कथं नु बगवः स आदेश इति ।
परिचोदितः पुनस् तद् एव हृदि निहितं ज्ञानानन्दामलत्वैकस्वरूपम् अपरिच्छेद्यमाहात्म्यं सत्यसंकल्पत्वमिश्रैर् अनवधिकातिशयासंख्येयकल्याणगुणगणैर् जुष्टम् अविकारस्वरूपं परं ब्रह्मैव नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं स्वलीलायै स्वसंकल्पेनानन्तविचित्रस्थिरत्रसस्वरूपजगत्संस्थानं स्वांशेनावस्थितम् इति ।
तज्ज्ञानेनास्य निखिलस्य ज्ञाततां ब्रुवंल् लोकदृष्टं कार्यकारणयोर् अनन्यत्वं दर्शयितुं दृष्टान्तम् आह यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति । एकम् एव मृद्द्रव्यं स्वैकदेशेन नानाव्यवहारास्पदत्वाय घटशरावादिनानासंस्थानावस्थारूपविकारापन्नं नानानामधेयम् अपि मृत्तिकासंस्थानविशेषत्वान् मृद्द्रव्यम् एवेत्थम् अवस्थितं न वस्त्वन्तरम् इति । यथा मृत्पिण्डविज्ञानेन तत्संस्थानविशेषरूपम् घटशरावादि सर्वं ज्ञातम् एव भवतीत्यर्थः ।
ततः कृत्स्नस्य जगतो ब्रह्मैककारणताम् अजानन् पुत्रः पृच्छति भगवांस् त्व् एव मे तद् ब्रवीत्व् इति । ततः सर्वज्ञं सर्वशक्ति ब्रह्मैव सर्वकारणम् इत्य् उपदिशन् स होवाच सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति । अत्रेदम् इति जगन् निर्दिष्टम् । अग्र इति च सृष्टेः पूर्वकालः । तस्मिन् काले जगतः सदात्मकतां सद् एवेति प्रतिपाद्य, तत्सृष्टिकाले ऽप्य् अविशिष्टम् इति कृत्वैकम् एवेति सदापन्नस्य जगतस् तदानीम् अविभक्तनामरूपतां प्रतिपाद्य तत्प्रतिपादनेनैव सतो जगदुपादानत्वं प्रतिपादितम् इति स्वव्यतिरिक्तनिमित्तकारणम् अद्वितीयपदेन प्रतिषिद्धम् ।
तम् आदेशम् प्राक्ष्यो येनाश्रुतं श्रुतं भवतीत्यादाव् एव प्रशास्तितैव जगदुपादानम् इति हृदि निहितम् इदानीम् अभिव्यक्तम् । स्वयम् एव जगदुपादानं जगन्निमित्तं च सत् तद् ऐक्षत बहु स्यां प्रजायेयेति । तद् एतच्छब्दवाच्यं परं ब्रह्म सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पम् अवाप्तसमस्तकामम् अपि लीलार्थं विचित्रानन्तचिदचिन्मिश्रजगद्रूपेणाहम् एव बहु स्यां तदर्थं प्रजायेयेति स्वयम् एव संकल्प्य स्वांशैकदेशाद् एव वियदादिभूतानि सृष्ट्वा पुनर् अपि सैव सच्छब्दाभिहिता परा देवतैवम् ऐक्षत हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । अनेन जीवेनात्मनेति जीवस्य ब्रह्मात्मकत्वं प्रतिपाद्य ब्रह्मात्मजीवानुप्रवेशाद् एव कृत्स्नस्याचिद्वस्तुनः पदार्थत्वम् एवंभूतस्यैव सर्वस्य वस्तुनो नामभाक्त्वम् इति च दर्शयति । एतदुक्तं भवति जीवात्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद् ब्रह्मात्मकः । यस्यात्मा शरीरम् इति श्रुत्यन्तरात् । एवंभूतस्य जीवस्य शरीरतया प्रकारभूतानि देवमनुष्यादिसंस्थानानि वस्तूनीति ब्रह्मात्मकानि तानि सर्वाणि । अतो देवो मनुष्यो राक्षसः पशुर् मृगः पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पट इत्यादयः सर्वे प्रकृतिप्रत्यययोगेनाभिधायकतया प्रसिद्धाः शब्दा लोके तत्तद्वाच्यतया प्रतीयमानतत्तत्संस्थानवस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्मपर्यन्तसंघातस्यैव वाचका इति ।
एवं समस्तचिदचिदात्मकप्रपञ्चस्य सदुपादानतासन्निमित्ततासदाधारतासन्नियम्यतासच्छेषतादि सर्वं च सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यादिना विस्तरेण प्रतिपाद्य कार्यकारणभावादिमुखेनैतदात्म्यम् इदं सर्वं तत्सत्यम् इति कृत्स्नस्य जगतो ब्रह्मात्मकत्वम् एव सत्यम् इति प्रतिपाद्य कृत्स्नस्य जगतः स एवात्मा कृत्स्नं जगत् तस्य शरीरं तस्मात् त्वंशब्दवाच्यम् अपि जीवप्रकारं ब्रह्मैवेति सर्वस्य ब्रह्मात्मकत्वं प्रतिज्ञातं तत् त्वम् असीति जीवविशेष उपसंहृतम् ।
एतद् उक्तं भवति । ऐतदात्म्यम् इदं सर्वम् इति चेतनाचेतनप्रपञ्चम् इदं सर्वम् इति निर्दिश्य तस्य प्रपञ्चस्यैष आत्मेति प्रतिपादितः, प्रपञ्चोद्देशेन ब्रह्मात्मकत्वं पतिपादितम् इत्यर्थः । तद् इदं ब्रह्मात्मकत्वं किम् आत्मशरीरभावेनोत स्वरूपेणेति विवेचनीयम् । स्वरूपेण चेद् ब्रह्मणः सत्यसङ्कल्पाद्यः तद् ऐक्षत बहु स्यं प्रजायेयेत्य् उपक्रमावगता बाधिता भवन्ति । शरीरात्मभावेन च तद् आत्मकत्वं श्रुत्यन्तराद् विशेषतो ऽवगतम् अन्तःप्रविष्टः शास्ता जनानां सर्वात्मेति प्रशासितृत्वरूपात्मत्वेन सर्वेषां जनानाम् अन्तःप्रविष्टो ऽतः सर्वात्मा सर्वेषां जनानाम् आत्मा सर्वं चास्य शरीरम् इति विशेषतो ज्ञायते ब्रह्मात्मकत्वम् । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृत इति च । अत्राप्य् अनेन जीवेनात्मनेतीदम् एव ज्ञायत इति पूर्वम् एवोक्तम् । अतः सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वात् सर्वप्रकारं सर्वशब्दैर् ब्रह्मैवाभिधीयत इति तत् त्वम् इति सामानाधिकरण्येन जीवशरीरतया जीवप्रकारं ब्रह्मैवाभिहितम् ।
एवम् अभिहिते सत्य् अयम् अर्थो ज्ञायते त्वम् इति यः पूर्वं देहस्याधिष्ठातृतया प्रतीतः स परमात्मशरीरतया परमात्मप्रकारभूतः परमात्मपर्यन्तः । अतस् त्वम् इति शब्दस् त्वत्प्रकारविशिष्टं त्वदन्तर्यामिणम् एवाचष्ट इति । अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ब्रह्मात्मकतयैव जीवस्य शरीरिणः स्वनामभाक्त्वात् तत् त्वम् इति सामानाधिकरण्यप्रवृत्तयोर् द्वयोर् अपि पदयोर् ब्रह्मैव वाच्यम् । तत्र च तत्पदं जगत्कारणभूतं सकलकल्याणगुणगणाकरं निर्वद्यं निर्विकारम् आचष्टे । त्वम् इति च तद् एव ब्रह्म जीवान्तर्यामिरूपेण सशरीरप्रकारविशिष्टम् आचष्टे । तद् एवं प्रवृत्तिनिमित्तभेदेनैकस्मिन् ब्रह्मण्य् एव तत् त्वम् इति द्वयोः पदयोर् वृत्तिर् उक्ता । ब्रह्मणो निरवद्यं निर्विकारं सकलकल्याणगुणगणाकरत्वं जगत्कारणत्वं चाबाधितम् ।
अश्रुतवेदान्ताः पुरुषाः पदार्थाः सर्वे जीवात्मनश् च ब्रह्मात्मका इति न पश्यति सर्वशब्दानां च केवलेषु तत्तत्पदार्थेषु वाच्यैकदेशेषु वाच्यपर्यवसानं मन्यन्ते । इदानीं वेदान्तवाक्यश्रवणेन ब्रह्मकार्यतया तदन्तर्यामितया च सर्वस्य ब्रह्मात्मकत्वं सर्वशब्दानां तत्तत्प्रकारसंस्थितब्रह्मवाचित्वं च जानन्ति । नन्व् एवं गवादिशब्दानां तत्तत्पदार्थवाचितया व्युत्पत्तिर् बाधिता स्यात् । नैवं सर्वे शब्दा अचिज्जीवविशिष्टस्य परमात्मनो वाचका इत्य् उक्तम् । नामरूपे व्याकरवाणीत्य् अत्र । तत्र लौकिकाः पुरुषाः शब्दं व्याहरन्तः शब्दवाच्ये प्रधानांशस्य परमात्मनः प्रत्यक्षाद्यपरिच्छेद्यत्वाद् वाच्यैकदेशभूते वाच्यसमाप्तिं मन्यन्ते । वेदान्तश्रवणेन च व्युत्पत्तिः पूर्यते । एवम् एव वैदिकाः सर्वे शब्दाः परमात्मपर्यन्तान् स्वार्थान् बोधयन्ति । वैदिका एव सर्वे शब्दा वेदादव् उद्धृत्योद्धृत्य परेणैव ब्रह्मणा सर्वपदार्थान् पूर्ववत् सृष्ट्वा तेषु परमात्मपर्यन्तेषु पूर्ववन् नामतया प्रयुक्ताः । तद् आह मनुःसर्वेषां तु नामानि कर्माणि च पृथक् पृथक् ।वेदशब्देभ्य एवादौ पृथक्संस्थाश् च निर्ममे ॥इति । संस्थाः संस्थानानि रूपाणीति यावत् । आह च भगवान् पराशरःनाम रूपं भूतानां कृत्यानां प्रपञ्चनम् ।वेदशब्देभ्य एवादौ दैवादीनां चकार सः ॥इति । श्रुतिश् च सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयद् इति । सूर्यादीन् पूर्ववत् परिकल्प्य नामानि च पूर्ववच् चकार इत्यर्थः ।
एवं जगद्ब्रह्मणोर् अनन्यत्वं प्रपञ्चितम् । तेनैकेन ज्ञातेन सर्वस्य ज्ञाततोपपादिता भवति । सर्वस्य ब्रह्मकार्यत्वप्रतिपादनेन तदात्मकतयैव सत्यत्वं नान्यथेति तत् सत्यम् इत्युक्तम् । यथा दृष्टान्ते सर्वस्य मृद्विकारस्य मृदात्मनैव सत्यत्वम् ।
शोधकवाक्यान्य् अपि निरवद्यं सर्वकल्याणगुणाकरं परं ब्रह्म बोधयन्ति । सर्वप्रत्यनीकाकारताबोधने ऽपि तत्तत्प्रत्यनीकाकारतायां भेदस्यावर्जनीयत्वान् न निर्विशेषवस्तुसिद्धिः ।
ननु च ज्ञानमात्रं ब्रह्मेति प्रतिपादिते निर्विशेषज्ञानमात्रं ब्रह्मेति निश्चीयते । नैवं । स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन स्वरूपम् अपि प्रतिपादयन्ति । गवादिशब्दवत् । तद् आह सूत्रकारः तद्गुणसारत्वात् तद्व्यपदेशः प्राज्ञवत् । यावद् आत्मभावितत्वाच् च न दोष इति । ज्ञानेन धर्मेण स्वरूपम् अपि निरूपितं न ज्ञानमात्रं ब्रह्मेति । कथम् इदम् अवगम्यत इति चेद् यः सर्वज्ञः सर्वविद् इत्यादिज्ञातृत्वश्रुतेः परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । विज्ञातारम् अरे केन विजानीयाद् इत्यादिश्रुतिशतसमधिगतम् इदम् । ज्ञानस्य धर्ममात्रत्वाद् धर्ममात्रस्यैकस्य वस्तुत्वप्रतिपादनानुपपत्तेश् च । अतः सत्यज्ञानादिपदानि स्वार्थभूतज्ञानादिविशिष्टम् एव ब्रह्म प्रतिपादयन्ति । तत् त्वम् इति द्वयोर् अपि पदयोः स्वार्थप्रहाणेन निर्विशेषवस्तुस्वरूपोपस्थापनपरत्वे मुख्यार्थपरित्यागश् च ।
नन्व् ऐक्ये तात्पर्यनिश्चयान् न लक्षणादोषः । सो ऽयं देवदत्त इतिवत् । यथा सो ऽयम् इत्य् अत्र स इति शब्देन देशान्तरकालान्तरसंबन्धी पुरुषः प्रतीयत अयम् इति च संनिहितदेशवर्तमानकालसंबन्धी, तयोः सामानाधिकरण्येनैक्यं प्रतीयते । तत्रैकस्य युगपद्विरुद्धदेशकालसंबन्धितया प्रतीतिर् न घटत इति द्वयोर् पदयोः स्वरूपमात्रोपस्थापनपरत्वं स्वरूपस्य चैक्यं प्रतिपद्यत इति चेन् नैतद् एवम् । सो ऽयं देवदत्त इत्य् अत्रापि लक्षणागन्धो न विद्यते । विरोधाभावात् । एकस्य भूतवर्तमानक्रियाद्वयसंबंधो न विरुद्धः । देशान्तरस्थितिर् भूत्वा संनिहितदेशस्थितिर् वर्तते । अतो भूतवर्तमानक्रियाद्वयसंबन्धितयैक्यप्रतिपादनम् अविरुद्धम् । देशद्वयविरोधश् च कालभेदेन परिहृतः । लक्षणायाम् अपि न द्वयोर् अपि पदयोर् लक्षणासमाश्रयणम् । एतेनैव लक्षितेन विरोधपरिहारात् । लक्षणाभाव एवोक्तः । देशान्तरसंबन्धितया भूतस्यैवान्यदेशसंबन्धितया वर्तमानत्वाविरोधात् ।
एवम् अत्रापि जगत्कारणबूतस्यैव परस्य ब्रह्मणो जीवान्तर्यामितया जीवात्मत्वम् अविरुद्धम् इति प्रतिपादितम् । यथा भूतयोर् एव हि द्वयोर् ऐक्यं सामानाधिकरण्येन प्रतीयते । तत्परित्यागेन स्वरूपमात्रैक्यं न सामानाधिकरण्यार्थः भिन्नप्रवृत्तिनिमित्तानां शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इति हि तद्विदः । तथाभूतयोर् ऐक्यम् उपपादितम् अस्माभिः । उपक्रमविरोध्युपसंहारपदेन वाक्यतात्पर्यनिश्चयश् च न घटते । उपक्रमे हि तद् ऐक्षत बहु स्याम् इत्यादिना सत्यसंकल्पत्वं जगदेककारणत्वम् अप्य् उक्तम् । तद्विरोधि चाविद्याश्रयत्वादि ब्रह्मणः ।
अपि चार्थभेदतत्संसर्गविशेषबोधनकृतपदवाक्यस्य स्वरूपतालब्धप्रमाणभावस्य शब्दस्य निर्विशेषवस्तुबोधनासामर्थान् न निर्विशेषवस्तुनि शब्दः प्रमाणम् । निर्विशेष इत्यादिशब्दास् तु केनचिद् विशेषेण विशिष्टतयावगतस्य वस्तुनो वस्त्वन्तरगतविशेषनिषेधपरतया बोधकाः । इतरथा तेषम् अप्य् अनवबोधकत्वम् एव । प्रकृतिप्रत्ययरूपेण पदस्यैवानेकविशेषगर्भत्वाद् अनेकपदार्थसंसर्गबोधकत्वाच् च वाक्यस्य ।
अथ स्यात् नास्माभिर् निर्विशेषे स्वयंप्रकाशे वस्तुनि शब्दः प्रमाणम् इत्य् उच्यते । स्वतःसिद्धस्य प्रमाणानपेक्षत्वात् । सर्वैः शब्दैस् तदुपरागविशेषा ज्ञातृत्वादयः सर्वे निरस्यन्ते । सर्वेषु विशेषेषु निवृत्तेषु वस्तुमात्रम् अनवच्छिन्नं स्वयंप्रकाशं स्वत एवावतिष्ठत इति । नैतद् एवम् । केन शब्देन तद्वस्तु निर्दिश्य तद्गतविशेषा निरस्यन्ते । ज्ञप्तिमात्रशब्देनेति चेन् न । सो ऽपि सविशेषम् एव वस्त्ववलम्बते । प्रकृतिप्रत्ययरूपेण विशेषगर्भत्वात् । ज्ञा अवबोधन इति सकर्मकः सकर्तृकः क्रियाविशेषः क्रियान्तरव्यावर्तकस्वभावविशेषश् च प्रकृत्यावगम्यते । प्रत्ययेन च लिङ्गसंख्यादयः । स्वतःसिद्धाव् अप्य् एतत्स्वभावविशेषविरहे सिद्धिर् एव न स्यात् । अन्यसाधनस्वभावतया हि ज्ञप्तेः स्वतःसिद्धिर् उच्यते ।
ब्रह्मस्वरूपं कृत्स्नं सर्वदा स्वयम् एव प्रकाशते चेन् न तस्मिन्न् अन्यधर्माध्यासः संभवति । न हि रज्जुस्वरूपे ऽवभासमाने सर्पत्वादिर् अध्यस्यते । अत एव हि भवद्भिर् आच्छादिकाविद्याभ्युपगम्यते । ततश् च शास्त्रीयनिवर्तकज्ञानस्य ब्रह्मणि तिरोहितांशो विषयः । अन्यथा तस्य निवर्तकत्वं च न स्यात् । अधिष्ठानातिरेकिरज्जुत्वप्रकाशनेन हि सर्पत्वं बाध्यते । एकश् चेद् विशेषो ज्ञानमात्रे वस्तुनि शब्देनाभिधीयते स च ब्रह्मविशेषणं भवतीति सर्वश्रुतिप्रतिपादितसर्वविशेषणविशिष्टं ब्रह्म भवति ।
अतः प्रामाणिकानां न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः । निर्विकल्पकप्रत्यक्षे ऽपि सविशेषम् एव वस्तु प्रतीयते । अन्यथा सविकल्पके सो ऽयम् इति पूर्वावगतप्रकारविशिष्टप्रत्ययानुपपत्तेः । वस्तुसंस्थानविशेषरूपत्वाद् गोत्वादेर् निर्विकल्पतदशायाम् अपि ससंस्थानम् एव वस्त्व् इत्थम् इति प्रतीयते । द्वितीयादिप्रत्ययेषु तस्य संस्थानविशेषस्यानेकवस्तुनिष्ठतामात्रं प्रतीयते । संस्थानरूपप्रकाराख्यस्य पदार्थस्यानेकवस्तुनिष्ठतयानेकवस्तुविशेषणत्वं द्वितीयादिप्रत्ययावगम्यम् इति द्वितीयादिप्रत्ययाः सविकल्पका इत्य् उच्यन्ते । अत एवैकस्य पदार्थस्य भिन्नाभिन्नत्वरूपेण द्व्यात्मकत्वं विरुद्धं प्रत्युक्तम् । संस्थानस्य संस्थानिनः प्रकारतया पदार्थान्तरत्वम् । प्रकारत्वाद् एव पृथक्सिद्ध्यनर्हत्वं पृथगनुपलम्भश् चेति न द्व्यात्मकत्वसिद्धिः ।
अपि च निर्विशेषवस्त्वादिना स्वयंप्रकाशे वस्तुनि तदुपरागविशेषाः सर्वैः शब्दैर् निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् इति विकारनामधेययोर् वाचारम्भणमात्रत्वात् । यत् तत्र कारणतयोपलक्ष्यते वस्तुमात्रं तद् एव सत्यम् अन्यद् असत्यम् इतीयं श्रुतिर् वदतीति चेन् नैतद् उपपद्यते । एकस्मिन् विज्ञाते सर्वं विज्ञातं भवतीति प्रतिज्ञाते ऽन्यज्ञानेनान्यज्ञानासंभवं मन्वानस्यैकम् एव वस्तु विकाराद्यवस्थाविशेषेण पारमार्थिकेनैव नामरूपम् अवस्थितं चेत् तत्रैकस्मिन् विज्ञाते तस्माद् विलक्षणसंस्थानान्तरम् अपि तद् एवेति तत्र दृष्टान्तो ऽयं निदर्शितः । नात्र कस्यचिद् विशेषस्य निषेधकः को ऽपि शब्दो दृश्यते । वाचारम्भणम् इति वाचा व्यवहारेणारभ्यत इत्य् आरम्भणम् । पिण्डरूपेणावस्थितायाः मृत्तिकाया नाम वान्यद्व्यवहारश् चान्यः । घटशरावादिरूपेणावस्थितायास् तस्या एव मृत्तिकाया अन्यानि नामधेयानि व्यवहाराश् चान्यद्दशाः । तथापि सर्वत्र मृत्तिकाद्रव्यम् एकम् एव नानासंस्थाननानानामधेयाभ्यां नानाव्यवहारेण चारभ्यत इत्येतद् एव सत्यम् इत्य् अनेनान्यज्ञानेनान्यज्ञानसंभवो निदर्शितः । नात्र किंचिद् वस्तु निषिध्यत इति पूर्वम् एवायम् अर्थः प्रपञ्चितः ।
अपि च येनाश्रुतं श्रुतम् इत्यादिना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेद् यथा सोम्यैकेन मृत्पिण्डेनेत्यादिदृष्टान्तः साध्यविकलः स्यात् । रज्जुसर्पादिवन् मृत्तिकाविकारस्य घटशरावादेर् असत्यत्वं श्वेतकेतोः शुश्रूषोः प्रमाणान्तरेण युक्त्या चासिद्धम् इत्य् एतद् अपि सिषाधयिषितम् इति चेत् । यथेति दृष्टान्तयोपादानं न घटते ।
सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् एवाद्वितीयम् इत्य् अत्र सद् एवैकम् एवेत्य् अवधारणद्वयेनाद्वितीयम् इत्य् अनेन च सन्मात्रातिरेकिसजातीयविजातीयाः सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्न् एतद् एवम् । कार्यकारणभावावस्थाद्वयावस्थितस्यैकस्य वस्तुन एकावस्थावस्थितस्य ज्ञानेनावस्थान्तरावस्थितस्यापि वस्त्वैक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोर् अप्रज्ञातं सर्वस्य ब्रह्मकारणत्वं च वक्तुं सद् एव सोम्येदम् इत्य् आरब्धम् । इदम् अग्रे सद् एवासीद् इति । अग्र इति कालविशेषः । इदंशब्दवाच्यस्य प्रपञ्चस्य सदापत्तिरूपां क्रियां सद्रव्यतां च वदति । एकम् एवेति चास्य नानानामरूपविकारप्रहाणम् । एतस्मिन् प्रतिपादिते ऽस्य जगतः सदुपादानता प्रतिपादिता भवति । अन्यत्रोपादानकारणस्य स्वव्यतिरिक्ताधिष्ठात्रपेक्षादर्शने ऽपि सर्वविलक्षणत्वाद् अस्य सर्वज्ञस्य ब्रह्मणः सर्वशक्तियोगो न विरुद्ध इत्य् अद्वितीयपदम् अधिष्ठात्रन्तरं निवारयति । सर्वशक्तियुक्तत्वाद् एव ब्रह्मणः । काश्चन श्रुतयः प्रथमम् उपादानकारणत्वं प्रतिपाद्य निमित्तकारणम् अपि तद् एवेति प्रतिपादयन्ति । यथेयं श्रुतिः । अन्याश् च श्रुतयो ब्रह्मणो निमित्तकारणत्वम् अनुज्ञायास्यैवोपादानतादि कथम् इति परिचोद्य, सर्वशक्तियुक्तत्वाद् उपादानकारणं तदितराशेषोपकरणं च ब्रह्मैवेति परिहरन्ति किंस्विद् वनं क उ स वृक्ष आसीद् यतो द्यावापृथिवी निष्टक्षुर्मणीषिणो मनसा पृच्छतेद् उत्द्यद् अध्यतिष्ठद् भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुर् मनीषिणो मनसा विब्रवीमि वः ब्रह्माध्यतिष्ठद् भुवनानि । धारयन्न् इति सामान्यतो दृष्टेन विरोधम् आशङ्क्य ब्रह्मणः सर्वविलक्षणत्वेन परिहार उक्तः । अतः सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्राप्य् अग्र इत्याद्यनेकविशेषा ब्रह्मणो प्रतिपादिताः । भवदभिमतविशेषनिषेधवाची को ऽपि शब्दो न दृश्यते । प्रत्य् उत जगद्ब्रह्मणोः कार्यकारणभावज्ञापनायाग्र इति कालविशेषसद्भावः । आसीद् इति क्रियाविशेषो, जगदुपादानता जगन्निमित्तता च, निमित्तोपादानयोर् भेदनिरसनेन तस्यैव ब्रह्मणः सर्वशक्तियोगश् चेत्य् अप्रज्ञातः सहस्रशो विशेषा एव प्रतिपादिताः ।
यतो वास्तवकार्यकारणभावादिविज्ञाने प्रवृत्तम् अत एवासद् एवेदम् अग्र आसीद् इत्यारभ्यासत्कार्यवादनिषेधश् च क्रियते कुतस् तु खलु सोम्यैवं स्याद् इति । प्रागसत उत्पत्तिर् अहेतुकेत्यर्थः । तद् एवोपपादयति कथम् असतः सज् जायेतेति । असत उत्पन्नम् असदात्मकम् एव भवतीत्यर्थः । यथा मृद् उत्पन्नं घटादिकं मृदात्मकम् । सत उत्पत्तिर् नाम व्यवहारविशेषहेतुभूतो ऽवस्थाविशेषयोगः ।
एतद् उक्तं भवति । एकम् एव कारणभूतं द्रव्यम् अवस्थान्तरयोगेन कार्यम् इत्य् उच्यत इत्य् एकविज्ञानेन सर्वविज्ञानं प्रतिपिपादयिषितम् । तद् असत्कार्यवादे न सेत्स्यति । तथा हि निमित्तसमवाय्यसमवायिप्रभृतिः कारणैर् अवयव्याख्यं कार्यं द्रव्यान्तरम् एवोत्पद्यत इति कारणभूताद् वस्तुनः कार्यस्य वस्त्वन्तरत्वान् न तज्ज्ञानेनास्य ज्ञातता कथम् अपि संभवतीति । कथम् अवयवि द्रव्यान्तरं निरस्यत इति चेत् । कारणगतावस्थान्तरयोगस्य द्रव्यान्तरोत्पत्तिवादिनः संप्रतिपन्नस्यैवैकत्वनामान्तरादेर् उपपादकत्वाद् द्रव्यान्तरादर्शनाच् चेति कारणम् एवावस्थान्तरापन्नं कार्यम् इत्य् उच्यत इत्य् उक्तम् ।
ननु निरधिष्ठानभ्रमासंभवज्ञापनायासत्कार्यवादनिरासः क्रियते । तथा ह्य् एकं चिद्रूपं सत्यम् एवाविद्याच् छादितं जगद्रूपेण विवर्तत इत्य् अविद्याश्रयत्वाय मूलकारणं सत्यम् इत्य् अभ्युपगन्तव्यम् इत्य् असत्कार्यवादनिरासः । नैतद् एवम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादृष्टान्तमुखेन सत्कार्यवादस्यैव प्रसक्तत्वाद् इत्य् उक्तम् । भवत्पक्षे निरधिष्ठानभ्रमासंभवस्य दुरुपपादत्वाच् च । यस्य हि चेतनगतदोषः पारमार्थिको दोषाश्रयत्वं च पारमार्थिकं तस्य पारमार्थिकदोषेण युक्तस्यापारमार्थिकगन्धर्वनगरादिदर्शनम् उपपन्नं, यस्य तु दोषश् चापारमार्थिको दोषाश्रयत्वं चापारमार्थिकं तस्यापारमार्थिकेनाप्य् आश्रयेण तद् उपपन्नम् इति भवत्पक्षे न निरधिष्ठानभ्रमासंभवः ।
शोधकेष्व् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्मेत्यादिषु वाक्येषु सामान्याधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्टैकार्थावबोधनम् अविरुद्धम् इति सर्वगुणविशिष्टं ब्रह्माभिधीयत इति पूर्वम् एवोक्तम् ।
अथात आदेशो नेति नेतीति बहुधा निषेधो दृष्यत इति चेत् । किम् अत्र निषिध्यत इति वक्तव्यम् । द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चेति मूर्तामूर्तात्मकः प्रपञ्चः सर्वो ऽपि निषिध्यत इति चेन् नैवम् । ब्रह्मणो रूपतयाप्रज्ञातं सर्वं रूपतयोपदिश्य पुनर् तद् एव निषेद्धुम् अयुक्तम् । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् इति न्यायात् । कस् तर्हि निषेधवाक्यार्थः । सूत्रकारः स्वयम् एव वदति प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति । उत्तरत्र अथ नामधेयं सत्य् अस्य सत्यं प्राणा वै सत्यं तेषाम् एष सत्यम् इति सत्यादिगुणगणस्य प्रतिपादितत्वात् पूर्वप्रकृतैतावन्मात्रं न भवति ब्रह्मेति, ब्रह्मण एतावन्मात्रता प्रतिषिध्यत इति सूत्रार्थः ।
नेह नानास्ति किंचनेत्यादिना नानात्वप्रतिषेध एव दृष्यत इति चेत् । अत्राप्य् उत्तरत्र सर्वस्य वशी सर्वस्येशन इति सत्यसङ्कल्पत्वसर्वेश्वरत्वप्रतिपादनाच् चेतनवस्तुशरीर ईश्वर इति सर्वप्रकारसंस्थितः स एक एवेति तत्प्रत्यनीकाब्रह्मात्मकनानात्वं प्रतिषिद्धं न भवदभिमतम् । सर्वास्व् एवंप्रकारासु श्रुतिष्व् इयम् एव स्थितिर् इति न क्वचिद् अपि ब्रह्मणः सविशेषत्वनिषेधकवाची को ऽपि शब्दो दृश्यते ।
अपि च निर्विशेषज्ञानमात्रं ब्रह्म तच् चाछादिकाविद्यातिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्य् अयम् अर्थो न घटते । तिरोधानं नाम प्रकाशनिवारणम् । स्वरूपातिरेकिप्रकाशधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात् स्वरूपनाश एव स्यात् । प्रकाशपर्यायं ज्ञानं नित्यं स च प्रकाशो ऽविद्यातिरोहित इति बालिशभाषितम् इदम् । अविद्यया प्रकाशतिरोहित इति प्रकाशोत्पत्तिप्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाशस्यानुत्पाद्यत्वाद् विनाश एव स्यात् । प्रकाशो नित्यो निर्विकारस् तिष्ठतीति चेत् । सत्याम् अप्य् अविद्यायां ब्रह्मणि न किंचित् तिरोहितम् इति नानात्वं पश्यतीति भवताम् अयं व्यवहारः सत्स्व् अनिर्वचनीय एव ।
ननु च भवतो ऽपि विज्ञानस्वरूप आत्माभ्युपगन्तव्यः । स च स्वयंप्रकाशः । तस्य च देवादिस्वरूपात्माभिमाने स्वरूपप्रकाशतिरोधानम् अवश्यम् आश्रयणीयम् । स्वरूपप्रकाशे सति स्वात्मन्य् आकारान्तराध्यासायोगात् । अतो भवतश् चायं समानो दोषः । किं चास्माकम् एकस्मिन्न् एवात्मनि भवदुदीरितं दुर्घटत्वम् भवताम् आत्मानन्त्याभ्युपगमात् सर्वेष्व् अयं दोषः परिहरणीयः ।
अत्रोच्यते स्वभावतो मलप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपं स्वाभाविकानवधिकातिशयापरिमितोदारगुणसागरं निमेषकाष्ठाकलामुहूर्तादिपरार्धपर्यन्तापरिमितव्यवच्छेदस्वरूपसर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभूतकालकृतपरिणामास्पष्टानन्तमहाविभूति स्वलीलापरिकरस्वांशभूतानन्तबद्धमुक्तनानाविधचेतनतद्भोग्यभूतानन्तविचित्रपरिणामशक्तिचेतनेतरवस्तुजातान्तर्यामित्वकृतसर्वशक्तिशरीरत्वसर्वप्रकर्शावस्थानावस्थितं परं ब्रह्मैव वेद्यं, तत्साक्षात्कारक्षमभगवद्द्वैपायनपराशरवाल्मीकिमनुयाज्ञवल्क्यगौतमापस्तम्बप्रभृतिमुनिगणप्रणीतविध्यर्थवादमन्त्रस्वरूपवेदमूलेतिहासपुराणधर्मशास्त्रोपभृंहितपरमार्थभूतानादिनिधनाविच्छिन्नपाठसंप्रदायर्ग्यजुःसामाथर्वरूपानन्तशाखं वेदं चाभ्युपगच्छताम् अस्माकं किं न सेत्स्यति । यथोक्तं भगवता द्वैपायनेन महाभारतेयो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् ।द्वाव् इमौ पुरषौ लोके क्षरश् चाक्षर एव च ।क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।यो लोकत्रयम् आविश्य विभर्त्यव्यय ईश्वरः ॥कालं च पचते तत्र न कालस् तत्र वै प्रभूः ।एते वै निरयास् तात स्थानस्य परमात्मनः ॥अव्यक्तादिविशेषान्तं परिणामर्द्धिसंयुक्तम् ।क्रीडा हरेर् इदं सर्वं क्षरम् इत्य् अवधार्यताम् ॥कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः ।कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् ॥इति । कृष्णस्य हि कृत इति कृष्णस्य शेषभूतं सर्वम् इत्यर्थः ।भगवता पराशरेणाप्य् उक्तम्शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते ।मैत्रेय भगवच्छब्दः सर्वकारणकारणे ॥ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्य् अशेषतः ।भगवच्छब्दवाच्यानि विना हेयैर् गुणादिभिः ॥एवम् एष महाशब्दो मैत्रेय भगवान् इति ।परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।शब्दो ऽयं नोपचारेण त्व् अन्यत्र ह्य् उपचारतः ॥एवंप्रकारम् अमलं सत्यं व्यापकम् अक्षयम् ।समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥कलामुहूर्तादिमयश् च कालो न यद्विभूतेः परिणामहेतुः ॥क्रीडतो बालकस्येव चेष्टास् तस्य निशामय ॥इत्यादि । मनुनापिप्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् ।इत्युक्तम् । याज्ञवल्क्येनापिक्षेत्रस्येश्वरज्ञानाद् विशुद्धिः परमा मता ।इति । आपस्तम्बेनापि पूः प्राणिनः सर्व एव गुहाशयस्येति । सर्वे प्राणिनो गुहाशयस् परमात्मनः पूः पुरं शरीरम् इत्यर्थः । प्राणिन इति सजीवात्मभूतसंघातः ।
ननु च किम् अनेनाडम्बरेण । चोद्यं तु न परिहृतम् । उच्यते । एवम् अभ्युपगच्छताम् अस्माकम् आत्मधर्मभूतस्य चैतन्यस्य स्वाभाविकस्यापि कर्मणा पारमार्थिकं संकोचं विकासं च ब्रुवतां सर्वम् इदं परिहृतम् । भवस् तु प्रकाश एव स्वरूपम् इति प्रकाशो न धर्मभूतस् तस्य संकोचविकासौ वा नाब्युपगम्येते । प्रकाशप्रसारानुत्पत्तिम् एव तिरोधानभूताः कर्मादयः कुर्वन्ति । अविद्या चेत् तिरोधानं तिरोधानभूततयाविद्यया स्वरूपभूतप्रकाशनाश इति पूर्वम् एवोक्तम् । अस्माकं त्व् अविद्यारूपेण कर्मणा स्वरूपनित्यधर्मभूतप्रकाशः संकुचितः । तेन देवादिस्वरूपात्माभिमानो भवतीति विशेषः । यथोक्तम्अविद्या कर्मसंज्ञान्या तृतीया शक्तिर् इष्यते ॥यथा क्षेत्रशक्तिः सा वेष्टिता नृप सर्वगा ।संसारतापान् अखिलान् अवाप्नोत्य् अतिसंततान् ॥तया तिरोहितत्वाच् च शक्तिः क्षेत्रज्ञसंज्ञिता ।सर्वभूतेषु भूपाले तारतम्येन वर्तते ॥इति । क्षेत्रज्ञानां स्वधर्मभूतस्य ज्ञानस्य कर्मसंज्ञाविद्यया संकोचं विकासं च दर्शयति ।
अपि चाच्छादिकाविद्या श्रुतिभिश् चैक्योपदेशबलाच् च ब्रह्मस्वरूपतिरोधानहेयदोषरूपाश्रीयते तस्याश् च मिथ्यारूपत्वेन प्रपञ्चवत्स्वदर्शनमूलदोषापेक्षत्वात् । न सा मिथ्या दर्शनमूलदोषः स्याद् इति ब्रह्मैव मिथ्यादर्शनमूलं स्यात् । तस्याश् चानादित्वे ऽपि मिथ्यारूपत्वाद् एव ब्रह्मदृश्यत्वेनैवानादित्वात् तद्दर्शनमूलपरमार्थदोषानभ्युपगमाच् च ब्रह्मैव तद्दर्शनमूलं स्यात् । तस्य नित्यत्वाद् अनिर्मोक्ष एव ।
अत एवेदम् अपि निरस्तम् एकम् एव शरीरं जीववत्, निर्जीवानीतराणि शरीराणि स्वप्नदृष्टनानाविधानन्तशरीराणां यथा निर्जीवत्वम् । तत्र स्वप्ने द्रष्टुः शरीरम् एकम् एव जीववत् । तस्य स्वप्नवेलायां दृश्यभूतनानाविधशरीराणां निर्जीवत्वम् एव । अनेनैकेनैव परिकल्पितत्वाज् जीवा मिथ्याभूता इति ब्रह्मणा स्वस्वरूपव्यतिरिक्तस्य जीवभावस्य सर्वशरीराणां च कल्पितत्वाद् एकस्मिन्न् अपि शरीरे शरीरवज् जीवभावस्य च मिथ्यारूपत्वात् सर्वाणि शरीराणि मिथ्यारूपाणि, तत्र जीवभावश् च मिथ्यारूप इत्य् एकस्य शरीरस्य तत्र जीवभावस्य च न कश्चिद् विशेषः । अस्माकं तु स्वप्ने द्रष्टुः स्वशरीरस्य तस्मिन्न् आत्मसद्भावस्य च प्रबोधवेलायाम् अबाधितत्वान् अन्येषां शरीराणां तद्गतजीवानां च बाधितत्वात् ते सर्वे मिथ्याभूताः स्वशरीरम् एकं तस्मिञ् जीवभावश् च परमार्थ इति विशेषः ।
अपि च केन वा विद्यानिवृत्तिः सा कीदृशीति विवेचनीयम् । ऐक्यज्ञानं निवर्तकं निवृत्तिश् चानिर्वचनीयप्रत्यनीकाकारेति चेत् । अनिर्वचनीयप्रत्यनीकं निर्वचनीयं तच् च सद् वासद् वा द्विरूपं वा कोट्यन्तरं न विद्यते । ब्रह्मव्यतिरेकेणैतदभ्युपगमे पुनर् अविद्या न निवृत्ता स्यात् । ब्रह्मैव चेन् निवृत्तिस् तत्प्राग् अप्य् अविशिष्टम् इति वेदान्तज्ञानात् पूर्वम् एव निवृत्तिः स्यात् । ऐक्यज्ञानं निवर्तकं तदभावात् संसार इति भवद्दर्शनं विहन्यते ।
किञ् च निवर्तकज्ञानस्याप्य् अविद्यारूपर्वात् तन्निवर्तनं केनेति वक्तव्यम् । निवर्तकज्ञानं स्वेतरसमस्तभेदं निवर्त्य क्षणिकत्वाद् एव स्वयम् एव विनश्यति दावानलविषनाशनविषान्तरवद् इति चेन् न । निवर्तकज्ञानस्य ब्रह्मव्यतिरिक्तत्वेन तत्स्वरूपतदुत्पत्तिविनाशानां मिथ्यारूपत्वात् तद्विनाशरूपा विद्या तिष्ठत्य् एवेति तद्विनाशदर्शनस्य निवर्तकं वक्तच्यम् एव । दावाग्न्यादीनाम् अपि पूर्वावस्थाविरोधिपरिणामपरंपरावर्जनीयैव ।
अपि च चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य को ऽयं ज्ञाता । अध्यासरूप इति चेन् न । तस्य निषेधतया निवर्तकज्ञानकर्मत्वात् तत्कर्तृत्वानुपपत्तेः । ब्रह्मस्वरूप एवेति चेन् न । ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम् उताध्यस्तम् । अध्यस्तं चेद् अयम् अध्यासस् तन्मूलविद्यान्तरं च निवर्तकज्ञानविषयतया तिष्ठत्य् एव । तन्निवर्तकान्तराभ्युपगमे तस्यापि त्रिरूपतयानवस्थैव । सर्वस्य हि ज्ञानस्य त्रिरूपकत्वविरहे ज्ञानत्वम् एव हीयते । कस्यचित् कंचनार्थविशेषं प्रति सिद्धिरूपत्वात् । ज्ञानस्य त्रिरूपत्वविरहे भवतां स्वरूपभूतज्ञानवन् निवर्तकज्ञानम् अप्य् अनिवर्तकं स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमे ऽस्मदीय एव पक्षः परिगृहीतः स्यात् । निवर्तकज्ञानस्वरूपज्ञातृत्वं च स्वनिवर्त्यान्तर्गतम् इति वचनं भूतलव्यतिरिक्तं कृत्स्नं छिन्नं देवदत्तेनेत्य् अस्याम् एव छेदनक्रियायाम् अस्याश् छेदनक्रियायाश् छेत्तृत्वस्य च छेद्यान्तर्भाववचनवद् उपहास्यम् ।
अपि च निखिलभेदनिवर्तकम् इदम् ऐक्यज्ञानं केन जातम् इति विमर्शनीयम् । श्रुत्यैवेति चेन् न । तस्या ब्रह्मव्यतिरिक्ताया अविद्यापरिकल्पितत्वात् प्रपञ्चबाधकज्ञानस्योत्पादकत्वं न संभवति । तथा हि दुष्टकारणजातम् अपि रज्जुसर्पज्ञानं न दुष्टकारणजन्येन रज्जुर् इयं न सर्प इति ज्ञानेन बाध्यते । रज्जुसर्पज्ञानभये वर्तमाने केनचिद्भ्रान्तेन पुरुषेण रज्जुर् इयं न सर्प इत्युक्ते ऽप्य् अयं भ्रान्त इति ज्ञाते सति तद्वचनं रज्जुसर्पज्ञानस्य बाधकं न भवति भयं च न निवर्तते । प्रयोजकज्ञानवतः श्रवणवेलायाम् एव हि ब्रह्मव्यतिरिक्तत्वेन श्रुतेर् अपि भ्रान्तिमूलत्वं ज्ञातम् इति । निवर्तकज्ञानस्य ज्ञातुस् तत्सामग्रीभूतशास्त्रस्य च ब्रह्मव्यतिरिक्ततया यदि बाध्यत्वम् उच्यते हन्त तर्हि प्रपञ्चनिवृत्तेर् मिथ्यात्वम् आपततीति प्रपञ्चस्य सत्यता स्यात् । स्वप्नदृष्टपुरुषवाक्यावगतपित्रादिमरणस्य मिथ्यात्वेन पित्रादिसत्यतावत् । किञ्च तत् त्वम् अस्य् आदिवाक्यं न प्रपञ्चस्य बाधकम् । भ्रान्तिमूलत्वाद् भ्रान्तप्रयुक्तरज्जुसर्पबाधकवाक्यवत् ।
ननु च स्वप्ने कस्मिंश्चिद् भये वर्तमाने स्वप्नदशायाम् एवायं स्वप्न इति ज्ञाते सति पूर्वभयनिवृत्तिर् दृष्टा । तद्वद् अत्रापि संभवतीति । नैवम् । स्वप्नवेलायाम् एव सो ऽपि स्वप्न इति ज्ञाते सति पुनर्भयानिवृत्तिर् एव दृष्टेति न कश्चिद् विशेषः ।
श्रवणवेलायाम् एव सोऽपि स्वप्न इति ज्ञातम् एवेत्युक्तम् । यद् अपि चेदम् उक्तं भ्रान्तिपरिकल्पितत्वेन मिथ्यारूपम् अपि शास्त्रम् अद्वितीयं ब्रह्मेति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात् तनबाधादर्शनाद् ब्रह्म सुस्थितम् एवेति । तद् अयुक्तम् । शून्यम् एव तत् त्वम् इति वाक्येन तस्यापि बाधितत्वात् । इदं भ्रान्तिमूलवाक्यम् इति चेत् । सद् अद्वितीयं ब्रह्मेति वाक्यम् अपि भ्रान्तिमूलम् इति त्वयैवोक्तम् । पश्चात् तनबाधादर्शनं तु सर्वशून्यवाक्यस्यैवेति विशेषः । सर्वशून्यवादिनो ब्रह्मव्यतिरिक्तवस्तुमिथ्यात्ववादिनश् च स्वपक्षसाधनप्रमाणपारमार्थ्यानब्युपगमेनाभियुक्तैर् वादानधिकार एव प्रतिपादितः । अधिकारो ऽनभ्युपायत्वान् न वादे शून्यवादिनः । इति ।
अपि च प्रत्यक्षदृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते । प्रत्यक्षस्य दोषमूलत्वेनान्यथासिद्धिसंभवान् निर्दोषं शास्त्रम् अनन्यथासिद्धं प्रत्यक्षस्य बाधकम् इति चेत् । केन दोषेण जातं प्रत्यक्षम् अनन्तभेदविषयम् इति वक्तव्यम् । अनादिभेदवासनाख्यदोषजातं प्रत्यक्षम् इति चेत् । हन्त तर्ह्य् अनेनैव दोषेण जातं शास्त्रम् अपीत्य् एकदोषमूलत्वाच् छास्त्रप्रत्यक्षयोर् न बाध्यबाधकभावसिद्धिः ।
आकाशवाय्वादिभूततदारब्धशब्दस्पर्शादियुक्तमनुष्यत्वादिसंस्थानसंस्थितपदार्थग्राहि प्रत्यक्षम् । शास्त्रं तु प्रत्यक्षाद्यपरिच्छेद्यसर्वान्तरात्मत्वसत्यत्वाद्यनन्तविशेषणविशिष्टब्रह्मस्वरूपतदुपासनाद्याराधनप्रकारतत्प्राप्तिपूर्वकतत्प्रसादलभ्यफलविशेषतदनिष्टकरणमूलनिग्रहविशेषविषयम् इति न शात्रप्रत्यक्षयोर् विरोधः । अनादिनिधनाविच्छिन्नपाटसंप्रदायताद्यनेकगुणविशिष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्षपारमार्थ्यम् अवश्यम् अभ्युपगन्तव्यम् इत्य् अलम् अनेन श्रुतिशतविततिवातवेगपराहतकुदृष्टिदुष्टयुक्तिजालतूलनिरसनेनेत्य् उपरम्यते ।
द्वितीये तु पक्ष उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तरानभ्युपगमाद् ब्रह्मण्य् एवोपाधिसंसर्गाद् औपाधिकाः सर्वे दोषा ब्रह्मण्य् एव भवेयुः । ततश् चापहतपाप्मत्वादिनिर्दोषत्वश्रुतयः सर्वे विहन्यन्ते ।
यथा घटाकाशादेः परिच्छिन्नतया महाकाशाद् वैलक्षण्यं परस्परभेदश् च दृश्यते तत्रस्था गुणा वा दोषा वानवच्छिन्ने महाकाशे न संबध्यन्ते एवम् उपाधिकृतभेदव्यवस्थितजीवगता दोषा अनुपहिते परे ब्रह्मणि न संबध्यन्त इति चेत् । नैतद् उपपद्यते । निरवयवस्याकाशस्यानवच्छेद्यस्य घटादिभिश् छेदासंभवात् तेनैवाकाशेन घटादयः संयुक्ता इति ब्रह्मणो ऽप्य् अच्छेद्यत्वाद् ब्रह्मैवोपाधिसंयुक्तं स्यात् । घटसंयुक्ताकाशप्रदेशो ऽन्यस्माद् आकाशप्रदेशाद् भिद्यत इच् चेत् । आकाशस्यैकस्यैव प्रदेशभेदेन घटादिसंयोगाद् घटादौ गच्छति तस्य च प्रदेशभेदस्यानियम इति तद्वद् ब्रह्मण्य् एव प्रदेशभेदानियमेनोपाधिसंसर्गाद् उपाधौ गच्छति संयुक्तवियुक्तब्रह्मप्रदेशभेदाच् च ब्रह्मण्य् एवोपाधिसंसर्गः क्षणे क्षणे बन्धमोक्षौ स्याताम् इति सन्तः परिहसन्ति ।
निरवयवस्यैवाकाशस्य श्रोत्रेन्द्रियत्वे ऽपीन्द्रियव्यवस्थावद् ब्रह्मण्य् अपि व्यवस्थोपपद्यत इति चेत् । न वायुविशेषसंस्कृतकर्णप्रदेशसंयुक्तस्यैवाकाशप्रदेशस्येन्द्रियत्वात् तस्य च प्रदेशान्तराभेदे ऽपीन्द्रियव्यवस्थोपपद्यते । आकाशस्य तु सर्वेषां शरीरेषु गच्छत् स्वनियमेन सर्वप्रदेशसंयोग इति ब्रह्मण्य् उपाधिसंयोगप्रदेशानियम एव ।
आकाशस्य स्वरूपेणैव श्रोत्रेन्द्रियत्वम् अभ्युपगम्यापीन्द्रियव्यवस्थोकता । परमार्थतस् त्व् आकाशो न श्रोत्रेन्द्रियम् । वैकारिकाद् अहंकाराद् एकादशेन्द्रियाणि जायन्त इति हि वैदिकाः । यथोक्तं भगवता पराशरेणतैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश ।एकादशं मनश् चात्र देवा वैकारिकाः स्मृताः ॥ इति ।अयम् अर्थः । वैकारिकस् तैजसो भूतादिर् इति त्रिविधो ऽहंकारः । स च क्रमात् सात्त्विको राजसस् तामसश् च । तत्र तामसाद् भूतादेर् आकाशादीनि भूतानि जायन्त इति सृष्टिक्रमम् उक्त्वा तैजसाद् राजसाद् अहंकाराद् एकदशेन्द्रियाणि जायन्त इति परमतम् उपन्यस्य सात्त्विकाहंकाराद् वैकारिकानीन्द्रियाणि जायन्त इति स्वमतम् उच्यते देवा वैकारिकाः स्मृता इति । देवा इन्द्रियाणि । एवम् इन्द्रियाणाम् आहंकारिकाणां भूतैश् चाप्य् आयनं महाभारत उच्यते । भौतिकत्वे ऽपीन्द्रियाणाम् आकाशादिभूतविकारत्वाद् एवाकाशादिभूतपरिणामविशेषा व्यवस्थिता एव शरीरवत् पुरुषाणाम् इन्द्रियाणि भवन्तीति ब्रह्मण्य् अच्छेद्ये निरवयवे निर्विकारे त्व् अनियमेनानन्तहेयोपाधिसंसर्गदोषो दुष्परिहर एवेति श्रद्दधानानाम् एवायम् पक्ष इति शास्त्रविदो न बहु मन्यन्ते । स्वरूपपरिणामाभ्युपगमाद् अविकारत्वश्रुतिर् बाध्यते । निरवद्यता च ब्रह्मणः शक्तिपरिणाम इति चेत् । केयं शक्तिर् उच्यते । किं ब्रह्मपरिणामरूपा । उत ब्रह्मणो ऽनन्या कापीति । उभयपक्षे ऽपि स्वरूपपरिणामो ऽवर्जनीय एव ।
तृतीये ऽपि पक्षे जीवब्रह्मणोर् भेदवद् अभेदस्य चाभ्युपगमात् तस्य च तद्भावात् सौभरिभेदवच् च स्वावतारभेदवच् च सर्वस्येश्वरभेदतात् सर्वे जीवगता दोषास् तस्यैव स्युः । एतद् उक्तं भवति । ईश्वरः स्वरूपेणैव सुरनरतिर्यक्स्थावरादिभेदेनावस्थित इति हि तदात्मकत्ववर्णनं क्रियते । तथा सत्य् एकमृत्पिण्डारब्धघटशरावादिगतान्य् उदकाहरणादीनि सर्वकार्याणि यथा तस्यैव भवन्ति, एवं सर्वजीवगतसुखदुःखादि सर्वम् ईश्वरगतम् एव स्यात् ।
घटशरावादिसंस्थानानुपयुक्तमृद्द्रव्यं यथा कार्यान्तरान्वितम् एवम् एव सुरपशुमनुजादिजीवत्वानुपयुक्तेश्वरः सर्वज्ञः सत्यसंकल्पत्वादिकल्याणगुणाकर इति चेत् सत्यं स एवेश्वर एकेनांशेन कल्याणगुणगणाकरः स एवान्येनांशेन हेयगुणाकर इत्य् उक्तम् । द्वयोर् अंशयोर् ईश्वराविशेषात् । द्वव् अंशौ व्यवस्थितव् इति चेत् । कस् तेन लाभः । एकस्यैवानेकांशेन नित्यदुःखित्वाद् अंशान्तरेण सुखित्वम् अपि नेश्वरत्वाय कल्पते । यथा देवदत्तस्यैकस्मिन् हस्ते चन्दनपङ्कानुलेपकेयूरकटकाङ्गुलीयालंकारस् तस्यैवान्यस्मिन् हस्ते मुद्गराभिघातः कालानलज्वालानुप्रवेशश् च तद्वद् एवेश्वरस्य स्याद् इति ब्रह्माज्ञानपक्षाद् अपि पापीयान् अयं भेदाभेदपक्षः । अपरिमितदुःखस्य पारमार्थिकत्वात् संसारिणाम् अनन्तत्वेन दुस्तरत्वाच् च ।
तस्माद् विलक्षणो ऽयं जीवांश इति चेत् । आगतो ऽसि तर्हि मदीयं पन्थानम् । ईश्वरस्य स्वरूपेण तादात्म्यवर्णने स्याद् अयं दोषः । आत्मशरीरभावेन तु तादात्म्यप्रतिपादने न कश्चिद् दोषः । प्रत्य् उत निखिलभुवननियमनादिर् महान् अयं गुणगणः प्रतिपादितो भवति । सामानाधिकरण्यं च मुख्यवृत्तम् ।
अपि चैकस्य वस्तुनो भिन्नाभिन्नत्वं विरुद्धत्वान् न संभवतीत्युक्तम् । घटस्य पटाद् भिन्नत्वे सति तस्य तस्मिन्न् अभावः । अभिन्नत्वे सति तस्य च भाव इति । एकस्मिन् काले चैकस्मिन् देशे चैकस्य हि पदार्थस्य युगपत्सद्भावो ऽसद्भावश् च विरुद्धः ।
जात्यात्मना भावो व्यक्त्यात्मना चाभाव इति चेत् । जातेर् मुण्डेन चाभावे सति खण्डे मुण्डस्यापि सद्भावप्रसङ्गः । खण्डेन च जातेर् अभिन्नत्वे सद्भावो भिन्नत्वे चासद्भावः अश्वे महिशत्वस्यैवेति विरोधो दुष्परिहर एव । जात्यादेर् वस्तुसंस्थानतया वस्तुनः प्रकारत्वात् प्रकारप्रकारिणोश् च पदार्थान्तरत्वं प्रकारस्य पृथक्सिद्ध्यनर्हत्वं पृथगनुपलम्भश् च तस्य च संस्थानस्य चानेकवस्तुषु प्रकारतयावस्थितश् चेत्यादि पूर्वम् उक्तम् ।
सो ऽयम् इति बुद्धिः प्रकारैक्याद् अयम् अपि दण्डीति बुद्धिमत् । अयम् च जात्यादिप्रकारो वस्तुनो भेद इत्य् उच्यते । तद्योग एव वस्तुनो भिन्नम् इति व्यवहारहेतुर् इत्यर्थः । स च वस्तुनो भेदव्यवहारहेतुः स्वस्य च संवेदनवत् । यथा संवेदनं वस्तुनो व्यवहारहेतुः स्वस्य व्यवहारहेतुश् च भवति ।
अत एव सन्मात्रग्राहि प्रत्यक्षं न भेदग्राहीत्यादिवादा निरस्ताः । जात्यादिसंस्थानसंस्थितस्यैव वस्तुनः प्रत्यक्षेण गृहीतत्वात् तस्यैव संस्थानरूपजात्यादेः प्रतियोग्यपेक्षया भेदव्यवहारहेतुत्वाच् च । स्वरूपपरिणामदोषश् च पूर्वम् एवोक्तः ।
यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति एष त आत्मान्तर्याम्यमृतः । य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरो य आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति एष त आत्मान्तर्याम्यमृतः । यः पृथिवीम् अन्तरे संचरन् यस्य पृथिवी शरीरं यं पृथिवी न वेदेत्यादि यो ऽक्षरम् अन्तरे संचरन् यस्याक्षरं शरीरं अक्षरं न वेद यो मृत्युम् अन्तरे संचरन् यस्य मृत्युः शरीरं यं मृत्युर् न वेद एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति । अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा । तत्सृष्ट्वा तद् एवानुप्राविशत् । तदनुप्रविश्य सच् च त्यच् चानृतं च सत्यम् अभवत् । अनेन जीवेनात्मनेत्यादि । पृथगात्मानं प्रेरितारं मत्वा जष्टस् ततस् तेनामृतत्वम् एति । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म, एतत् । नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । प्रधानक्षेत्रज्ञपतिर् गुणेशः । ज्ञाज्ञौ द्वव् अजव् ईशानीशव् इत्यादिश्रुतिशतैस् तदुपबृंहणैःजगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ॥यत् किंचित् सृज्यते येन सत्त्वजातेन वै द्विज ।तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस् तनुः ॥अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः ॥सर्वस्य चाहं हृदि संनिविष्टोमत्तः स्मृतिर् ज्ञानम् अपोहनं च ॥इत्यादिवेदविदग्रेसरवाल्मीकिपराशरद्वैपायनवचोभिश् च परस्य ब्रह्मणः सर्वस्यात्मत्वावगमाच् चिदचिदात्मकस्य वस्तुनस् तच्छरीरत्वावगमाच् च शरीरस्य शरीरिणं प्रति प्रकारतयैव पदार्थत्वाच् शरीरशरीरिणोश् च धर्मभेदे ऽपि तयोर् असंकरात् सर्वशरीरं ब्रह्मेति ब्रह्मणो वैभवं प्रतिपादयद्भिः सामानाधिकरण्यादिभिर् मुख्यवृत्तैः सर्वचेतनाचेतनप्रकारं ब्रह्मैवाभिधीयते । सामानाधिकरण्यं हि द्वयोः पदयोः प्रकारद्वयमुखेनैकार्थनिष्ठत्वं । तस्य चैतस्मिन् पक्षे मुख्यता । तथा हि तत् त्वम् इति सामानाधिकरण्ये तद् इत्यनेन जगत्कारणं सर्वकल्याणगुणगणाकरं निरवद्यं ब्रह्मोच्यते । त्वम् इति च चेतनसामानाधिकरण्यवृत्तेन जीवान्तर्यानिरूपि तच्छरीरं तदात्मतयावस्थितं तत्प्रकारं ब्रह्मोच्यते । इतरेषु पक्षेषु सामानाधिकरण्यहानिर् ब्रह्मणः सदेषता च स्यात् ।
एतद् उक्तं भवति । ब्रह्मैवम् अवस्थितम् इत्य् अत्रैवंशब्दार्थभूतप्रकारतयैव विचित्रचेतनाचेतनात्मकप्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्भावः । तथा च बहु स्यां प्रजायेयेत्य् अयम् अर्थः संपन्नो भवति । तस्यैवेश्वरस्य कार्यतया कारणतया च नानासंस्थानसंस्थितस्य संस्थानतया चिदचिद्वस्तुजातम् अवस्थितम् इति ।
ननु च संस्थानरूपेण प्रकारतयैवंशब्दार्थत्वम् जातिगुणयोर् एव दृष्टं न द्रव्यस्य । स्वतन्त्रसिद्धियोग्यस्य पदार्थस्यैवंशब्दार्थतयेश्वरस्य प्रकारमात्रत्वम् अयुक्तं । उच्यते द्रव्यस्यापि दण्डकुण्डलादेर् द्रव्यान्तरप्रकारत्वं दृष्टम् एव । ननु च दण्डादेः स्वतन्त्रस्य द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो दृष्टः । यथा दण्डी कुण्डलीति । अतो गोत्वादितुल्यतया चेतनाचेतनस्य द्रव्यभूतस्य वस्तुन ईश्वरप्रकारतया सामानाधिकरण्येन प्रतिपादनं न युज्यते । अत्रोच्यते गौर् अश्वो मनुष्यो देव इति भूतसंघातरूपाणां द्रव्याणाम् एव देवदत्तो मनुष्यो जातः पुण्यविशेषेण यज्ञदत्तो गौर्जातः पापेन, अन्यश् चेतनः पुण्यातिरेकेण देवो जात इत्यादिदेवादिशरीराणां चेतनप्रकारतया लोकदेवयोः सामानाधिकरण्येन प्रतिपादनं दृष्टम् ।
अयम् अर्थः जातिर् वा गुणो वा द्रव्यं वा न तत्रादरः । कंचन द्रव्यविशेषं प्रति विशेषणतयैव यस्य सद्भावस् तस्य तदपृथक्सिद्धेस् तत्प्रकारतया तत्सामानाधिकरण्येन प्रतिपादनं युक्तम् । यस्य पुनर् द्रव्यस्य पृथक्सिद्धस्यैव कदाचित्क्वचिद्द्रव्यान्तरप्रकारत्वम् इष्यते तत्र मत्वर्थीयप्रत्यय इति विशेषः । एवम् एव स्थावरजङ्गमात्मकस्य सर्वस्य वस्तुन ईश्वरशरीरत्वेन तत्प्रकारतयैव स्वरूपसद्भाव इति । तत्प्रकारीश्वर एव तत्तच्छब्देनाभिधीयत इति तत्सामानाधिकरण्येन प्रतिपादनं युक्तं । तद् एवैतत् सर्वं पूर्वम् एव नामरूपव्याकरणश्रुतिविवरणे प्रपञ्चितम् ।
अतः प्रकृतिपुरुषमहदहंकारतन्मात्रभूतेन्द्रियतदारब्धचतुर्दशभुवनात्मकब्रह्माण्डतदन्तर्वर्तिदेवतिर्यङ्मनुष्यस्थावरादिसर्वप्रकारसंस्थानसंस्थितं कार्यम् अपि सर्वं ब्रह्मैवेति कारणभूतब्रह्मविज्ञानाद् एव सर्वं विज्ञातं भवतीत्य् एकविज्ञानेन सर्वविज्ञानम् उपपन्नतरम् । तद् एवं कार्यकारणभावादिमुखेन कृत्स्नस्य चिदचिद्वस्तुनः परब्रह्मप्रकारतया तदात्मकत्वम् उक्तम् ।
ननु च परस्य ब्रह्मणः स्वरूपेण परिणामास्पदत्वं निर्विकारत्वनिरवद्यत्वश्रुतिव्याकोपप्रसञ्गेन निवारितम् । प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधाद् इत्य् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानमृत्तत्कार्यदृष्टान्ताभ्यां परमपुरुषस्य जगदुपादानकारणत्वं च प्रतिपादितम् । उपादानकारणत्वं च परिणामास्पदत्वम् एव । कथम् इदम् उपपद्यते ।
अत्रोच्यते सजीवस्य प्रपञ्चस्याविशेषेण कारणत्वम् उक्तम् । तत्रेश्वरस्य जीवरूपपरिणामाभ्युपगमेन नात्मा श्रुतेर् नित्यत्वाच् च ताभ्य इति विरुध्यते । वैषम्यनैर्घृण्यपरिहारश् च जीवनम् अनादित्वाभ्युपगमेन तत्कर्मनिमित्ततया प्रतिपादितः वैषम्यनैर्घृण्ये न सापेक्षत्वान् न कर्मविभागाद् इति चेन् न अनादित्वाद् उपपद्यते चाप्य् उपलभ्यते चेत्यकृताभ्यागमकृतविप्रणाशप्रसङ्गश् चानित्यत्वे ऽभिहितः ।
तथा प्रकृतेर् अप्य् अनादिता श्रुतिभिः प्रतिपदिताअजाम् एकां लोहितशुक्लकृष्णां बह्नीं प्रजां जनयन्तीं सरूपाम् ।अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः ॥इति प्रकृतिपुरुषयोर् अजत्वं दर्शयति । अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् इति प्रकृतिर् एव स्वरूपेण विकारास्पदम् इति च दर्शयति । गौर् अनाद्यन्तवती सा जनित्री भूतभाविनीति च । स्मृतिश् च भवतिप्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभव् अपि ।विकारांश् च गुणांश् चैव विद्धि प्रकृतिसंभवान् ॥भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च ।अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः ।मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ॥इत्यादिका ।
एवं च प्रकृतेर् अपीश्वरशरीरत्वात् प्रकृतिशब्दो ऽपि तदात्मभूतस्येश्वरस्य तत्प्रकारसंस्थितस्य वाचकः । पुरुषशब्दो ऽपि तदात्मभूतस्येश्वरस्य पुरुषप्रकारसंस्थितस्य वाचकः । अतस् तद्विकाराणाम् अपि तथेश्वर एवात्मा । तद् आहव्यक्तं विष्णुस् तथाव्यक्तं पुरुषः काल एव च ।सा एव क्षोभको ब्रह्मन् क्षोभ्यश् च परमेश्वरः ॥इति । अतः प्रकृतिप्रकारसंस्थिते परमात्मनि प्रकारभूतप्रकृत्यंसे विकारः प्रकार्यंसे चाविकारः । एवम् एव जीवप्रकारसंस्थिते परमात्मनि च प्रकारभूतजीवांशे सर्वे चापुरुषार्थाः प्रकार्यंशो नियन्ता निरवद्यः सर्वकल्याणगुणाकरः सत्यसंकल्प एव ।
तथा च सति कारणावस्थ ईश्वर एवेति तदुपादानकजगत्कार्यावस्थो ऽपि स एवेति कार्यकारणयोर् अनन्यत्वं सर्वश्रुत्यविरोधश् च भवति । तद् एवं नामरूपविभागानर्हसूक्ष्मदशापन्नप्रकृतिपुरुषशरीरं ब्रह्म कारणावस्थं, जगतस् तदापत्तिर् एव च प्रलयः । नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यत्वं, ब्रह्मणस् तथाविधस्थूलभाव एव जगतः सृष्टिर् इत्य् उच्यते । यथोक्तं भगवता पराशरेणप्रधानपुंसोर् अजयोः कारणं कार्यभूतयोः । इति ।
तस्माद् ईश्वरप्रकारभूतसर्वावस्थप्रकृतिपुरुषवाचिनः शब्दास् तत्प्रकारविशिष्टतयावस्थिते परमात्मनि मुख्यतया वर्तन्ते । जीवात्मवाचिदेवमनुष्यशब्दवत् । यथा देवमनुष्यादिशब्दा देवमनुष्यादिप्रकृतिपरिणामविशेषाणां जीवात्मप्रकारतयैव पदार्थत्वात् प्रकारिणि जीवात्मनि मुख्यतया वर्तन्ते । तस्मात् सर्वस्य चिदचिद्वस्तुनः परमात्मशरीरतया तत्प्रकारत्वात् परमात्मनि मुख्यतया वर्तन्ते सर्वे वाचकाः शब्दाः ।
अयम् एव चात्मशरीरभावः पृथक्सिद्ध्यनर्हाधाराधेयभावो नियन्तृनियाम्यभावः शेषशेषिभावश् च । सर्वात्मनाधारतया नियन्तृतया शेषितया च आप्नोतीत्य् आत्मा सर्वात्मनाधेयतया नियाम्यतया शेषतया च अपृथक्सिद्धं प्रकारभूतम् इत्य् आकारः शरीरम् इति चोच्यते । एवम् एव हि जीवात्मनः स्वशरीरसंबन्धः । एवम् एव परमात्मनः सर्वशरीरत्वेन सर्वशब्दवाच्यत्वम् ।
तद् आह श्रुतिगणः सर्वे वेदा यत्पदम् आमनन्ति सर्वे वेदा यत्रैकं भवन्तीति । तस्यैकस्य वाच्यत्वाद् एकार्थवाचिनो भवन्तीत्यर्थः । एको देवो बहुधा निविष्टः, सहैव सन्तं न विजानन्ति देवा इत्यादि । देवा इन्द्रियाणि । देवमनुष्यादीनाम् अन्तर्यामितयात्मत्वेन निविश्य सहैव सन्तं तेषाम् इन्द्रियाणि मनःपर्यन्तानि न विजानन्तीत्यर्थः । तथा च पौराणिकानि वचांसिनताः स्म सर्ववचसां प्रतिष्ठा यत्र शश्वती ।वाच्ये हि वचसः प्रतिष्ठा ।कार्याणां कारणां पूर्वं वचसां वाच्यम् उत्तमम् ।वेदैश् च सर्वैर् अहम् एव वेद्यः ।इत्यादीनि सर्वाणि हि वचांसि सशरीरात्मविशिष्टम् अन्तर्यामिणम् एवाचक्षते । हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मानुप्रविश्य नामरूपे व्याकरवाणीति हि श्रुतिः । तथा च मानवं वचःप्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम्रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् ॥अन्तः प्रविश्यान्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् अणीयांस आत्मानः कृत्स्नस्याचेतनस्य व्यापकतया सूक्ष्मभूतास् ते तेषाम् अपि व्यापकत्वात् तेभ्यो ऽपि सूक्ष्मतर इत्यर्थः रुक्माभः आदित्यवर्णः स्वप्नकल्पबुद्धिप्राप्यः, विशदतमप्रत्यक्षतापन्नानुध्यानैकलभ्य इत्यर्थः ।एनम् एके वदन्त्य् अग्निं मारुतो ऽन्ये प्रजापतिम् ।इन्द्रम् एके परे प्रमाणम् अपरे ब्रह्म शाश्वतम् ॥इति । एके वेदा इत्यर्थः । उक्तरीत्या परस्यैव ब्रह्मणः सर्वस्य प्रशासितृत्वेन सर्वान्तरात्मतया प्रविश्यावस्थितत्वाद् अग्न्यादयः शब्दा अपि शाश्वतब्रह्मशब्दवत् तस्यैव वाचका भवन्तीत्यर्थः । तथा च स्मृत्यन्तरम्ये यजन्ति पित्Qन् देवान् ब्राह्मणान् सहुताशनान् ।सर्वभूतान्तरात्मानं विष्णुम् एव यजन्ति ते ॥इति । पितृदेवब्राह्मणहुताशनादिशब्दास् तन्मुखेन तदन्तरात्मभूतस्य विष्णोर् एव वाचका इत्युक्तं भवति ।
अत्रेदं सर्वशास्त्रहृदयम् जीवात्मानः स्वयम् असंकुचितापरिच्छिन्ननिर्मलज्ञानस्वरूपाः सन्तः कर्मरूपाविद्यावेष्टितास् तत्तत्कर्मानुरूपज्ञानसंकोचम् आपन्नाः, ब्रह्मादिस्तम्बपर्यन्तविविधविचित्रदेहेषु प्रविश्टास् तत्तद्देहोचितलब्धज्ञानप्रसरास् तत्तद्देहात्माभिमानिनस् तदुचितकर्माणि कुर्वाणास् तदनुगुणसुखदुःखोपभोगरूपसंसारप्रवाहं प्रतिपद्यन्ते । एतेषां संसारमोचनं भगवत्प्रपत्तिम् अन्तरेण नोपपद्यत इति तदर्थः प्रथमम् एषां देवादिभेदरहितज्ञानैकाकारतया सर्वेषां साम्यं प्रतिपाद्य, तस्यापि स्वरूपस्य भगवच्छेषतैकरसतया भगवदात्मकताम् अपि प्रतिपाद्य, भगवत्स्वरूपं च हेयप्रत्यनीलकल्याणैकतानतया सकलेतरविसजातीयम् अनवधिकातिशयासंख्येयकल्याणगुणगणाश्रयं स्वसंकल्पप्रवृत्तसमस्तचिदचिद्वस्तुजाततया सर्वस्यात्मभूतं प्रतिपाद्य, तदुपासन साङ्गं तत्प्रापकं प्रतिपदयन्ति शास्त्राणीति ।
यथोक्तम्निर्वाणमय एवायम् आत्मा ज्ञानमयो ऽमलः ।दुःखाज्ञानमला धर्मा प्रकृतेस् ते न चात्मनः ।इति प्रकृतिसंसर्गकृतकर्ममूलत्वान् नात्मद्वरूपप्रयुक्ता धर्मा इत्यर्थः । प्राप्ताप्राप्तविवेकेन प्रकृतेर् एव धर्मा इत्युक्तम् ।विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।शुनि चैव श्वपाके च पाण्डिताः समदर्शिनः ।इति । देवतिर्यङ्मनुष्यस्थावररूपप्रकृतिसंसृष्टस्यात्मनः स्वरूपविवेचनी बुद्धिर् एषां ते पण्डिताः । तत्तत् प्रकृतिविशेषवियुक्तात्मयाथात्म्यज्ञानवन्तस् तत्र तत्रात्यन्तविषमाकारे वर्तमानम् आत्मानं समानाकारं पश्यन्तीति समदर्शिन इत्य् उक्तम् । तद् इदम् आहइहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः ।निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥इति । निर्दोषं देवादिप्रकृतिविशेषसंसर्गरूपदोषरहितं स्वरूपेणावस्थितं सर्वम् आत्मवस्तु निर्वाणरूपज्ञानैकाकारतया समम् इत्यर्थः ।
तस्यैवंभूतस्यात्मनो भगवच्छेषतैकरसता तन्नियाम्यता तदेकाधारता च तच्छरीरतत्तनुप्रभृतिभिः शब्दैस् तत्समानाधिकरण्येन च श्रुतिस्मृतीतिहासपुराणेषु प्रतिपाद्यत इति पूर्वम् एवोक्तम् ।
दैवी ह्य् एषा गुणमयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ इति तस्यात्मनः कर्मकृतविचित्रगुणमयप्रकृतिसंसर्गरूपात् संसारान् मोक्षो भगवत्प्रपत्तिम् अन्तरेण नोपपद्यत इत्युक्तं भवति । नान्यः पन्था अयनाय विद्यत इत्यादिश्रुतिभिश् च । मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना ।मत्स्थानि सर्वभूतानि न चाहं तेषु अवस्थितः ॥ न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ इति सर्वशक्तियोगात् स्वैश्वर्यवैचित्र्यम् उक्तम् । तद् आह - विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् । इति अनन्तविचित्रमहाश्चर्यरूपं जगन् ममायुतांशेनात्मतया प्रविश्य सर्वं मत्संकल्पेन विष्टभ्यानेन रूपेणानन्तमहाविभूतिपरिमितोदारगुणसागरो निरतिशयाश्चर्यभूतः स्थितो ऽहम् इत्यर्थः । तद् इदम् आह - एकत्वे सति नानात्वं नानात्वे सति चैकता । अचिन्त्यं ब्रह्मणो रूपं कस् तद्वेदितुम् अर्हति ॥ इति । प्रशासितृत्वेनैक एव सन्विचित्रचिदचिद्वस्तुष्व् अन्तरात्मतया प्रविश्य तत्तद्रूपेण विचित्रप्रकारो विचित्रकर्म कारयन् नानारूपां भजते । एवं स्वल्पांशेन तु सर्वाश्चर्यं नानारूपं जगत्तदन्तरात्मतया प्रविश्य विष्टभ्य नानात्वेनावस्थितो ऽपि सन्न् अनवधिकातिशयासंख्येयकल्याणगुणगणः सर्वेश्वरः परब्रह्मभूतः पुरुषोत्तमो नारायणो निरतिशयाश्चर्यभूतो नीलतोयदसंकाशः पुण्डरीकदलामलायतेक्षणः सहस्रांशुसहस्रकिरणः परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमंस् तदक्षरे परमे व्योमन्न् इत्यादिश्रुतिसिद्ध एक एवावतिष्ठते ।
ब्रह्मव्यतिरिक्तस्य कस्यचिद् अपि वस्तुन एकस्वभावस्यैककार्यशक्तियुक्तस्यैकरूपस्य रूपान्तरयोगः स्वभावान्तरयोगः शक्त्यन्तरयोगश् च न घटते । तस्यैतस्य परब्रह्मणः सर्ववस्तुविजातीयतया सर्वस्वभावत्वं सर्वशक्तियोगश् चेत्य् एकस्यैव विचित्रानन्तरूपता च पुनर् अप्य् अनन्तापरिमिताश्चर्ययोगेनैकरूपता च न विरुद्धेति वस्तुमात्रसाम्याद् विरोधचिन्ता न युक्तेत्यर्थः । यथोक्तंशक्तयः सर्वभावानाम् अचिन्त्यज्ञानगोचराः ।यतो ऽतो ब्रह्मणस् तास् तु सर्गाद्या भावशक्तयः ॥भवन्ति तपसां श्रेष्ट पावकस्य यथोष्णता ॥इति ।एतद् उक्तं भवति सर्वेषाम् अग्निजलादीनां भावानाम् एकस्मिन्न् अपि भावे दृष्टैव शक्तिस् तद्विजातीयभावान्तरे ऽपीति न चिन्तयितुं युक्ता जलादाव् अदृष्टापि तद्विजातीयपावके भास्वरत्वोष्णतादिशक्तिर् यथा दृश्यते, एवम् एव सर्ववस्तुविसजातीये ब्रह्मणि सर्वसाम्यं नानुमातुं युक्तम् इति । अतो विचित्रानन्तशक्तियुक्तं ब्रह्मैवेत्यर्थः तद् आहजगद् एतन् महाश्चर्यं रूपं यस्य महात्मनः ।तेनाश्चर्यवरेणाहं भवता कृष्ण संगतः ॥इति ।
तद् एतन् नानाविधानन्तश्रुतिनिकरशिष्टपरिगृहीततद्व्याख्यानपरिश्रमाद् अवधारितम् । तथा हि प्रमाणान्तरापरिदृष्टापरिमितपरिणामान् एकतत्त्वनियतक्रमविशिष्टौ सृष्टिप्रलयौ ब्रह्मणो ऽनेकविधाः श्रुतयो वदन्ति निरवद्यं निरञ्जनं विज्ञानम् आनन्दं निर्विकारं निष्कलं निष्क्रियं शान्तं निर्गुणम् इत्य् आदिकाः निर्गुणं ज्ञानस्वरूपं ब्रह्मेति काश्चन श्रुतयो ऽभिदधति । नेह नानास्ति किंचन मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् तत् केन कं विजातीयाद् इत्यादिका नानात्वनिषेधवादिन्यः सन्ति काश्चन श्रुतयः । यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यद् आस्ते सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि अपहतपाप्मा विजरो विमृत्युर् विशोको विजघत्सो ऽपिपासः सत्यकामः सत्यसंकल्प इति सर्वस्मिञ् जगति हेयतयावगतं सर्वगुणं प्रतिषिध्य निरतिशयकल्याणगुणानन्त्यं सर्वज्ञता सर्वशक्तियोगं सर्वनामरूपव्याकरणं सर्वस्यावधारतां च काश्चन श्रुतयो ब्रुवते । सर्वं खल्व् इदं ब्रह्म तज्जलान् इति ऐतदात्म्यम् इदं सर्वं एकः सन् बहुधा विचार इत्यादिका ब्रह्मसृष्टं जगन् नानाकारं प्रतिपाद्य तदैक्यं च प्रतिपादयन्ति काश्चन । पृथगात्मानं प्रेरितारं च मत्वा भोक्ता भोग्यं प्रेरितारं च मत्वा प्रजापतिर् अकामयत प्रजाः सृजेयेति पतिं विश्वस्यात्मेश्वरं श्वास्तं शिवम् अच्युतं तम् ईश्वराणां परं महेश्वरं तं देवतानां परं च दैवतं सर्वस्य वशी सर्वस्येशान इत्यादिका ब्रह्मणः सर्वस्माद् अन्यत्वं सर्वस्येशितव्यम् ईश्वरत्वं च ब्रह्मणः सर्वस्य शेषतां पतित्वं चेश्वरस्य काश्चन । अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा एष त आत्मान्तर्याम्य् अमृतः यस्य पृथिवी शरीरं यस्यापः शरीरं यस्य तेजः शरीरम् इत्यादि यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युः शरीरं यस्यात्मा शरीरम् इति ब्रह्मव्यतिरिक्तस्य सर्वस्य वस्तुनो ब्रह्मणश् च शरीरात्मभावं दर्शयन्ति काश्चनेति ।
नानारूपाणां वाक्यानाम् अविरोधो मुख्यार्थापरित्यागश् च यथा संभवति तथा वर्णनीयम् । वर्णितं च अविकारश्रुतयः स्वरूपपरिणामपरिहाराद् एव मुख्यार्थाः । निर्गुणवादाश् च प्राकृतहेयगुणनिषेधपरतया व्यवस्थिताः । नानात्वनिषेधवादाश् चैकस्य ब्रह्मणः शरीरतया प्रकारभूतं सर्वं चेतनाचेतनं वस्त्व् इति सर्वस्यात्मतया सर्वप्रकारं ब्रह्मैवावस्थितम् इति सुरक्षिताः । सर्वप्रकारविलक्षणत्वपतित्वेश्वरत्वसर्वकल्याणगुणगणाकारत्वसत्यकामत्वसत्यसंकल्पत्वादिवाक्यं तदभ्युपगमाद् एव सुरक्षितम् । ज्ञानानन्दमात्रवादि च सर्वस्माद् अन्यस्य सर्वकल्याणगुणगणाश्रयस्य सर्वेश्वरस्य सर्वशेषिणः सर्वाधारस्य सर्वोत्पत्तिस्थितिप्रलयहेतुभूतस्य निरवद्यस्य निर्विकारस्य सर्वात्मभूतस्य परस्य ब्रह्मणः स्वरूपनिरूपकधर्मो मलप्रत्यनीकानन्दरूपज्ञानम् एवेति स्वप्रकाशतया स्वरूपम् अपि ज्ञानम् एवेति च प्रतिपादनाद् अनुपालितम् । ऐक्यवादाश् च शरीरात्मभावेन सामानाधिकरण्यमुख्यार्थतोपपादनाद् एव सुस्थिताः ।
एवं च सत्य् अभेदो वा भेदो वा द्व्यात्मकता वा वेदान्तवेद्यः को ऽयम् अर्थः समर्थितो भवति । सर्वस्य वेदवेद्यत्वात् सर्वं समर्थितम् । सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितम् इत्य् अभेदः समर्थितः । एकम् एव ब्रह्म नानाभूतचिदचिद्वस्तुप्रकारं नानात्वेनावस्थितम् इति भेदाभेदौ । अचिद्वस्तुनश् चिद्वस्तुनश् चेश्वरस्य च स्वरूपस्वभाववैलक्षण्याद् असंकराच् च भेदः समर्थितः ।
ननु च तत् त्वम् असि श्वेतकेतो तस्य तावद् एव चिरम् इत्य् ऐक्यज्ञानम् एव परमपुरुषार्थलक्षणमोक्षसाधनम् इति गम्यते । नैतद् एवम् । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एतीत्य् आत्मानं प्रेरितारं चान्तर्यामिणं पृथग् मत्वा ततः पृथक्त्वज्ञानाद् धेतोस् तेन परमात्मना जुष्टो ऽमृतत्वम् एतीति साक्षादमृतत्वप्राप्तिसाधनम् आत्मनो नियन्तुश् च पृथग्भावज्ञानम् एवेत्य् अवगम्यते ।
ऐक्यवाक्यविरोधाद् एतदपरमार्थसगुणब्रह्मप्राप्तिविषयम् इत्य् अभ्युपगन्तव्यम् इति चेत् । पृथक्त्वज्ञानस्यैव साक्षादमृतत्वप्राप्तिसाधनत्वश्रवणाद् विपरीतं कस्मान् न भवति ।एतद् उक्तं भवति । द्वयोर् तुल्ययोर् विरोधे सत्य् अविरोधेन तयोर् विषयो विवेचनीय इति । कथम् अविरोध इति चेत् । अन्तर्यामिरूपेणावस्थितस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज् जीवात्मनस् तत्प्रकारं ब्रह्मैव त्वम् इति शब्देनाभिधीयते । तथैव ज्ञातव्यम् इति तस्य वाक्यस्य विषयः । एवंभूताज् जीवात् तदात्मतयावस्थितस्य परमात्मनो निखिलदोषरहिततया सत्यसंकल्पत्वाद् अनवधिकातिशयासंख्येयकल्याणगुणगणाकरत्वेन च यः पृथग्भावः सो ऽनुसंधेय इत्य् अस्य वाक्यस्य विषय इत्य् अयम् अर्थः पूर्वम् असकृदुक्तः । भोक्ता भोग्यं प्रेरितारं च मत्वेति भोग्यरूपस्य वस्तुनो ऽचेतनत्वं परमार्थत्वं सततं विकारास्पदत्वम् इत्यादयः स्वभावाः, भोक्तुर् जीवात्मनश् चामलापरिच्छिन्नज्ञानानन्दस्वभावस्यैवानादिकर्मरूपाविद्याकृतनानाविधज्ञानसंकोचविकासौ भोग्यभूताचिद्वस्तुसंसर्गश् च परमात्मोपासनान् मोक्षश् चेत्यादयः स्वभावाः, एवंभूतभोक्तृभोग्ययोर् अन्तर्यामिरूपेणावस्थानं स्वरूपेण चापरिमितगुणौघाश्रयत्वेनावस्थानम् इति परस्य ब्रह्मस् त्रिविधावस्थानं ज्ञातव्यम् इत्यर्थः ॥
तत् त्वम् असीति सद्विद्यायाम् उपास्यं ब्रह्म सगुणं सगुणब्रह्मप्राप्तिश् च फलम् इत्य् अभियुक्तैः पूर्वाचार्यैर् व्याख्यातम् । यथोक्तं वाक्यकारेण युक्तं तद्गुणकोपासनाद् इति । व्याख्यातं च द्रमिडाचार्येण विद्याविकल्पं वदता यद्य् अपि सच्चितो न निर्भुग्नदैवतं गुणगणं मनसानुधावेत् तथाप्य् अन्तर्गुणाम् एव देवतां भजत इति तत्रापि सगुणैव देवता प्राप्यत इति । सच्चित्तः सद्विद्यानिष्ठः । न निर्भुग्नदैवतं गुणगणं मनसानुधावेत् अपहतपाप्मत्वादिकल्याणगुणगणं दैवताद् विभक्तं यद्य् अपि दहरविद्यानिष्ठ इव सच्चितो न स्मरेत् । तथाप्य् अन्तर्गुणाम् एव देवतां भजते देवतास्वरूपानुबन्धित्वात् सकलकल्याणगुणगणस्य केनचिद् परदेवतासाधारणेन निखिलजगत्कारणत्वादिना गुणेनोपास्यमानापि देवता वस्तुतः स्वरूपानुबन्धि सर्वकल्याणगुणगणविशिष्टैवोपास्यते । अतः सगुणम् एव ब्रह्म तत्रापि प्राप्यम् इति सद्विद्यादहरविद्ययोर् विकल्प इत्यर्थः ।
ननु च सर्वस्य जन्तोः परमात्मान्तर्यामी तन्नियाम्यं च सर्वम् एवेत्य् उक्तम् । एवं च सति विधिनिषेधशास्त्राणाम् अधिकारी न दृश्यते । यः स्वबुद्ध्यैव प्रवृत्तिनिवृत्तिशक्तः स एवं कुर्यान् न कुर्याद् इति विधिनिषेधयोग्यः । न चैष दृश्यते । सर्वस्मिन् प्रवृत्तिजाते सर्वस्य प्रेरकः परमात्मा कारयितेति तस्य सर्वनियमनं प्रतिपादितम् । तथा च श्रूयते एष एव साधु कर्म कारयति ते यम् एभ्यो लोकेभ्य उन्निनीषति । एष एवासाधु कर्म कारयति तं यम् अधो निनीषतीति । साध्वसाधुकर्मकारयितृत्वान् नैर्घृण्यं च ।
अत्रोच्यते सर्वेषाम् एव चेतनानां चिच्छक्तियोगः प्रवृत्तिशक्तियोग इत्यादि सर्वं प्रवृत्तिनिवृत्तिपरिकरं सामान्येन संविधाय तन्निर्वहणाय तदाधारो भूत्वान्तः प्रविश्यानुमन्तृतया च नियमनं कुर्वञ् शेषित्वेनावस्थितः परमात्मैतदाहितशक्तिः सन्प्रवृत्तिनिवृत्त्यादि स्वयम् एव कुरुते । एवं कुर्वाणम् ईक्षमाणः परमात्मोदासीन आस्ते । अतः सर्वम् उपपन्नम् । साध्वसाधुकर्मणोः कारयितृत्वं तु व्यवस्थितविषयं न सर्वसाधारणम् । यस् तु सर्वं स्वयम् एवातिमात्रम् आनुकूल्ये प्रवृत्तस् तं प्रति प्रीतः स्वयम् एव भगवान् कल्याणबुद्धियोगदानं कुर्वन् कल्याणे प्रवर्तयति । यः पुनर् अतिमात्रं प्रातिकूल्ये प्रवृत्तस् तस्य क्रूरां बुद्धिं ददन् स्वयम् एव क्रूरेष्व् एव कर्मसु प्रेरयति भगवान् । यथोक्तं भगवतातेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।ददामि बुद्धियोगं तं येन माम् उपयान्ति ते ॥तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः ।नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता ॥तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥ इति ।
सो ऽयं परब्रह्मभूतः पुरुषोत्तमो निरतिशयपुण्यसंचयक्षीणाशेषजन्मोपचितपापराशेः परमपुरुषचरणारविन्दशरणागतिजनिततदभिमुख्यस्य सदाचार्योपदेशोपबृंहितशास्त्राधिगततत्त्वयाथात्म्यावबोधपूर्वकाहरहरुपचीयमानशमदमतपःशौचक्षमार्जवभयाभयस्थानविवेकदयाहिंसाद्यात्मगुणोपेतस्य वर्णाश्रमोचितपरमपुरुषाराधनवेषनित्यनैमित्तिककर्मोपसंहृतिनिषिद्धपरिहारनिष्टस्य परमपुरुषचरणारविन्दयुगलन्यस्तात्मात्मीयस्य तद्भक्तिकारितानवरतस्तुतिस्मृतिनमस्कृतिवन्दनयतनकीर्तनगुणश्रवणवचनध्यानार्चनप्रणामादिप्रीतपरमकारुणिकपुरुषोत्तमप्रसादविध्वस्तस्वान्तध्वान्तस्यानन्यप्रयोजनानवरतनिरतिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपभक्त्येकलभ्यः । तद् उक्तं परमगुरुभिर् भगवद्यामुनाचार्यपादैः उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्य इति । ज्ञानयोगकर्मयोगसंस्कृतान्तःकरणस्येत्यर्थः । तथा च श्रुतिः ।विद्यां चाविद्यां च यस् तद् वेदोभ्यं सह ।अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते ॥इति। अत्राविद्याशब्देन विद्येतरत्वाद् वर्णाश्रमाचारादि पूर्वोक्तं कर्मोच्यते विद्याशब्देन च भक्तिरूपापन्नं ध्यानम् उच्यते । यथोक्तम्इजाय सो ऽपि सुबहून्य् अज्ञाञ् ज्ञानव्यपाश्रयः ।ब्रह्मविद्याम् अधिष्ठाय तर्तुं मृत्युम् अविद्यया ॥इति । तम् एवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते । य एनं विदुर् अमृतास् ते भवन्ति । ब्रह्मविद् आप्नोति परम् । सो यो ह वै तत् परं वेद ब्रह्म वेद ब्रह्मैव भवतीत्यादि । वेदनशब्देन ध्यानम् एवाभिहितम् । निदिध्यासितव्य इत्यादिनैकार्थ्यात् । तद् एव ध्यानं पुनर् अपि विशिनष्टि नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् इति । भक्तिरूपापन्नानुध्यानेनैव लभ्यते न केवल,, वेदनामात्रेण न मेधयेति केवलस्य निषिद्धत्वात् ।
एतद् उक्तं भवति यो ऽयं मुमुक्षुर् वेदान्तविहितवेदनरूपध्यानादिनिष्ठो यदा तस्य तस्मिन्न् एवानुध्याने निरवधिकातिशया प्रीतिर् जायते तदैव तेन लभ्यते परः पुरुष इति । यथोक्तं भगवतापुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया ।भक्त्या त्व् अनन्यया शक्यो ऽहम् एवंविधो ऽर्जुन ।ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टं च परंतप ॥भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥इति । तदनन्तरं तत एव भक्तितो विशत इत्यर्थः । भक्तिर् अपि निरतिशयप्रियानन्यप्रयोजनसकलेतरवैतृण्यावहज्ञानविशेष एवेति । तद् युक्त एव तेन परेणात्मना वरणीयो भवतीति तेन लभ्यत इति श्रुत्यर्थः । एवंविधपरभक्तिरूपज्ञानविशेषस्योत्पादकः पूर्वोक्ताहरहरुपचीयमानज्ञानपूर्वककर्मानुगृहीतभक्तियोग एव । यथोक्तं भगवता पराशरेणवर्णाश्रमाचारवता पुरुषेण परः पुमान् ।विष्णुर् आराध्यते पन्था नान्यस् तत्तोषकारकः ॥इति । निखिलजगदुद्धारणायावनितले ऽवतीर्णः परब्रह्मभूतः पुरुषोत्तमः स्वयम् एवैतदुक्तवान्स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् ।स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥इति । यथोदितक्रमपरिणतभक्त्येकलभ्य एव ।
बोधायनटङ्कद्रमिडगुहदेवकपर्दिभारुचिप्रभृत्यविगीतशिष्टपरिगृहीतपुरातनवेदवेदान्तव्याख्यानसुव्यक्तार्थश्रुतिनिकरनिदर्शितो ऽयं पन्थाः । अनेन चार्वाकशाक्यौलूक्याक्षपादक्षपणककपिलपतञ्जलिमतानुसारिणो वेदबाह्या वेदावलम्बिकुदृष्टिभिः सह निरस्ताः । वेदावलम्बिनाम् अपि यथावस्थितवस्तुविपर्ययस् ताडृशां बाह्यसाम्यं मनुनैवोक्तम्यो वेदबाह्याः स्मृतयो याश् च काश् च कुदृष्टयः ।सर्वस् ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥इति । रजस्तमोभ्याम् अस्पृष्टम् उत्तमं सत्त्वम् एव येषां स्वाभाविको गुणस् तेषाम् एव वैदिकी रुचिर् वेदार्थयाथात्म्यावबोधश् चेत्यर्थः ।
यथोक्तं मात्स्येसंकीर्णाः सात्त्विकाश् चैव राजसास् तामसास् तथा ।इति । केचिद् ब्रह्मकल्पाः संकीर्णाः केचित् सत्त्वप्रायाः केचिद् रजःप्राया केचित् तमःप्राया इति कल्पविभागम् उक्त्वा सत्त्वरजस्तमोमयानां तत्त्वानां माहात्म्यवर्णनं च तत्तत्कल्पप्रोक्तपुराणेषु सत्त्वादिगुणमयेन ब्रह्मणा क्रियत इति चोक्तम्यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा ।तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते ॥इति । विशेषतश् चोक्तम्अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ।राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः ।तेष्व् एव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥संकीर्णेषु सरस्वत्याः ....................... ॥इत्यादि । एतदुक्तं भवति आदिक्षेत्रज्ञत्वाद् ब्रह्मणस् तस्यापि केषुचिद् अहस्सु सत्त्वमुद्रिकं केषुचिद् रजः केषुचित् तमः । यथोक्तं भगवतान तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥इति । यो ब्रह्मणं विदधति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मा इति श्रुतेः । ब्रह्मणो ऽपि सृज्यत्वेन शास्त्रवश्यत्वेन च क्षेत्रज्ञत्वं गम्यते । सत्त्वप्रायेष्व् अहस्सु तदितरेषु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्परविरोधे सति सात्त्विकाहःप्रोक्तम् एव पुराणं यथार्थं तद्विरोध्यन्यद् अयथार्थम् इति पुराणनिर्णयायैवेदं सत्त्वनिष्ठेन ब्रह्मणाभिहितम् इति विज्ञायत इति ।सत्त्वादीनां कार्यं च भगवतैवोक्तम्सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च ।प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च ॥प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥यथा धर्मम् अधर्मं च कार्यं चाकार्यम् एव च ।अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥अधर्मं धर्मम् इति या मन्यते तमसावृता ।सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥इति ।सर्वान् पुराणार्थान् ब्रह्मणः सकाशाद् अधिगम्यैव सर्वाणि पुराणानि पुराणकाराश् चक्रुः । यथोक्तम्कथयामि यथा पूर्वं दक्षाद्यैर् मुनिसत्तमैः ।पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥इति ।
अपौरुषेयेषु वेदवाक्येषु परस्परविरुद्धेषु कथम् इति चेत् । तात्पर्यनिश्चयाद् अविरोधः पूर्वम् एवोक्तः । यद् अपि चेद् एवं विरुद्धवद् दृश्यते प्राणं मनसि सह कारणैर् नादान्ते परमात्मनि संप्रतिष्ठाय ध्यायीतव्यं प्रध्यायीतव्यं सर्वम् इदं, ब्रह्मविष्णुरुद्रास् ते सर्वे संप्रसूयन्ते, न कारणं, कारणं तु ध्यायः, सर्वैश्वर्यसंपन्नः सर्वेश्वरः शंभुर् आकाशमध्ये ध्येयः यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् ततो यदुत्तरतरं तदरूपम् अनामयं य एतद्विदुर् अमृतास् ते भवन्ति, अथेतरे दुःखम् एवापियन्तिसर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।सर्वव्यापी च भगवांस् तस्मात् सर्वगतः शिवः ॥यदा तमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः ।तदक्षरं तत्सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ॥इत्यादि नारायणः परं ब्रह्मेति च पूर्वम् एव प्रतिपादितं, तेनास्य कथम् अविरोधः ।
अत्यल्पम् एतत्वेदवित्प्रवरप्रोक्तवाक्यन्यायोपबृंहिताः ।वेदाः साङ्गा हरिं प्राहुर् जगज्जन्मादिकारणं ॥जन्माद्यस्य यतः यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसंविशन्ति, तद् विजिज्ञानस्व तद् ब्रह्मेति जगज्जन्मादिकारणं ब्रह्मेत्य् अवगम्यते । तच् च जगत्सृष्टिप्रलयप्रकरणेष्व् अवगन्तव्यम् । सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति जगदुपादानताजगन्निमित्तताजगदन्तर्यामितादिमुखेन परमकारणं सच्छब्देन प्रैत्पादितं ब्रह्मेत्य् अवगतम् । अयम् एवार्थः ब्रह्म वा इदम् एकम् एवाग्र आसीद् इति शाखान्तरे ब्रह्मशब्देन प्रतिपदितः । अनेन सच्छब्देनाभिहितं ब्रह्मेत्य् अवगतम् । अयम् एवार्थस् तथा शाखान्तर आत्मा वा इदम् एक एवाग्र आसीन् नान्यत् किंचन मिषद् इति सद्ब्रह्मशब्दाभ्याम् आत्मैवाभिहित इत्य् अवगम्यते । तथा च शाखान्तर एको ह वै नारायण आसीन् न ब्रह्म नेशानो नेमे द्यावपृथिवी न नक्षत्राणीति सद्ब्रह्मात्मादिपरमकारणवादिभिः शब्दैर् नारायण एवाभिधीयत इति निश्चीयते ।
यम् अन्तः समुद्रे कवयो वयन्तीत्यादि नैनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्येशे कश्चन तस्य नाम महद्यशः ॥ न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम्, हृदा मनीषा मनसाभिकॢप्तो य एवं विदुर् अमृतास् ते भवन्तीति सर्वस्मात् परत्वम् अस्य प्रतिपाद्य, न तस्येशे कश्चनेति तस्मात् परं किम् अपि न विद्यत इति च प्रतिषिध्य, अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टाव् इति तेनैकवाक्यतां गमयति । तच् च महापुरुषप्रकरणं ह्रीश् च ते लक्ष्मीश् च पत्न्याव् इति च नारायण एवेति द्योतयति ।
अयम् अर्थो नारायणानुवाके प्रपञ्चितः । सहस्रशीर्षं देवम् इत्यारभ्य स ब्रह्म स शिवः सेन्द्रः सो ऽक्षरः परमः स्वराड् इति । सर्वशाखासु परतत्त्वप्रतिपादनपरान् अक्षरशिवशंभुपरब्रह्मपरज्योतिःपरतत्त्वपरायणपरमात्मादिसर्वशब्दांस् तत्तद्गुणयोगेन नारायण एव प्रयुज्य तद्व्यतिरिक्तस्य समस्तस्य तदाधारतां तन्नियाम्यतां तच्छेषताम् तदात्मकतां च प्रतिपाद्य ब्रह्मशिवयोर् अपीन्द्रादिसमानाकारतया तद्विभूतित्वं च प्रतिपादितम् । इदं च वाक्यं केवलपरतत्त्वप्रतिपादनैकपरम् अन्यत् किंचिद् अप्य् अत्र न विधीयते ।
अस्मिन् वाक्ये प्रतिपादितस्य सर्वस्मात् परत्वेनावस्थितस्य ब्रह्मणो वाक्यान्तरेषु ब्रह्मविद् आप्नोति परम् इत्यादिषूपासनादि विधीयते । अतः प्राणं मनसि सह करणैर् इत्यादि वाक्यं सर्वकारणे परमात्मनि करणप्राणादि सर्वं विकारजातम् उपसंहृत्य तम् एव परमात्मानं सर्वस्येशानं ध्यायीतेति परब्रह्मभूतनारायणस्यैव ध्यानं विदधाति ।
पतिं विश्वस्येति न तस्येशे कश्चनेति च तस्यैव सर्वस्येशानता प्रतिपादिता । अत एव सर्वैश्वर्यसंपन्नः सर्वेश्वरः शंभुराकाशमध्ये ध्येय इति नारायणस्यैव परमकारणस्य शंभुशब्दवाच्यस्य ध्यानं विधीयते । कश् च ध्येय इत्यारभ्य कारणं तु ध्येय इति कार्यस्याध्येयतापूर्वककारणैकध्येयतापरत्वाद् वाक्यस्य । तस्यैव नारायणस्य परमकारणता शंभुशब्दवाच्यता च परमकारणप्रतिपादनैकपरे नारायणानुवाक एव प्रतिपन्नेति तद्विरोध्यर्थान्तरपरिकल्पनं कारणस्यैव ध्येयत्वेन विधिवाक्ये न युज्यते ।
यद् अपि ततो यदुत्तरम् इत्य् अत्र पुरुषाद् अन्यस्य परतरत्वं प्रतीयत इत्यभ्यधायि तद् अपि यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित् यस्माद् अपरं यस्माद् अन्यत् किंचिद् अपि परं नास्ति केनापि प्रकारेण पुरुषव्यतिरिक्तस्य परत्वं नास्तीत्यर्थः । अणीयस्त्वं सूक्ष्मत्वम् । ज्यायस्त्वं सर्वेश्वरत्वम् । सर्वव्यापित्वात् सर्वेश्वरत्वाद् अस्यैतद्व्यतिरिकितस्य कस्याप्य् अणीयस्त्वं ज्यायस्त्वं च नास्तीत्यर्थः । यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चिद् इति पुरुषाद् अन्यस्य कस्यापि ज्यायस्त्वं निषिद्धम् इति तस्माद् अन्यस्य परत्वं न युज्यत इति प्रत्युक्तम् ।
कस् तर्ह्य् अस्य वाक्यस्यार्थः । अस्य प्रकरणस्योपक्रमे तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनायैति पुरुषवेदनस्यामृतत्वहेतुतां तद्व्यतिरिक्तस्यापथतां च प्रतिज्ञाय यस्मात् परं नापरम् अस्ति किंचित् तेनेदं पूर्णं पुरुषेण सर्वम् इत्य् एतद् अन्तेन सर्वस्मात् परत्वं प्रतिपादितम् । यतः पुरुषतत्त्वम् एवोत्तरतरं ततो यदुत्तरतरं पुरुषतत्त्वं तद् एवारूपम् अनामयं य एतद्विदुर् अमृतास् ते भवन्ति, अथेतरे दुःखम् एवापियन्तीति पुरुषवेदनस्यामृतत्वहेतुत्वं तदितरस्यापथत्वं प्रतिज्ञातं सहेतुकम् उपसंहृतम् । अन्यथोपक्रमगतप्रतिज्ञाभ्यां विरुध्यते । पुरुषस्यैव शुद्धिगुणयोगेन शिवशब्दाभिप्रायत्वं शाश्वतं शिवम् अच्युतम् इत्यादिना ज्ञातम् एव । पुरुष एव शिवशब्दाभिधेय इत्यनन्तरम् एव वदति महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तक इति । उक्तेनैव न्यायेन न सन् न चासच् छिव एव केवल इत्यादि सर्वं नेयम् ।
किंच न तस्येशे कश्चनेति निरस्तसमाभ्यधिकसंभावनस्य पुरुषस्याणोर् अणीयानित्यस्मिन्न् अनुवाके वेदाद्यन्तरूपतया वेदबीजभूतप्रणवस्य प्रकृतिभूताकारवाच्यतया महेश्वरत्वं प्रतिपाद्य दहरपुण्डरीकमध्यस्थाकाशान्तर्वर्तितयोपास्यत्वम् उक्तम् । अयम् अर्थः सर्वस्य वेदजातस्य प्रकृतिः प्रणव उक्तः । प्रणवस्य च प्रकृतिर् अकारः । प्रणवविकारो वेदः स्वप्रकृतिभूते प्रणवे लीनः । प्रणवो ऽप्य् अकारविकारभूतः स्वप्रकृताव् अकारे लीनः । तस्य प्रणवप्रकृतिभूतस्याकारस्य यः परो वाच्यः स एव महेश्वर इति सर्ववाचकजातप्रकृतिभूताकारवाच्यः सर्ववाच्यजातप्रकृतिभूतनारायणो यः स महेशवर इत्यर्थः । यथोक्तं भगवताअहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ।मत्तः परतरं नान्यत्किंचिद् अस्ति धनंजय ॥अक्षरणाम् अकारो ऽस्मि ॥इति । अ इति ब्रह्मेति च श्रुतेः । अकारो वै सर्वा वाग् इति च । वाचकजातस्याकारप्रकृतित्वं वाच्यजातस्य ब्रह्मप्रकृतित्वं च सुस्पष्टम् । अतो ब्रह्मणो ऽकारवाच्यताप्रतिपादनाद् अकारवाच्यो नारायण एव महेश्वर इति सिद्धम् ।
तस्यैव सहस्रशीर्षं देवम् इति केवलपरतत्त्वविशेषप्रतिपादनपरेण नारायणानुवाकेन सर्वस्मात् परत्वं प्रपञ्चितम् । अनेनानन्यपरेण प्रतिपादितम् एव परतत्त्वम् अन्यपरेषु सर्ववाक्येषु केनापि शब्देन प्रतीयमानं तद् एवेत्य् अवगम्य इति शास्त्रदृष्त्या तूपदेशो वामदेववद् इति सूत्रकारेण निर्णीतम् । तद् एतत् परं ब्रह्म क्वचिद् ब्रह्मशिवादिशब्दाद् अवगतम् इति केवलब्रह्मशिवयोर् न परत्वप्रसङ्गः । अस्मिन्न् अनन्यपरे ऽनुवाके तयोर् इन्द्रादितुल्यतया तद्विभूतित्वप्रतिपादनात् । क्वचिद् आकाशप्राणादिशब्देन परं ब्रह्माभिहितम् इति भूताकाशप्राणादेर् यथा न परत्वम् । यत् पुनर् इदम् आशङ्कितम् अथ यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वा व विजिज्ञासितव्यम् इत्य् अत्राकाशशब्देन जगदुपादानकारणं प्रतिपाद्य तदन्तर्वर्तिनः कस्यचित् तत्त्वविशेषस्यान्वेष्टव्यता प्रतिपाद्यते । अस्याकाशस्य नामरूपयोर् निवोढृत्वश्रवणात् पुरुषसूक्ते पुरुषस्य नामरूपयोः कर्तृत्वदर्शनाच् चाकाशपर्यायभूतात् पुरुषाद् अन्यस्यान्वेष्टव्यतयोपास्यत्वं प्रतीयत इत्यनधीतवेदानाम् अदृष्टशास्त्राणाम् इदं चोद्यं ।
यतस् तत्र श्रुतिर् एवास्य परिहारम् आह । वाक्यकारश् च दहरो ऽस्मिन्न् अन्तराकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वा व विजिज्ञासितव्यम् इति चोदिते यावान् वा अयम् आकाशस् तावान् एषो ऽन्तर्हृदय आकाश इत्यादिनास्याकाशशब्दवाच्यस्य परमपुरुषस्यानवधिकमहत्त्वं सकलजगदाधारत्वं च प्रतिपाद्य तस्मिन् कामाः समाहिता इति कामशब्देनापहतपाप्मत्वादिसत्यसंकल्पपर्यन्तगुणाष्टकं निहितम् इति परमपुरुषवत् परमपुरुषगुणाष्टकस्यापि पृथिविजिज्ञासितव्यताप्रतिपादयिषया तस्मिन् यद् अन्तस् तदन्वेष्टव्यम् इत्युक्तम् इति श्रुत्यैव सर्वं परिहृतम् ।
एतद् उक्तं भवति किं तद् अत्र विद्यते यद् अनेष्टव्यम् इत्य् अस्य चोद्यस्य तस्मिन् सर्वस्य जगतः स्रष्टृत्वम् आधारत्वं नियन्तृत्वं शेषित्वम् अपहतपाप्मत्वादयो गुणाश् च विद्यन्त इति परिहार इति । तथा च वाक्यकारवचनम् तस्मिन् यद् अन्तर् इति कामव्यपदेश इति । काम्यन्त इति कामाः । अपहतपाप्मत्वादयो गुणा इत्यर्थः । एतद् उक्तं भवति यद् एतद् दहराकाशशब्दाभिधेयं निखिलजगदुदयवैभवलयलीलं परं ब्रह्म तस्मिन् यद् अन्तर् निहितम् अनवधिकातिशयम् अपहतपाप्मत्वादिगुणाष्टकं तद् उभयम् अप्य् अन्वेष्टव्यं विजिज्ञासितव्यम् इति । यथाह अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु कामचारो भवन्तीति ।
यः पुनः कारणस्यैव ध्येयताप्रतिपादनपरे वाक्ये विष्णोर् अनन्यपरवाक्यप्रतिपादितपरतत्त्वभूतस्य कार्यमध्ये निवेशः स स्वकार्यभूततत्त्वसंख्यापूरणं कुर्वतः स्वलीलया जगदुपकाराय स्वेच्छावतार इत्य् अवगन्तव्यः । यथा लीलया देवसंख्यापूर्णं कुर्वत उपेन्द्रत्वं परस्यैव, यथा च सूर्यवंशोद्भवराजसंख्यापूर्णं कुर्वतः परस्यैव ब्रह्मणो दाशरथिरूपेण स्वेच्छावतारः, यथा च सोमवंशसंख्यापूरणं कुर्वतो भगवतो भूभारावतारणाय स्वेच्छया वसुदेवगृहे ऽवतारः ।
सृष्टिप्रलयप्रकरणेषु नारायण एव परमकारणतया प्रतिपाद्यत इति पूर्वम् एवोक्तम् । यत् पुनर् अथर्वशिरसि रुद्रेण स्वसर्वैश्वर्यं प्रपञ्चितं तत् सो ऽन्तराद् अन्तरं प्राविशद् इति परमात्मप्रवेशाद् उक्तम् इति श्रुत्यैव व्यक्तम् । शास्त्रदृष्ट्या तूपदेशो वामदेववद् इति सूत्रकारेणैवंवादिनाम् अर्थः प्रतिपादितः । यथोक्तं प्रह्लादेनापिसर्वगत्वाद् अनन्तरस्य स एवाहम् अवस्थितः ।मत्तः सर्वम् अहं सर्वं मयि सर्वं सनातने ॥इत्यादि । अत्र सर्वगत्वाद् अनन्तस्येति हेतुर् उक्तः । स्वशरीरभूतस्य सर्वस्य चिदचिद्वस्तुन आत्मत्वेन सर्वगः परमात्मेति सर्वे शब्दाः सर्वशरीरं परमात्मानम् एवाभिदधतीत्य् उक्तम् । अतो ऽहम् इति शब्दः स्वात्मप्रकारप्रकारिणं परमात्मानम् एवाचष्टे । अत इदम् उच्यते । आत्मेत्य् एव तु गृह्णीयात् सर्वस्य तन्निष्पत्तेर् इत्यादिनाहंग्रहणोपासनं वाक्यकारेण कार्यावस्थः कारणावस्थश् च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमात्मैवेति सर्वस्य तन्निष्पत्तेर् इत्य् उक्तम् । आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति सूत्रकारेण च । महाभारते च ब्रह्मरुद्रसंवादे ब्रह्मा रुद्रं प्रयाहतवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः ।इति । रुद्रस्य ब्रह्मणश् चान्येषां च देहिनां परमेश्वरो नारायणो ऽन्तरात्मतयावस्थित इति । तथा तत्रैवविष्णुर् आत्मा भगवतो भवस्यामिततेजसः ।तस्माद् धनुर्ज्यासंस्पर्शं स विषेहे महेश्वरः ॥इति । तत्रैवएतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ ।तदादर्शितपन्थानौ सृष्टिसंहारकारकौ ॥इति । अन्तरात्मतयावस्थितनारायणदर्शितपथौ ब्रह्मरुद्रौ सृष्टिसंहारकार्यकराव् इत्यर्थः ।
निमित्तोपादानयोस् तु भेदं वदन्तो वेदबाह्या एव स्युः । जन्माद्यस्य यतः प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधाद् इत्यादि वेदवित्प्रणीतसूत्रविरोधात् । सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् तद् ऐक्षत बहु स्यां प्रजायेयेति ब्रह्मवनं ब्रह्म स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः ब्रह्माध्यतिष्ठद्भुवनानि धारयन् सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि न तस्येशे कश्चन तस्य नाम महद्यशः नेह नानास्ति किंचन सर्वस्य वशी सर्वस्येशानः पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् उतामृतत्त्वस्येशानः नान्यः पन्था अयनाय विद्यत इत्यादिसर्वश्रुतिविरोधाच् च ।
इतिहासपुराणेषु च सृष्टिस्थितिप्रलयप्रकरणयोर् इदम् एव परतत्त्वम् इत्य् अवगम्यते । यथा महाभारतेकुतः सृष्टम् इदं सर्वं जगत्स्थावरजङ्गमम् ।प्रलये च कम् अभ्येति तन् तो ब्रूहि पितामह ॥इति पृष्टोनारायणो जगन्मूर्तिर् अनन्तात्मा सनातन ।इत्यादि च वदतिऋषयः पितरो देवा महाभूतानि धातवः ।जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥इति च । प्राच्योदीच्यदाक्षिणात्यपाश्चात्यसर्वशिष्टैः सर्वधर्मसर्वतत्त्वव्यवस्थायाम् इदम् एव पर्याप्तम् इत्य् अविगानपरिगृहीतं वैष्णवं च पुराणं जन्माद्य् अस्य यत इति जगज्जन्मादिकारणं ब्रह्मेत्य् अवगम्यते । तज्जन्मादिकारणं किम् इति प्रश्नपूर्वकं विष्णोः सकाशाद् भूतम् इत्यादिना ब्रह्मस्वरूपविशेषप्रतिपादनैकपरतया प्रवृत्तम् इति सर्वसंमतम् । तथा तत्रैवप्रकृतिर् या ख्याता व्यक्ताव्यक्तस्वरूपिणी ।पुरुषश् च+प्य् उभाव् एतौ लीयेते परमात्मनि ॥परमात्मा च सर्वेषाम् आधारः परमेश्वरः ।विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥इति । सर्ववेदवेदान्तेषु सर्वैः शब्दैः परमकारणतयायम् एव गीयत इत्यर्थः । यथा सर्वासु ष्रुतिषु केवलपरब्रह्मस्वरूपविशेषप्रतिपादनायैव प्रवृत्तो नारायणानुवाकस् तथेदं वैष्णवं च पुराणम्सो ऽहम् इच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।बभूव भूयश् च यथा महाभाग भविष्यति ॥यन्मयं च जगद्ब्रह्मन्य् अतश् चैतच्चराचरम् ।लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च ॥इति परं ब्रह्म किम् इति प्रक्रम्यविष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम् ।स्थितिसंयमकर्तासौ जगतो ऽस्य जगच् च सः ॥परः पराणां परमः परमात्मात्मसंस्थितः ।रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः ।वर्जितः शक्यते वक्तुं यः सद् अस्तीति केवलम् ॥सर्वत्रासौ समस्तं च वसत्य् अत्रेति वै यतः ।ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥तद्ब्रह्म परं नित्यम् अजम् अक्षयम् अव्ययम् ।एकस्वरूपं च सदा हेयाभावाच् च निर्मलम् ॥तद् एव सर्वम् एवैतद्व्यक्ताव्यक्तस्वरूपवत् ।तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश् च मुने व्यतीतः ।अतीतसर्वावरणो ऽखिलात्मा तेनास्तृतं यद् भुवनान्तराले ॥समस्तकल्याणगुणात्मको ऽसौ स्वशक्तिलेशोद्धृतभूतवर्गः ।इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितो ऽसौ ॥तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः ।परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥स ईश्वरो व्यष्टिसमष्टिरूपो ऽव्यक्तस्वरूपः प्रकटस्वरूपः ।सर्वेश्वरः सर्वदृक्सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ॥संज्ञायते येन तद् अस्तदोषं शुद्धं परं निर्मलम् एकरूपम् ।संदृश्यते वाप्य् अधिगम्यते वा तज्ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम् ॥इति परब्रह्मस्वरूपविशेषनिर्णयायैव प्रवृत्तम् ।
अन्यानि सर्वाणि पुराणान्य् एतदविरोधेन नेयानि । अन्यपरत्वं च तत्तदारम्भप्रकारैर् अवगम्यते । सर्वात्मना विरुद्धांशस् तामसत्वाद् अनादरणीयः ।
नन्वस्मिन्न् अपि सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवान् एक एव जनार्दनः ॥ इति त्रिमूर्तिसाम्यं प्रतीयते । नैतद् एवम् । एक एव जनार्दन इति जनार्दनस्यैव ब्रह्मशिवादिकृत्स्नप्रपञ्चतादात्म्यं विधीयते । जगच् च स इति पूर्वोक्तम् एव विवृणोति स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च । उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः ॥ इति च स्रष्टृत्वेनावस्थितं ब्रह्माणं सृज्यं च संहर्तारं संहार्यं च युगपन् निर्दिश्य सर्वस्य विष्णुतादात्म्योपदेशात् सृज्यसंहार्यभूताद् वस्तुनः स्रष्टृसंहर्त्रोर् जनार्दनविभूतित्वेन विशेषो दृश्यते । जनार्दनविष्णुशब्दयोः पर्यायत्वेन ब्रह्मविष्णुशिवात्मिकाम् इति विभूतिमत एव स्वेच्छया लीलार्थं विभूत्यन्तर्भाव उच्यते । यथेदम् अनन्तरम् एवोच्यते - पृथिव्यापस् तथा तेजो वायुर् आकाश एव च । सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज् जगत् ॥ स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः । सर्गादिकं ततोऽस्यैव भूतस्थम् उपकारकम् ॥ स एव सृज्यः स च सर्वकर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिर् अशेषमूर्तिर् विष्णुर् वरिष्ठो वरदो वरेण्यः ॥ इति ।
अत्र सामानाधिकरण्यनिर्दिष्टं हेयमिश्रप्रपञ्चतादात्म्यं निरवद्यस्य निर्विकारस्य समस्तकल्याणगुणात्मकस्य ब्रह्मणः कथम् उपपद्यत इत्य् आशङ्ख्य स एव सर्वभूतात्मा विश्वरूपो यतो ऽव्यय इति स्वयम् एवोपपादयति । स एव सर्वेश्वरः परब्रह्मभूतो विष्णुर् एव सर्वं जगद् इति प्रतिज्ञाय सर्वभूतात्मा विश्वरूपो यतो ऽव्यय इति हेतुर् उक्तः । सर्वभूतानाम् अयम् आत्मा विश्वशरीरो यतो ऽव्यय इत्यर्थः । वक्ष्यति च सत्सर्वं वै हरेस् तनुर् इति ।एतद् उक्तं भवति । अस्याव्ययस्यापि परस्य ब्रह्मणो विष्णोर् विश्वशरीरतया तादात्म्यविरुद्धम् इत्य् आत्मशरीरयोश् च स्वभावा व्यवस्थिता एव । एवंभूतस्य सर्वेश्वरस्य विष्णोः प्रपञ्चान्तर्भूतनियाम्यकोटिनिविष्टब्रह्मादिदेवतिर्यङ्मनुष्येषु तत् तत् समाश्रयणीयत्वाय स्वेच्छावतारः पूर्वोक्तः । तद् एतद् ब्रह्मादीनां भावनात्रयान्वयेन कर्मवश्यत्वं भगवतः परब्रह्मभूतस्य वासुदेवस्य निखिलजगदुपकाराय स्वेच्छया स्वेनैव रूपेण देवादिष्व् अवतार इति च षष्टे ऽंशे शुभाश्रयप्रकरणे सुव्यक्तम् उक्तम् । अस्य देवादिरूपेणावतारेष्व् अपि न प्राकृतो देह इति महाभारते न भूतसंघसंस्थानो देहो ऽस्य परमात्मनः । इति प्रतिपादितः । श्रुतिभिश् च अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् इति । कर्मवश्यानां ब्रह्मादीनाम् अनिच्छताम् अपि तत्तत्कर्मानुगुणप्रकृतिपरिणामरूपभूतसंघसंस्थानविशेषदेवादिशरीरप्रवेशरूपं जन्मावर्जनीयम् । अयं तु सर्वेश्वरः सत्यसंकल्पो भगवान् एवंभूतशुभेतरजन्माकुर्वन्न् अपि स्वेच्छया स्वेनैव निरतिशयकल्याणरूपेण देवादिषु जगदुपकाराय बहुधा जायते, तस्यैतस्य शुभेतरजन्माकुर्वतो ऽपि स्वकल्याणगुणानन्त्येन बहुधा योनिं बहुविधजन्म धीराधीरमताम् अग्रेसरा जानन्तीत्यर्थः ।
तदेतन्निखिलजगन्निमित्तोपादानभूताज् जन्माद्य् अस्य यतः प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधादित्यादिसूत्रैः प्रतिपादितात् परस्माद् ब्रह्मणः परमपुरुषाद् अन्यस्य कस्यचित् परतरत्वं परमतः सेतून् मानसंबन्धभेदव्यपदेशेभ्य इत्याशङ्क्य सामान्यात् तु बुद्ध्यर्थः पादवत् स्थानविशेषात् प्रकाशादिवत् उपपत्तेश् च तथान्यप्रतिषेधात् अनेन सर्वगतत्वमायाम् आदिशब्दादिभ्य इति सूत्रकारः स्वयम् एव निराकरोति ।
मानवे च शास्त्रेप्रादुरासीत् तमोनुदः सिसृक्षुर् विविधाः प्रजाः ।अप एव ससर्जादौ तासु वीर्यम् अपासृजत् ॥तस्मिञ् जज्ञे स्वयं ब्रह्मइति ब्रह्मणो जन्मश्रवणात् क्षेत्रज्ञत्वम् एवावगम्यते । तथा च स्रष्टुः परमपुरुषस्य तद्विसृष्टस्य च ब्रह्मणःअयं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥इति नामनिर्देशाच् च । तथा च वैष्णवे पुराणे हिरण्यगर्भादीनां भावनात्रयान्वयाद् अशुद्धत्वेन शुभाश्रयत्वानर्हतोपपादनात् क्षेत्रज्ञत्वं निश्चीयते ।
यद् अपि कैश्चिद् उक्तम् सर्वस्य शब्दजातस्य विध्यर्थवादमन्त्ररूपस्यकार्याभिधायित्वेनैव प्रामाण्यं वर्णनीयम् । व्यवहाराद् अन्यत्र शब्दस्य बोधकत्वशक्त्यवधारणासंभवाद् व्यवहारस्य च कार्यबुद्धिमूलत्वात् कार्यरूप एव शब्दार्थः । न परिनिष्पन्ने वस्तुनि शब्दः प्रमाणम् इति । अत्रोच्यते । प्रवर्तकवाक्यव्यवहार एव शब्दानाम् अर्थबोधकत्वशक्त्यवधारणं कर्तव्यम् इति किम् इयं राजाज्ञा । सिद्धवस्तुषु शब्दस्य बोधकत्वशक्तिग्रहणम् अत्यन्तसुकरम् । तथा हि केनचिद् धस्तचेष्टादिनापवरके दण्डः स्थित इति देवदत्ताय ज्ञापयेति प्रेषितः कश्चित् तज्ज्ञापने प्रवृत्तो ऽपवरके दण्डः स्थित इति शब्दं प्रयुङ्क्ते । मूकवद् धस्तचेष्टाम् इमां जानन् पार्श्वस्थो ऽन्यः प्राग्व्युत्पन्नो ऽपि तस्यार्थस्य बोधनायापवरके दण्डः स्थित इत्यस्य शब्दस्य प्रयोगदर्शनाद् अस्यार्थस्यायं शब्दो बोधक इति जानातीति किम् अत्र दुष्करम् । तथा बालस् तातो ऽयम् इयं मातायं मातुलो ऽयं मनुष्यो ऽयं मृगश् चन्द्रो ऽयम् अयं च सर्प इति मातापितृप्रभृतिभिः शब्दैः शनैः शनैर् अङ्गुल्या निर्देशने तत्र तत्र बहुशः शिक्षितस् तैर् एव शब्दैस् तेष्व् अर्थेषु स्वात्मनश् च बुद्ध्युत्पत्तिं दृष्ट्वा तेष्व् अर्थेषु तेषां शब्दानाम् अङ्गुल्या निर्देशपूर्वकः प्रयोगः सम्बन्धान्तराभावात् संकेतयितृपुरुषाज्ञानाच् च बोधकत्वनिबन्धन इति क्रमेण निश्चित्य पुनर् अप्य् अस्य शब्दस्यायम् अर्थ इति पूर्ववृद्धैः शिक्षितः सर्वशब्दानाम् अर्थम् अवगम्य स्वयम् अपि सर्वं वाक्यजातं प्रयुङ्क्ते । एवम् एव सर्वपदानां स्वार्थाभिधायित्वं संघातविशेषणां च यथावस्थितसंसर्गविशेषवाचित्वं च जानातीति कार्यार्थैव व्युत्तिपत्तिर् इत्यादिनिर्बन्धो निर्बन्धनः । अतः परिष्पन्नः वस्तुनि शब्दस्यबोधकत्वशक्त्यवधारणात् सर्वाणि वेदान्तवाक्यानि सकलजगत्कारणं सर्वकल्याणगुणाकरमुक्तलक्षणं ब्रह्म बोधयन्त्य् एव ।
अपि च कार्यार्थ एव व्युत्पत्तिर् अस्तु । वेदान्दवाक्यान्य् अप्य् उपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन दुःखासंभिन्नदेशविशेषरूपस्वर्गादिवद् रात्रिसत्रप्रतिष्ठानादिवद् अपगोरणशतयातनासाध्यसाधनभाववच् च कर्योपयोगितयैव सर्वं बोधयन्ति । तथा+हि ब्रह्मविद् आप्नोति परम् इत्यत्र ब्रह्मोपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन ब्रह्मप्राप्तिः श्रूयते परप्राप्तिकामो ब्रह्म विद्याद् इत्यत्र प्राप्यतया प्रतीयमानं ब्रह्मस्वरूपं तद्विशेषणं च सर्वं कार्योपयोगितयैव सिद्धं भवति । तदन्तर्गतम् एव जगत्स्रष्टृत्वं संहर्तृत्वम् आधारत्वम् अन्तरात्मत्वम् इत्याद्य् उक्तम् अनुक्तं च सर्वम् इति न किंचिद् अनुपपन्नम् ।
एवं च सति मन्त्रार्थवादगता ह्य् अविरुद्धा अपूर्वाश् चार्थाः सर्वे विधिशेषतयैव सिद्धा भवन्ति । यथोक्तं द्रमिडभाष्ये ऋणं हि वै जायत इति श्रुतेर् इत्य् उपक्रम्य यद्य् अप्य् अवदानस्तुतिपरं वाक्यं तथापि नासता स्तुतिर् उपपद्यत इति । एतद् उक्तं भवति सर्वो ह्य् अर्थवादभागो देवताराधनभूतयागादेः साङ्गस्याराध्यदेवतायाश् चादृष्टरूपान् गुणान् सहस्रशो वदन् सहस्रशः कर्मणि प्राशस्त्यबुद्धिम् उत्पादयति । तेषाम् असद्भावे प्राशस्त्यबुद्धिर् एव न स्याद् इति कर्मणि प्राशस्त्यबुद्ध्यर्थं गुणसद्भावम् एव बोधयतीति । अनयैव दिशा सर्वे मन्त्रार्थवादावगता अर्थाः सिद्धाः ।
अपि च कार्यवाक्यार्थवादिभिः किम् इदं कार्यत्वं नामेति वक्तव्यम् । कृतिभावभाविता कृत्युद्देश्यता चेति चेत् । किम् इदं कृत्युद्देश्यत्वम् । यद् अधिकृत्य कृतिर् वर्तते तत् कृत्युद्देश्यत्वम् इति चेत् । पुरुषव्यापाररूपायाः कृतेः को ऽयम् अधिकारो नाम । यत्प्राप्तीच्छया कृतिम् उत्पादयति पुरुषः तत् कृत्युद्देश्यत्वम् इति चेद् धन्त तर्हीष्टत्वम् एव कृत्युद्देश्यत्वम् । अथैवं मनुषे इष्टस्यैव रूपद्वयम् अस्ति । इच्छाविषयतया स्थितिः पुरुषप्रेरकत्वं च । तत्र प्रेरकत्वाकारः कृत्युद्देश्यत्वम् इति सो ऽयं स्वपक्षाभिनिवेशकारितो वृथाश्रमः । तथा हीच्छाविषयतया प्रतीतस्य स्वप्रयत्नोत्पत्तिम् अन्तरेणासिद्धिर् एव प्रेरकत्वम् । तत एव प्रवृत्तेः । इच्छायां जातायाम् इष्टस्य स्वप्रयत्नोत्पत्तिम् अन्तरेणासिद्धिः प्रतीयते चेत् ततश् चिकीर्षा जायते ततः प्रवर्तते पुरुष इति तत्त्वविदां प्रक्रिया । तस्माद् इष्टस्य कृत्यधीनात्मलाभत्वातिरेकि कृत्युद्देश्यत्वं नाम किम् पि न दृष्यते । अथोच्यते इष्टताहेतुश् च पुरुषानुकूलता । तत्पुरुषानुकूलत्वं कृत्युद्देश्यत्वम् इति चेत् । नैवम् । पुरुषानुकूलं सुखम् इत्य् अनर्थान्तरम् । तथा पुरुषानुकूलं दुःखपर्यायम् । अतः सुखव्यतिरिक्तस्य कस्यापि पुरुषानुकूलत्वं न संभवति ।ननु च दुःखनिवृत्तेर् अपि सुखव्यतिरिक्तायाः पुरुषानुकूलता दृष्टा । नैतत् । आत्मानुकूलं सुखम् आत्मप्रतिकूलं दुःखम् इति हि सुखदुःखयोर् विवेकः । तत्रात्मानुकूलं सुखम् इष्टं भवति । तत्प्रतिकूलं दुःखं चानिष्टम् । अतो दुःखसंयोगस्यासह्यतया तन्निवृत्तिर् अपीष्टा भवति । तत एवेष्टतासाम्याद् अनुकूलताभ्रमः । तथा हि प्रकृतिसंसृष्टस्य संसारिणः पुरुषस्यानुकूलसंयोगः प्रतिकूलसंयोगः स्वरूपेणावस्थितिर् इति च तिस्रो ऽवस्थाः । तत्र प्रतिकूलसंबन्धनिवृत्तिश् चानुकूलसंबन्धनिवृत्तिश् च स्वरूपेणावस्थितिर् एव । तस्मात् प्रतिकूलसंयोगे वर्तमाने तन्निवृत्तिरूपा स्वरूपेणावस्थितिर् अपीष्टा भवति । तत्रेष्टतासाम्याद् अनुकूलताभ्रमः ।
अतः सुखरूपत्वाद् अनुकूलतायाः नियोगस्यानुकूलतां वदन्तं प्रामाणिकाः परिहसन्ति । इष्टस्यार्थविशेषस्य निवर्तकतयैव हि नियोगस्य नियोगत्वं स्थिरत्वम् अपूर्वत्वं च प्रतीयते । स्वर्गकामो यजेतेत्य् अत्र कार्यस्य क्रियातिरिक्ता स्वर्गकामपदसमभिव्याहारेण स्वर्गसाधनत्वनिश्चयाद् एव भवन्ति । न च वाच्यं यजेतेत्य् अत्र प्रथमं नियोगः स्वप्रधानतयैव प्रतीयते स्वर्गकामपदसमभिव्याहारात् स्वसिद्धये स्वर्गसिद्ध्यनुकूलता च नियोगस्येति । यजेतेति हि धात्वर्थस्य पुरुषप्रयत्नसाध्यता प्रतीयते । स्वर्गकामपदसमभिव्याहाराद् एव धात्वर्थातिरेकिणो नियोगत्वं स्थिरत्वम् अपूर्वत्वं चेत्यादि । तच् च स्वर्गसाधनत्वप्रतीतिनिबन्धनम् । समभिव्याहृतस्वर्गकामपदार्थान्वययोग्यं स्वर्गसाधनम् एव कार्यं लिङादयो ऽभिदधतीति लोकव्युत्पत्तिर् अपि तिरस्कृता । एतद् उक्तं भवति समभिव्यहृतपदान्तरवाच्यार्थान्वययोग्यम् एवेतरपदप्रतिपाद्यम् इत्यन्विताभिधायिपदसंघातरूपवाक्यश्रवणसमन् अन्तरम् एव प्रतीयते । तच् च स्वर्गसाधनरूपम् । अतः क्रियावद् अनन्यार्थतापि विरोधाद् एव परित्यक्तेति । अत एव गङ्गायां घोष इत्यादौ घोषप्रतिवासयोग्यार्थोपस्थापनपरत्वं गङ्गापदस्याश्रीयते । प्रथमं गङ्गापदेन गङ्गार्थः स्मृत इति गङ्गापदार्थस्य पेयत्वं न वाक्यार्थान्वयीभवति । एवम् अत्र अपि यजेतेत्येतावन्मात्रश्रवणे कार्यम् अनन्यार्थं स्मृतम् इति वाक्यार्थान्वयसमये कार्यस्यानन्यार्थता नावतिष्ठते । कार्याभिधायिपदश्रवणवेलायां प्रथमं कार्यम् अनन्यार्थं प्रतीतम् इत्य् एतद् अपि न संगच्छते । व्युत्पत्तिकाले गवानयनादिक्रियाया दुःखरूपाया इष्टविशेषसाधनतयैव कार्यताप्रतीतेः । अतो नियोगस्य पुरुषानुकूलत्वं सर्वलोकविरुद्धं नियोगस्य सुखरूपपुरुषानुकूलतां वदतः स्वानुभवविरोधश् च । करीर्या वृष्टिकामो यजेय्तेत्यादिषु सिद्धे ऽपि नियोगे वृष्ट्यादिसिद्धिनिमित्तस्य वृष्टिव्यतिरेकेण नियोगस्यानुकूलता नानुभूयते । यद्य् अप्य् अस्मिञ् जन्मनि वृष्ट्यादिसिद्धेर् अनियमस् तथाप्य् अनियमाद् एव नियोगसिद्धिर् अवश्याश्रयणीया । तस्मिन्न् अनुकूलतापर्यायसुखानुभूतिर् न दृश्यते । एवम् उक्तरीत्या कृतिसाध्येष्टत्वातिरेकि कृत्युद्देश्यत्वं न दृश्यते ।
कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वम् इति चेत् । किम् इदं शेषित्वं किं च शेषत्वम् इति वक्तव्यम् । कार्यं प्रति संबन्धी शेषः । तत्प्रतिसंबन्धित्वं शेषित्वम् इति चेत् । एवं तर्हि कार्यत्वम् एव शेषित्वम् इत्य् उक्तं भवति । कार्यत्वम् एव विचार्यते । परोद्देशप्रवृत्तकृतिव्याप्त्यर्हत्वम् शेषत्वम् इति चेत् । को ऽयं परोद्देशो नामेति । अयम् एव हि विचार्यते । उद्देश्यत्वं नामेप्सितत्वसाध्यत्वम् इति चेत् । किम् इदम् ईप्सितत्वम् । कृतिप्रयोजनत्वम् इति चेत् पुरुषस्य कृत्यारम्भप्रयोजनम् एव हि कृतिप्रयोजनम् । स चेच्छाविषयः कृत्यधीनात्मलाभ इति पूर्वोक्त एव । अयम् एव हि सर्वत्र शेषशेषिभावः । परगतातिशयाधानेच्छोपादेयत्वम् एव यस्य स्वरूपं स शेषः परः शेषी । फलोत्पत्तीच्छया यागादेस् तत्प्रयत्नस्य चोपादेयत्वं यागादिसिद्धीच्छयान्यत् सर्वम् उपादेयम् ।
एवं गर्भदासादीनाम् अपि पुरुषविशेषातिशयाधानोपादेयत्वम् एव स्वरूपम् । एवम् ईश्वरगतातिशयाधानेच्छयोपादेयत्वम् एव चेतनाचेतनात्मकस्य नित्यस्यानित्यस्य च सर्वस्य वस्तुनः स्वरूपम् इति सर्वम् ईश्वरशेषत्वम् एव सर्वस्य चेश्वरः शेषीति सर्वस्य वशी सर्वस्येशानः पतिं विश्वस्येत्याद्युक्तम् । कृतिसाध्यं प्रधानं यत् तत्कार्यम् अभिधीयत इत्य् अयम् अर्थः श्रद्दधानेष्व् एव शोभते ।
अपि च स्वर्गकामो यजेतेत्यादिषु लकारवाच्यकर्तृविशेषसमर्पणपराणां स्वर्गकामादिपदानां नियोज्यविशेषसमर्पणपरत्वं शब्दानुशासनविरुद्धं केनावगम्यते । साध्यस्वर्गविशिष्टस्य स्वर्गसाधने कर्तृत्वान्वयो न घटत इति चेत् । नियोज्यत्वान्वयो ऽपि न घटत इति हि स्वर्गसाधनत्वनिश्चयः । स तु शास्त्रसिद्धे कर्तृत्वान्वये स्वर्गसाधनत्वनिश्चयः क्रियते । यथा भोक्तुकामो देवदत्तगृहं गच्छेद् इत्युक्ते भोजनकामस्य देवदत्तगृहगमने कर्तृत्वश्रवणाद् एव प्रागज्ञातम् अपि भोजनसाधनत्वं देवदत्तगृहगमनस्यावगम्यते । एवम् अत्रापि भवति । न क्रियान्तरं प्रति कर्तृतया श्रुतस्य क्रियान्तरे कर्तृत्वकल्पनं युक्तम् यजेतेति हि यागकर्तृतया श्रुतस्य बिद्धौ कर्तृत्वकल्पनं क्रियते । बुद्धेः कर्तृत्वकल्पनम् एव हि नियोज्यत्वम् । यथोक्तंनियोज्य सर्वकार्यं यः स्वकीयत्वेन बुध्यते ।इति । यष्टृत्वानुगुणं तद्बोधृत्वम् इति चेत् । देवदत्तः पचेद् इति पाके कर्तृतया श्रुतस्य देवदत्तस्य पाकार्थगमनं पाकानुगुणम् इति गमने कर्तृत्वकल्पनं न युज्यते ।
किं च लिङादिशब्दवाच्यं स्थायिरूपं किम् इत्य् अपूर्वम् आश्रीयते । स्वर्गकामपदसमभिव्याहारानुपपत्तेर् इति चेत् । कात्रानुपपत्तिः । सिषाधयिषितस्वर्गो हि स्वर्गकामः । तस्य स्वर्गकामस्य कालान्तरभाविस्वर्गसिद्धौ क्षणभङ्गिनी यागादिक्रिया न समर्थेति चेत् । अनाघ्रातवेदसिद्धान्तानाम् इयम् अनुपपत्तिः । सर्वैः कर्मभिर् आराधितः परमेश्वरो भगवान् नारायणस् तत्तदिष्टं फलं ददातीति वेदविदो वदन्ति । यथाहुर् वेदविदग्रेसरा द्रमिडाचार्याः फलसंबिभत्सया हि कर्मभिर् आत्मानं पिप्रीषन्ति स प्रीतो ऽलं फलायेति शास्त्रमर्यादा इति । फलसंबन्धेच्छया कर्मभिर् यागदानहोमादिभिर् इन्द्रियादिदेवतामुखेन तत्तदन्तर्यामिरूपेणावस्थितम् इन्द्रादिशब्दवाच्यं परमात्मानं भगवन्तं वासुदेवम् आरिराधयिषन्ति, स हि कर्मभिर् आराधितस् तेषाम् इष्टानि फलानि प्रयच्छतीत्यर्थः । तथा च श्रुतिः इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिर् इति । इष्टापूर्तम् इति सकलश्रुतिस्मृतिचोदितं कर्मोच्यते । तद्विश्वं बिभर्ति इन्द्राग्निवरुणादिसर्वदेवतासंबन्धितया प्रतीयमानं तत्तदन्तरात्मतयावस्थितः परमपुरुषः स्वयम् एव बिभर्ति स्वयम् एव स्वीकरोति । भुवनस्य नाभिः ब्रह्मक्षत्रादिसर्ववर्णपूर्णस्य भुवनस्य धारकः तैस् तैः कर्मभिर् आराधितस् तत्तदिष्टफलप्रदानेन भुवनानां धारक इति नाभिर् इत्युक्तः । अग्निवायुप्रभृतिदेवतान्तरात्मतया तत्तच्छब्दाभिधेयो ऽयम् एवेत्य् आह तद् एवाग्निस् तद्वायुस् तत्सूर्यस् तद् उ चन्द्रमा इति । यथोक्तं भगवतायो यो याम् यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति ।तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥स तस्य श्रद्धया युक्तस् तस्याराधनम् ईहते ।लभते च ततः कामान् मयैव विहितान् इह तान् ॥ इति ।यां यां तनुम् इतीन्द्रादिदेवताविशेषास् तत्तदन्तर्यामितयावस्थितस्य भगवतस् तनवः शरीराणीत्यर्थः ।अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च ।इत्यादि । प्रभुर् एव चेति सर्वफलानां प्रदाता चेत्यर्थः । यथा चयज्ञैस् त्वम् इज्यसे नित्यं सर्वदेवमयाच्युत ।यैः स्वधर्मपरैर् नाथ नरैर् आदाधितो भवान् ।ते तरन्त्य् अखिलाम् एतां मयाम् आत्मविमुक्तये ॥इति । सेतिहासपुराणेषु सर्वेष्व् एव वेदेषु सर्वाणि कर्माणि सर्वेश्वराराधनरूपाणि, तैस् तैः कर्मभिर् आराधितः पुरुषोत्तमस् तत्तदिष्टं फलं ददातीति तत्र तत्र प्रपञ्चितम् । एवम् हि सर्वशक्तिं सर्वज्ञं सर्वेश्वरं भगवन्तम् इन्द्रादिदेवतान्तर्यामिरूपेण यागदानहोमादिवेदोदितसर्वकर्मणां भोक्तारं सर्वफलानां प्रदातारं च सर्वाः श्रुतयो वदन्ति । चतुर्होतारो यत्र संपदं गच्छन्ति देवैर् इत्याद्याः । चतुर्होतारो यज्ञाः, यत्र परमात्मनि देवेष्व् अन्तर्यामिरूपेणावस्थिते, देवैः संपदं गच्छन्ति देवैः संबन्धं गच्छन्ति यज्ञा इत्यर्थः । अन्तर्यामिरूपेणावस्थितस्य परमात्मनः शरीरतयावस्थितानाम् इन्द्रादीनां यागादिसंबन्ध इत्य् उक्तं भवति । यथोक्तं भगवताभोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।इति । तस्माद् अग्न्यादिदेवतान्तरात्मभूतपरमपुरुषाराधनरूपभूतानि सर्वाणि कर्माणि, स एव चाभिलषितफलप्रदातेति किम् अत्रापूर्वेण व्युत्पत्तिपथदूरवर्तिना वाच्यतयाभ्युपगतेन कल्पितेन वा प्रयोजनम् । एवं च सति लिङादेः को ऽयम् अर्थः परिगृहीतो भवति । यज देवपूजायाम् इति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयो ऽभिदधतीति न किंचिद् अनुपपन्नम् । कर्तृवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्यः । भूतवर्तमानादिकम् अन्ये वदन्ति । लिङादयस् तु कर्तृव्यापारसाध्यतां वदन्ति ।
अपि च कामिनः कर्तव्यता कर्म विधाय कर्मणो देवताराधनरूपतां तद्द्वारा फलसंभवं च तत्तत्कर्मविधिवाक्यान्य् एव वदन्ति । वायव्यं श्वेतम् आलभत भूतिकामो वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयतीत्यादीनि । नात्र फलसिद्ध्यनुपपत्तिः कापि दृश्यत इति फलसाधनत्वावगतिर् औपादानिकीत्य् अपि न संगच्छति । विध्यपेक्षितं यागादेः फलसाधनत्वप्रकारं वाक्यशेष एव बोधयतीत्यर्थः । तस्माद् ब्राह्मणाय नापगुरेतेत्य् अत्रापगोरणनिषेधविधिपरवाक्यशेषे श्रूयमाणं निषेध्यस्यापगोरणस्य शतयातनासाधनत्वं निषेधविध्युपयोगीति हि स्वीक्रियते । अत्र पुनः कामिनः कर्तव्यतया विहितस्य यागादेः काम्यस्वर्गादिसाधनत्वप्रकारं वाक्यशेषावगतम् अनादृत्य किम् इत्य् उपादानेन यागादेः फलसाधनत्वं परिकल्प्यते । हिरण्यनिधिम् अपवरके निधाय याचते कोद्रवादिलुब्धः कृपणं जनम् इति श्रूयते तद् एतद् युष्मासु दृश्यते । शतयातनासाधनत्वम् अपि नादृष्टद्वारेण । चोदितान्य् अनुतिष्ठो विहितं कर्माकुर्वतो निन्दितानि च कुर्वतः सर्वाणि सुखानि दुःखानि च परमपुरुषानुग्रहनिग्रहाभ्याम् एव भवन्ति । एष ह्य् एवानन्दयति अथो सो ऽभयं गतो भवति अथ तस्य भयं भवति भीषास्माद् वातः पवते भीषोदेति सूर्यो भीषास्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः इति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरो ऽन्वायत्ता इत्याद्यनेकविधाः श्रुतयः सन्ति । यथोक्तं द्रमिडभाष्ये तस्याज्ञया धावति वायुर् नद्यः स्रवन्ति तेन च कृतसीमानो जलाशयाः समदा इव मेषविर्सपितं कुर्वन्तीति । तत्संकल्पनिबन्धना हीमे लोके न च्यवन्ते न स्फुटन्ते । स्वशासनानुवर्तिनां ज्ञात्वा कारुण्यात् स भगवान् वर्धयेत विद्वान् कर्मदक्ष इति च ।
परमपुरुषयाथात्म्यज्ञानपूर्वकतदुपासनादिविहितकर्मानुष्ठायिनस् तत्प्रसादात् तत्प्राप्तिपर्यन्तानि सुखान्य् अभयं च यथाधिकारं भवन्ति । तज्ज्ञानपूर्वकं तदुपासनादिविहितं कर्माकुर्वतो निन्दितानि च कुर्वतस् तन्निग्रहाद् एव तदप्राप्तिपूर्वकापरिमितदुःखानि भयं च भवन्ति । यथोक्तं भगवतानियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः ।इत्यादिना कृत्स्नं कर्म ज्ञानपूर्वकम् अनुष्ठेयं विधायमयि सर्वाणि कर्माणि संन्यस्यइति सर्वस्य कर्मणः स्वाराधनताम् आत्मनां स्वनियाम्यतां च प्रतिपाद्यये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः ।श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥ये त्व् एतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।सर्वज्ञानविमूढांस् तान् विद्धि नष्टान् अचेतसः ॥इति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान् विनिन्द्य पुनर् अपि स्वाज्ञानुपालनम् अकुर्वताम् आसुर् अप्रकृत्यन्तर्भावम् अभिधायाधमा गतिश् चोक्तातान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ इति ।सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्य्पाश्रयः ।मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥इति च स्वाज्ञानुवर्तिनां शाश्वतं पदं चोक्तम् । अश्रुतवेदान्तानां कर्मण्य् अश्रद्धा मा भूद् इति देवताधिकरणे ऽतिवादाः कृताः कर्ममात्रे यथा श्रद्धा स्याद् इति सर्वम् एकशास्त्रम् इति वेदवित्सिद्धान्तः ।
तस्यैतस्य परस्य ब्रह्मणो नारायणस्यापरिच्छेद्यज्ञानानन्दामलत्वस्वरूपवज्ज्ञानशक्ति बलैश्वर्यवीर्यतेजःप्रभृत्यनवधिकातिशयासंख्येयकल्याणगुणवत्स्वसंकल्पप्रवर्त्यस्वेतरसमस्तचिदचिद्वस्तुजातवत्स्वाभिमतस्वानुरूपैकरूप दिव्यरूपतदुचितनिरतिशयकल्याणविविधानंतभूषण स्वशक्तिसदृशापरिमितानन्ताश्चर्यनानाविधायुधस्वाभिमतानुरूपस्वरूपगुणविभवैश्वर्यशीलाद्यनवधिकमहिममहिषीस्वानुरूप कल्याणज्ञानक्रियाद्यपरिमेयगुणानन्तपरिजनपरिच्छेदस्वोचितनिखिलभोग्यभोगोपकरणाद्यनन्तमहाविभवावाङ्मनसगोचर स्वरूपस्वभावदिव्यस्थानादिनित्यतानिरवद्यतागोचराश् च सहस्रशः श्रुतयः सन्ति । वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् । य एषो ऽन्तरादित्ये हिरण्मयः पुरुषः । तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी । य एषो ऽन्तर्हृदय आकाशस् तस्मिन्न् अयं पुरुषो मनोमयो ऽमृतो हिरण्मयः मनोमय इति मनसैव विशुद्धेन गृह्यत इत्यर्थः सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि विद्युद्वर्णात् पुरुषाद् इत्यर्थः नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा मध्यस्थनीलतोयदा विद्युल्लेखेव सेयं दहरपुण्डरीकमध्यस्थाकाशवर्तिनी वह्निर्शिखा स्वान्तर्निहितनीलतोयदाभपरमात्मस्वरूपा अवान्तर्निहितनीलतोयदा विस्युद् इवाभातीत्यर्थः । मनोमयः प्राणशरीरो भारूपः । सत्यकामः सत्यसंकल्पः । आकाशात्मा सर्वकामा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यात्तो ऽवाक्यानादरः । माहारजनं वास इत्याद्याः । अस्येशाना जगतो विष्णुपत्नी । ह्रीश् च ते लक्ष्मीश् च पत्न्यौ ।तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । क्षयन्तम् अस्य रजसः पराके । यद् एकम् अव्यक्तम् अनन्तरूपं विश्वं पुराणं तमसः परस्तात् । यो वेद निहितं गुहायां परमे व्योमन् । यो ऽस्याध्यक्षः परमे व्योमन् । तद् एव तद् उ भव्यमा इदं तदक्षरे परमे व्योमन् नित्यादिश्रुतिशतनिश्चितो ऽयम् अर्थः ।
तद्विष्णोः परमं पदम् इति विष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यन्ति सूरय इति वचनात् सर्वकालदर्शनवन्तः परिपूर्णज्ञानाः केचन सन्तीति विज्ञायते । ये सूरयस् ते सदा पश्यन्तीति वचनव्यक्तिः, ये सदा पश्यन्ति ते सूरय इति वा । उभयपक्षे ऽप्य् अनेकविधानं न संभवतीति चेत् । न । अप्राप्तत्वात् सर्वस्य सर्वविशिष्टं परमस्थानं विधीयते । यथोक्तं तद्गुणास् ते विधीयेरन्न् अविभागाद् विधानार्थे न चेद् अन्येन शिष्टा इति । यथा यदाग्नेयो ऽष्टाकपाल इत्यादिकर्मविधौ कर्मणो गुणानां चाप्राप्तत्वेन सर्वगुणविशिष्टं कर्म विधीयते तथात्रापि सूरिभिः सदा दृश्यत्वेन विष्णोः परमस्थानम् अप्राप्तं प्रतिपादयतीति न कश्चिद् विरोधः । करणमन्त्राः क्रियमाणानुवादिनः स्तोत्रशस्त्ररूपा जपादिषु विनियुक्ताश् च प्रकरणपथिताश् चाप्रकरणपथिताश् च स्वार्थं सर्वं यथावस्थितम् एवाप्राप्तम् अविरुद्धं ब्राह्मणवद् बोधयन्तीति हि वैदिकाः । प्रगीतमन्त्रसाध्यगुणगुणिअभिमानं स्तोत्रम् । अप्रगीतमन्त्रसाध्यगुणगुणिनिष्ठगुणाभिधानं शस्त्रम् । नियुक्तार्थप्रकाशनां च देवतादिष्व् अप्राप्ताविरुद्धगुणविशेषप्र्तिपादनं विनियोगानुगुणम् एव । नेयं श्रुतिर् मुक्तजनविषया । तेशां सदादर्शनानुपपत्तेः । न+पि मुक्तप्रवाहविषया । सदा पश्यन्तीत्य् एकैककर्तृकविषयतया प्रतीतेः श्रुतिभङ्गप्रसङ्गात् । मन्त्रार्थवादगता ह्य् अर्थाः कार्यपरत्वे ऽपि सिद्ध्यन्तीत्युक्तम् । किं पुनः सिद्धवस्तुन्य् एव तात्पर्ये व्युत्पत्तिसिद्ध इति सर्वम् उपपन्नम् । ननु चात्र तद्विष्णोः परमं पदम् इति परस्वरूपम् एव परमपदशब्देनाभिधीयते । समस्तहेयरहितं विष्ण्वाख्यं परं पदम् इत्यादिष्व् अव्यतिरेकदर्शनात् । नैवम् । क्षयन्तम् अस्य रजतः पराके, तदक्षरे परमे व्योमन्, यो अस्याध्याक्षः परमे व्योमन्, यो वेद निहितं गुहायां परमे व्योमन् नित्यादिषु परमस्थानस्यैव दर्शनम् । तद्विष्णोः परमं पदम् इति व्यतिरेकनिर्देशाच् च । विष्ण्वाख्यं परमं पदम् इति विशेषणाद् अन्यद् अपि परमं पदं विद्यत इति च तेनैव ज्ञायते । तद् इदं परस्थानं सूरिभिः सदादृश्यत्वेन प्रतिपाद्यते ।
एतदुक्तं भवति क्वचित्परस्थानं परमपदशब्देन प्रतिपाद्यते, क्वचित्प्रकृतिवियुक्तात्मस्वरूपं, क्वचिद्भगवत्स्वरूपम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय इति परस्थानम् ।सर्गस्थित्यन्तकालेषु त्रिविधैव प्रवर्तते ।गुणप्रवृत्त्या परमं पदं तस्यागुणं महत् ॥इत्यत्र प्रकृतिवियुक्तात्मस्वरूपम् ।समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ।इत्यत्र भगवत्स्वरूपम् । त्रीण्य् अप्य् एतानि परमप्राप्तत्वेन परमपदशब्देन प्रतिपाद्यन्ते । कथं त्रयाणां परमप्राप्यत्वम् इति चेत् । भगवत्स्वरूपं परमप्राप्यत्वाद् एव परमं पदम् । इतरयोर् अपि भगवत्प्राप्तिगर्भत्वाद् एव परमपदत्वम् । सर्वकर्मबन्धविनिर्मुक्तात्मस्वरूपावाप्तिर् भगवत्प्राप्तिगर्भा । त इमे सत्याः कामा अनृतापिधाना इति भगवतो गुणगणस्य तिरोधायकत्वेनानृतशब्देन स्वकर्मणः प्रतिपादनम् ।
अनृतरूपतिरोधानं क्षेत्रज्ञकर्मेति कथम् अवगम्यत इति चेत् ।अविद्या कर्मसंज्ञान्या तृतीया शक्तिर् इष्यते ।यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा ॥संसारतापान् अखिलान् अवाप्नोत्य् अतिसंततान् ।तया तिरोहितत्वाच् चइत्यादिवचनात् ।
परस्थानप्राप्तिर् अपि भगवत्प्राप्तिगर्भैवेति सुव्यक्तम् । क्षयन्तम् अस्य रजसः पराक इति रजतःशब्देन त्रिगुणात्मिका प्रकृतिर् उच्यते केवलस्य रजसो ऽनवस्थानात् । इमां त्रिगुणात्मिकां प्रकृतिम् अतिक्रम्य स्थिते स्थाने क्षयन्तम् वसन्तम् इत्यर्थः । अनेन त्रिगुणात्मकात् क्षेत्रज्ञस्य भोग्यभूताद् वस्तुनः परस्ताद् विष्णोर् वासस्थानम् इति गम्यते । वेदाहम् एतंपुरुषं महान्तम् आदित्यवर्णं तमसः परस्ताद् इत्यत्रापि तमःशब्देन सैव प्रकृतिर् उच्यते । केवलस्य तमसो ऽनवस्थानाद् एव । रजसः पराके क्षयन्तम् इत्यनेनैकवाक्यत्वात् तमसः परस्ताद् वसन्तं महान्तम् आदित्यवर्णं पुरुषम् अहं वेदेत्य् अयम् अर्थो ऽवगम्यते । सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तदक्षरे परमे व्योमन्न् इति तत्स्थानम् अविकाररूपं परमव्योमशब्दाभिधेयम् इति च गम्यते । अक्षरे परमे व्योमन् नित्यस्य स्थानस्याक्षरत्वश्रवणात् क्षररूपादित्यमण्डलादयो न परमव्योमशब्दाभिधेयाः । यत्र पूर्वे साध्याः सन्ति देवाः, यत्र र्षयः प्रथमजा ये पुराणा इत्यादिषु च त एव सूरय इत्य् अवगम्यते । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर् यत्परं पदम् इत्यत्रापि विप्रासो मेधाविनः, विपन्यवः स्तुतिशीलाः, जागृवांसः अस्खलितज्ञानास् त एवास्खलितज्ञानास् तद्विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इत्यर्थः ।
एतेषां परिजनस्थानादीनां सद् एव सोम्येदम् अग्र आसीद् इत्यत्र ज्ञानबलैश्वर्यादिकल्याणगुणगणवत्परब्रह्मस्वरूपान्तर्भूतत्वात् सद् एवैकम् एवाद्वितीयम् इति ब्रह्मान्तर्भावो ऽवगम्यते । एषाम् अपि कल्याणगुणैकदेशत्वाद् एव सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्रेदम् इति शब्दस्य कर्मवश्यभोक्तृवर्गमिश्रतद्भोग्यभूतप्रपञ्चविषयत्वाच् च सदा पश्यन्ति सूरय इति सदादर्शित्वेन च तेषां कर्मवश्यानन्तर्भावात् । अपहतपाप्मेत्याद्य् अपिपास इत्यन्तेन सलीलोपकरणभूतत्रिगुणप्रकृतिप्राकृततत्संसृष्टपुरुषगतं हेयस्वभावं सर्वं प्रतिषिध्य सत्यकाम इत्यनेन स्वभोग्यभोगोपकरणजातस्य सर्वस्य सत्यता प्रतिपादिता । असत्याः कामा यस्यासौ सत्यकामः । काम्यन्त इति कामाः । तेन परेण ब्रह्मणा स्वभोग्यतदुपकरणादयः स्वाभिमता ये काम्यन्ते ते सत्याः नित्या इत्यर्थः । अन्यस्य लीलोपकरणस्यापि वस्तुनः प्रमाणसंबन्धयोग्यत्वे सत्य् अपि विकारास्पदत्वेनास्थिरत्वाद् तद्विपरीतं स्थिरत्वम् एषां सत्यपदेनोच्यते । सत्यसंकल्प इत्येतेषु भोग्यतदुपकरणादिषु नित्येषु निरतिशयेष्व् अनन्तेषु सत्स्वप्यपूर्वाणाम् अपरिमितानाम् अर्थानाम् अपि संकल्पमात्रेण सिद्धिं वदति । एषां च भोगोपकरणानां लीलोपकरणानां चेतनानाम् अचेतनानां स्थिराणाम् अस्थिराणाम् च तत्संकल्पायत्तस्वरूपस्थितिप्रवृत्तिभेदादि सर्वं वाति सत्यसंकल्प इति ।
इतिहासपुराणयोर् वेदोपबृंहणयोश् चायम् अर्थ उच्यतेतौ ते मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।वेदोपबृंहणार्थाय ताव् अग्राहयत प्रभुः ॥इति वेदोपबृंहणतया प्रारब्धे श्रीमद्रामायणेव्यक्तम् एष महायोगी परमात्मा सनातनः ।अनादिमध्यनिधनो महतः परमो महान् ॥तमसः परमो धाता शङ्खचक्रगदाधरः ।श्रीवत्सवक्षा नित्यश्रीर् अजय्यः शाश्वतो ध्रुवः ॥शारा नानाविधाश् चापि धनुर् आयतविग्रहम् ।अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः ॥विवेश वैष्णवं तेजः सशरीरः सहानुगः ॥श्रीमद्वैष्णवपुराणेसमस्ताः शक्तयश् चैता नृप यत्र प्रतिष्ठिताः ।तद्विश्वैरूप्यं रूपम् अन्त्यद्धरेर् महत् ॥मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥नित्यैवैषा जगन्माता विष्णोः श्रीर् अनपायिनी ।यथा सर्वगतो विष्णुस् तथैवेयं द्विजोत्तम ॥देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।विष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् ॥एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये ।तेषां तत्परं स्थानं यद् वै पश्यन्ति सूरयः ॥कलामुहूर्तादिमयश् च कालो न यद्विभूतेः परिणामहेतुः ॥महाभारते चदिव्यं स्थानम् अजरं चाप्रमेयं दुर्विज्ञेय, चागमैर् गम्यमाद्यम् ।गच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्वमूर्त्या ॥कालः स पचते तत्र न कालस् तत्र वै प्रभुः ।इति । परस्य ब्रह्मणो रूपवत्त्वं सूत्रकारश् च वदति अन्तस् तद्धर्मोपदेशाद् इति
यो ऽसाव् आदित्यमण्डलान्तर्वर्ती तप्तकार्तस्वरगिरिवरप्रभः सहस्रांशुशतसहस्रकिरणो गम्भीराम्भःसमुद्भूतसुमृष्टनालविकरविकसितपुण्डरीकदलामलायतेक्षणः सुभ्रूललाटः सुनासः सुस्मिताधरविद्रुमः सुरुचिरकोमलगण्डः कम्बुग्रीवः समुन्नतांसविलम्बिचारुरूपदिव्यकर्णकिसलयः पीनवृत्तायतभुजश् चारुतरातम्रकरतलानुरक्ताङ्गुलीभिर् अलंकृतस् तनुमध्यो विशालवक्षःस्थलः समविभक्तसर्वाङ्गो ऽनिर्देश्यदिव्यरूपसंहननः स्निग्धवर्णः प्रबुद्धपुण्डरीकचारुचरणयुगलः स्वानुरूपपीताम्बरधो ऽमलकिरीटकुण्डलहारकौस्तुभकेयूरकटकनूपुरोदरबन्धनाद्यपरिमिताश्चर्यानन्तदिव्यभूषणः शङ्खचक्रगदासिश्रीवत्सवनमालालङ्कृतो ऽनवधिकातिशयसौन्दर्याहृताशेषमनोदृष्टिवृत्तिर् लावण्यामृतपूरिताशेषचराचरभूतजातो ऽत्यद्भुताचिन्त्यनित्ययौवनः पुष्पहाससुकुमारः पुण्यगन्धवासितानन्तदिगन्तरालस् त्रैलोक्याक्रमणप्रवृत्तगम्भीरभावः करुणानुरागमधुरलोचनावलोकिताश्रितवर्गः पुरुषवरो दरीदृश्यते । स च निखिलजगदुदयविभवलयलीलो निरस्तसमस्तहेयः समस्तकल्याणगुणगणनिधिः स्वेतरसमस्तवस्तुविलक्षणः परमात्मा परं ब्रह्म नारायण इत्य् अवगम्यते । तद्धर्मोपदेशात् स एष सर्वेषां लोकानाम् ईष्टे सर्वेषां कामानाम् स एष सर्वेभ्यः पापभ्य उदित इत्यादिदर्शनात् । तस्यैते गुणाः सर्वस्य वशी सर्वस्येशानः अपहतपाप्मा विजर इत्यादि सत्यसंकल्प इत्यन्तम् विश्वतः परमं नित्यं विश्वं नारायणं हरिम् । पतिं विश्वस्यात्मेश्वरम् इत्यादिवाक्यप्रतिपादिताः ।
वाक्यकारैश् चैतत्सर्वं सुस्पष्टम् आह हिरण्यमयः पुरुषो दृश्यत इति प्राज्ञः सर्वान्तरः स्याल् लोककामेशोपदेशात् तथोदयात् पाप्मनाम् इत्यादिना । तस्य च रूपस्यानित्यतादि वाक्यकारेणैव प्रतिषिद्धम् स्यात् तद्रूपं कृतकम् अनुग्रहार्थं तच्चेतनानाम् ऐश्वर्याद् इत्य् उपासितुर् अनुग्रहार्थः परमपुरुषस्य रूपसंग्रह इति पूर्वपक्षं कृत्वा, रूपं वातीन्द्रियम् अन्तःकरणप्रत्यक्षं तन्निर्देशाद् इति । यथा ज्ञानादयः परस्य ब्रह्मणः स्वरूपतया निर्देशात् स्वरूपभूतगुणास् तथेदम् अपि रूपं श्रुत्या स्वरूपतया निर्देशात् स्वरूपभूतम् इत्यर्थः । भाष्यकारेणैतद् व्याख्यातम् अञ्जसैव विश्वसृजो रूपं तत् तु न चक्षुषा ग्राह्यं मनसा त्व् अकलुषेण साधनान्तरवता गृह्यते, न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेनेति श्रुतेः, न ह्य् रूपाया देवताया रूपम् उपदिश्यते, यथाभूतवादि हि शास्त्रम्, महारजनं वासः वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्ताद् इति प्रकरणान्तरनिर्देशाच् च साक्षिण इत्यादिना हिरण्यमय इति रूपसामान्याच् चन्द्रमुखवत्, न मयड् अत्र विकारम् आदाय प्रयुज्यते, अनारभ्यत्वाद् आत्मन इति । यथा ज्ञानादिकल्याणगुणगणानन्तर्यनिर्देशाद् अपरिमितकल्याणगुणगणविशिष्टं परं ब्रह्मेत्य् अवगम्यत एवम् आदित्यवर्णं पुरुषम् इत्यादिनिर्देशात् स्वाभिमतस्वानुरूपकल्याणतमरूपः परब्रह्मभूतः पुरुषोत्तमो नारायण इति ज्ञायते । तथास्येशना जगतो विष्णुपत्नी ह्रीश् च ते लक्ष्मीश् च पत्न्यौ सदा पश्यन्ति सूरयः तमसः परस्तात् क्षयन्तम् अस्य रजसः पराक इत्यादिना पत्नीपरिजनस्थानादीनां निर्देशाद् एव तथैव सन्तीत्य् अवगम्यते । यथाह भाष्यकार यथाभूतवादि हि शास्त्रम् इति ।
एतदुक्तं भवति यथा सत्यं ज्ञानं अनन्तं ब्रह्मेति निर्देशात् परमात्मस्वरूपं समस्तहेयप्रत्यनीकानवधिकानन्तैकतानतयापरिच्छेद्यतया च सकलेतरविलक्षणं तथा यः सर्वज्ञः सर्ववित् परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभातीत्यादिनिर्देशान् निरतिशयासंख्येयाश् च गुणाः सकलेतरविलक्षणाः । तथादित्यवर्णम् इत्यादिनिर्देशाद् रूपपरिजनस्थानादयश् च सकलेतरविलक्षणाः स्वासाधारणा अनिर्देश्यस्वरूपस्वभावा इति ।
वेदाः प्रमाणं चेद् विध्यर्थवादमन्त्रगतं सर्वम् अपूर्वम् अविरुद्धम् अर्थजातं यथावस्थितम् एव बोधयन्ति । प्रामाण्यं च वेदानाम् औत्पत्तिकस् तु शब्दस्यार्थेन संबन्ध इत्युक्तम् । यथाग्निजलादीनाम् औष्ण्यादिशक्तियोगः स्वाभाविकः, यथा च चक्षुरादीनाम् इन्द्रियाणां बुद्धिविशेषजनशक्तिः स्वाभाविकी तथा शब्दस्यापि बोधनशक्तिः स्वाभाविकी । न च हस्तचेष्टादिवत् संकेतमूलं शब्दस्य बोधकत्वम् इति वक्तुं शक्यम् । अनाद्यनुसंधानाविच्छेदे ऽपि संकेतयितृपुरुषाज्ञानात् । यानि संकेतमूलानि तानि सर्वाणि साक्षाद् वा परंपरया वा ज्ञायन्ते । न च देवदत्तादिशब्दवत् कल्पयितुं युक्तम् । तेषु च साक्षाद् वा परंपरया वा संकेतो ज्ञायते । गवादिशब्दानां त्व् अनाद्यनुसंधानाविच्छेदे ऽपि संकेताज्ञानाद् एव बोधकत्वशक्तिः स्वाभाविकी । अतो ऽग्न्यादीनां दाहकत्वादिशक्तिवद् इन्द्रियाणां बोधकत्वशक्तिवच् च शब्दस्यापि बोधकत्वशक्तिर् आश्रयणीया ॥
ननु चेन् इन्द्रियवच् छब्दस्यापि बोधकत्वं स्वाभाविकं संबन्धग्रहणं बोधकत्वाय किम् इत्य् अपेक्षते, लिङ्गादिवद् इति उच्यते यथा ज्ञातसंबन्धनियमं धूमाद्यग्न्यादिविज्ञानजनकं तथा ज्ञातसंबन्धनियमः शब्दो ऽप्य् अर्थविशेषबुद्धिजनकः । एवं तर्हि शब्दो ऽप्य् अर्थविशेषस्य लिङ्गम् इत्य् अनुमानं स्यात् नैवम् । शब्दार्थयोः संबन्धो बोध्यबोध्कभाव एव धूमादीनां तु संबन्धान्तर इति तस्य संबन्धस्य ज्ञानद्वारेण बुद्धिजनकत्वम् इति विशेषः । एवं गृहीतसंबन्धस्य बोधकत्वदर्शनाद् अनाद्यनुसंधानाविच्छेदे ऽपि संकेताज्ञानाद् बोधकत्वशक्तिर् एवेति निश्चीयते ।
एवं बोधकानां पदसंघातानां संसर्गविशेषबोधकत्वेन वाक्यशब्दाभिधेयानाम् उच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकस् ते पौरुषेयाः शब्दा इत्य् उच्यन्ते । यत्र तु तदुच्चारणक्रमः पूर्वपूर्वोच्चरणक्रमजनितसंस्कारपूर्वकः सर्वदापौरुषेयास् ते च वेदा इत्य्+उच्यन्ते । एतद् एव वेदानाम् अपौरुषेयत्वं नित्यत्वं च यत्पूर्वोच्चारणक्रमजनितसंस्कारेण तम् एव क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यमाणत्वम् । ते चानुपूर्वीविशेषेण संस्थिता अक्षरराशयो वेदा ऋग्यजुःसामाथर्वभेदभिन्ना अनन्तशाखा वर्तन्ते । ते च विध्यर्थवादमन्त्ररूपा वेदाः परब्रह्मभूतनारायणस्वरूपं तदाराधनप्रकाराधितात् फलविशेषं च बोधयन्ति । परमपुरुषवत् तत्स्वरूपतदाराधनतत्फलज्ञापकवेदाख्यशब्दजातं नित्यम् एव । वेदानाम् अनन्तत्वाद् दुरवगाहत्वाच् च परमपुरुषनियुक्ताः परमर्षयः कल्पे कल्पे निखिलजगदुपकारार्थं वेदार्थं स्मृत्वा विध्यर्थवादमन्त्रमूलानि धर्मशास्त्राणीतिहासपुराणानि च चक्रुः । लौकिकाश् च शब्दा वेदराशेर् उद्धृत्यैव तत्तदर्थविशेषनामतया पूर्ववत् प्रयुक्ताः पारंपर्येण प्रयुज्यन्ते । ननु च वैदिक एव सर्वे वाचकाः शब्दाश् चेच् छन्दस्यैवं भाषायाम् एवम् इति लक्षणभेदः कथम् उपपद्यते । उच्यते तेषाम् एव शब्दानां तस्याम् एवानुपूर्व्यां वर्तमानां तथैव प्रयोगः । अन्यत्र प्रयुज्यमानानाम् अन्यथेति न कश्चिद् दोषः ।
एवम् इतिहासपुराणधर्मशास्त्रोपबृंहितसाङ्गवेदवेद्यः परब्रह्मभूतो नारायणो निखिलहेयप्रत्यनीकः सकलेतरविलक्षणो ऽपरिच्छिन्नज्ञानानन्दैकस्वरूपः स्वाभाविकानवधिकातिशयासंख्येयकल्याणगुणगणाकरः स्वसंकल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदचिदचिद्वस्तुजातो ऽपरिच्छेद्यस्वरूपस्वभावानन्तमहाविभूतिर् नानाविधानन्तचेतनाचेतनात्मकप्रपञ्चलीलोपकरण इति प्रतिपादितम् । सर्वं खल्व् इदं ब्रह्म ऐतदात्म्यम् इदं सर्वं तत् त्वम् असि श्वेतकेतोएनम् एके वदन्त्य् अग्निं मरुतो ऽन्यो प्रजापतिम् ।इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास् त्रयी च ।त्रयो ऽग्नयश् चाहुतयश् च पञ्च सर्वे देव देवकीपुत्र एव ॥त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओंकारः परंतपः ।ऋतुधामा वसुः पूर्वो वसूनां त्वं प्रजापतिः ॥जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।अग्निः कोपः प्रसादस् ते सोमः श्रीवत्सलक्षणः ॥ज्योतींषि विष्णुर् भुवनानि विष्णुर् वनानि विष्णुर् गिरयो दिशश् च ।नद्यः समुद्राश् च स एव सर्वं यद् अस्ति यन् नास्ति च विप्रवर्य ॥इत्यादिसामानाधिकरण्यप्रयोगेषु सर्वैः शब्दैः सर्वशरीरतया सर्वप्रकारं ब्रह्मैवाभिधीयत इति चोक्तम् । सत्यसंकलपं परं ब्रह्म स्वयम् एव बहुप्रकारं स्याम् इति संकल्प्याचित्समष्टिरूपमहाभूतसूक्ष्मवस्तु भोक्तृवर्गसमूहं च स्वस्मिन् प्रलीनं स्वयम् एव विभज्य तस्माद् भूतसूक्ष्माद् वास्तुनो महाभूतानि सृष्ट्वा तेषु च भोक्तृवर्गात्मतया प्रवेश्य तैश्चिद् अधिष्ठितैर् महाभूतैर् अन्योन्यसंसृष्टैः कृत्स्नं जगद् विधाय स्वयम् अपि सर्वस्यात्मतया प्रविश्य परमात्मत्वेनावस्थितं सर्वशरीरं बहुप्रकारम् अवतिष्ठते । यद् इदं महाभूतसूक्ष्मं वस्तु तद् एव प्रकृतिशब्देनाभिधीयते । भोक्तृवर्गसमूह एव पुरुषशब्देन चोच्यते । तौ च प्रकृतिपुरुषौ परमात्मशरीरतया परमात्मप्रकारभूतौ । तत्प्रकारः परमात्मैव प्रकृतिपुरुषशब्दाभिदेयः । सो ऽकामयत बहु स्यां प्रजायेयेति तत्सृष्ट्वा तद् एवानुप्रविशत् तद् अनुप्रविश्य सच् च त्यच् चाभवन् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवद् इति पूर्वोक्तं सर्वम् अनयैव श्रुत्या व्यक्तम् ।
ब्रह्मप्राप्त्युपायश् च शास्त्राधिगततत्त्वज्ञानपूर्वकस्वकर्मानुगृहीतभक्तिनिष्ठासाध्यानवधिकातिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपपरभक्तिर् एवेत्युक्तम् । भक्तिशब्दश् च प्रीतिविशेषे वर्तते । प्रीतिश् च ज्ञानविशेष एव । ननु च सुखं प्रीतिर् इत्यनर्थान्तरम् । सुखं च ज्ञानविशेषसाध्यं पदार्थान्तरम् इति हि लौकिकाः । नैवम् । येन ज्ञानविशेषेण तत्साध्यम् इत्य् उच्यते स एव ज्ञानविशेषः सुखम् ।
एतद् उक्तं भवति विषयज्ञानानि सुखदुःखमध्यसाधारणानि । तानि च विषयाधीनविशेषाणि तथा भवन्ति । येन च विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकम् इत्य् अभिमतं तद्विषयं ज्ञानम् एव सुखं, तदतिरेकि पदार्थान्तरं नोपलभ्यते । तेनैव सुखित्वव्यवहारोपपत्तेश् च । एवंविधसुखस्वरूपज्ञानस्य विशेषकत्वं ब्रह्मव्यतिरिक्तस्य वस्तुनः सातिशयम् अस्थिरं च । ब्रह्मणस् त्व् अनवधिकातिशयं स्थिरं चेति । आनन्दो ब्रह्मेत्य् उच्यते । विषयायत्तत्वाज् ज्ञानस्य सुखस्वरूपतया ब्रह्मैव सुखम् । तद् इदम् आह रसो वै सः रसं हे एवायं लब्ध्वानन्दी भवतीति ब्रह्मैव सुखम् इति ब्रह्म लब्ध्वा सुखी भवतीत्यर्थः । परमपुरुषः स्वेनैव स्वयम् अनवधिकातिशयसुखः सन् परस्यापि सुखं भवति । सुखस्वरूपत्वाविशेषात् । ब्रह्म यस्य ज्ञानविषयो भवति स सुखी भवतीत्यर्थः । तद् एवं परस्य ब्रह्मणो ऽनवधिकातिशयासंख्येयकल्याणगुणगणाकरस्य निरवद्यस्यानन्तमहाविभूतेर् अनवधिकातिशयसौशील्यसौन्दर्यवात्सल्यजलधेः सर्वशेषित्वाद् आत्मनः शेषत्वात् प्रतिबंधितयानुसंधीयमानम् अनवधिकातिशयप्रीतिविषयं सत् परं ब्रह्मैवैनम् आत्मानं प्रापयतीति ।
ननु चात्यन्तशेषतैवात्मनो ऽनवधिकातिशयसुखम् इत्युक्तं भवति । तद् एतत् सर्वलोकविरुद्धम् । तथा हि सर्वेषाम् एव चेतनानां स्वातन्त्र्यम् एव इष्टतमं दृश्यते, पारतन्त्र्यं दुःखतरम् । स्मृतिश् चसर्वं परवशम् दुःखं सर्वम् आत्मवशं सुखम् ।तथा हिसेवा श्ववृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् ।इति । तद् इदम् अनधिगतदेहातिरिक्तात्मरूपाणां शरीरात्माभिमानविजृम्भितम् । तथा हि शरीरं हि मनुष्यत्वादिजातिगुणाश्रयपिण्डभूतं स्वतन्त्रं प्रतीयते । तस्मिन्न् एवाहम् इति संसारिणां प्रतीतिः । आत्माभिमानो यादृशस् तदनुगुणैव पुरुषार्थप्रतीतिः । सिंहव्याघ्रवराहमनुष्ययक्षरक्षःपिशाचदेवदानवस्त्रीपुंसव्यवस्थितात्माभिमानानां सुखानि व्यवस्थितानि । तानि च परस्परविरुद्धानि । तस्माद् आत्माभिमानानुगुणपुरुषार्थव्यवस्थया सर्वं समाहितम् । आत्मस्वरूपं तु देवादिदेहविलक्षणं ज्ञानैकाकारम् । तच् च परशेषतैकस्वरूपम् । यथावस्थितात्माभिमाने तदनुगुणैव पुरुषार्थप्रतीतिः । आत्मा ज्ञानमयो ऽमल इति स्मृतेर् ज्ञानैकाकारता प्रतिपन्ना । पतिं विश्वस्येत्यादि श्रुतिगुणैः परमात्मशेषतैकाकारता च प्रतीता । अतः सिंहव्याघ्रादिशरीरात्माभिमानवत् स्वातन्त्र्याभिमानो ऽपि कर्मकृतविपरीतात्मज्ञानरूपो वेदितव्यः । अतः कर्मकृतम् एव परमपुरुषव्यतिरिक्तविषयाणां सुखत्वम् । अत एव तेषाम् अल्पत्वम् अस्थिरत्वं च परमपुरुषस्यैव स्वत एव सुखत्वम् । अतस् तद् एव स्थिरम् अनवधिकातिशयं च कं ब्रह्म खं ब्रह्म आनन्दो ब्रह्म सत्यं ज्ञानम् अनन्तं ब्रह्मेति श्रुतेः । ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य वस्तुनः स्वरूपेण सुखत्वाभावः कर्मकृतत्वेन चास्थिरत्वं भगवता पराशरेणोक्तम्नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ।वस्त्व् एकम् एव दुःखाय सुखायेर्ष्यागमाय च ।कोपाय च यतस् तस्माद् वस्तु वस्त्वात्मकं कुतः ॥सुखदुःखाद्येकान्तरूपिणो वस्तुनो वस्तुत्वं कुतः । तदेकान्तता पुण्यपापकृतेत्यर्थः । एवम् अनेकपुरुषापेक्षया कस्यचित् सुखम् एव कस्यचिद् दुःखं भवतीत्यवस्थां प्रतिपाद्य, एकस्मिन्न् अपि पुरुषे न व्यवस्थितम् इत्याहतद् एव प्रीयते भूत्वा पुनर्सुःखाय जायते ।तद् एव कोपाय यतः प्रसादाय च जायते ॥तस्माद् दुःखात्मकं नास्ति न च किंचित् सुखात्मकम् ।इति सुखदुःखात्मकत्वं सर्वस्य वस्तुनः कर्मकृतं न वस्तुस्वरूपकृतम् । अतः कर्मावसाने तद् अपैतीत्यर्थः ।
यत् तु सर्वं परवशं दुःखम् इत्युक्तं तत्परमपुरुषव्यतिरिक्तानां परस्परशेषशेषिभावाभावात् तद्व्यतिरिक्तं प्रति शेषता दुःखम् एवेत्युक्तम् । सेवा श्ववृत्तिर् आख्यातेत्य् अत्राप्य् असेव्यसेवा श्ववृत्तिर् एवेत्युक्तम् । स ह्य् आश्रमैः सदोपास्यः समस्तैर् एक एव त्व् इति सर्वैर् आत्मयाथात्म्यवेदिभिः सेव्यः पुरुषोत्तम एक एव । यथोक्तं भगवतामां च यो ऽव्यभिचारेण भक्तियोगेन सेवते ।स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥इतीयम् एव भक्तिरूपा सेवा ब्रह्मविद् आप्नोति परम् तम् एवं विद्वान् अमृत इह भवति ब्रह्म वेद ब्रह्मैव भवतीत्यादिषु वेदनशब्देनाभिधीयत इत्युक्तम् । यम् एवैष वृणुते तेन लभ्य इति विशेषणाद् यम् एवैष वृणुत इति भवगता वरणीयत्वं प्रतीयते । वरणीयश् च प्रियतमः । यस्य भगवत्य् अनवधिकातिशया प्रीतिर् जायते स एव भगवतः प्रियतमः । तद् उक्तं भगवताप्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ।इति । तस्मात् परभक्तिरूपापन्नम् एव वेदनं तत्त्वतो भगवत्प्राप्तिसाधनम् । यथोक्तं भगवता द्वैपायनेन मोक्षधर्मे सर्वोपनिषद्व्याख्यानरूपम्न संदृशो तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् ।भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीतीह ॥धृत्या समाहितात्मा भक्त्या पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्नोतीत्यर्थः । भक्त्या त्व् अनन्न्यया शक्य इत्यनेनैकार्थ्यात् । भक्तिश् च ज्ञानविशेष एवेति सर्वम् उपपन्नम् ।
सारासारविवेकज्ञा गरीयांसो विमत्सराः ।प्रमाणतन्त्राः सन्तीति कृतो वेदार्थसङ्ग्रहः ॥